यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटः, पुं, (स्फुटतीति । स्फुट + अच् ।) स्फोटकः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । १ । १२ । “स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च वर्द्धते ॥” * ॥ स्फुट + भावे घञ् । विदारणम् । यथा, महा- भारते । ३ । ११ । ५८ । “तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा । शब्दः समभवत् घोरो वेणुस्फोटसमो युधि ॥” स्फुटते व्यज्यते वर्णरिति स्फुटत्यर्थो यस्मादिति वा । स्फुट विकसने + घञ् । शब्दव्यापार- विशेषः । तथा चोक्तम् । “वर्णानां वाचकत्वा- नुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोट इति वर्णातिरिक्तो वर्णाभिव्यङ्ग्योऽर्थप्रत्यायको नित्यः शब्दः स्फोटः ॥” यथा, हरिवंशे भविष्यपर्व्वणि । १६ । ५२ । “अक्षराणामकारस्त्वं स्फोटस्तं वर्णसंश्रयः ॥”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोट¦ पु॰ स्फटत्यर्थोऽनेन स्फुट--करणे घञ। व्याकरणोक्तेवर्णातिरिक्ते पूर्वपूर्ववर्णानुभवसहितचरमवर्णानुभवव्यङ्ग्येअर्थप्रत्यायके अखण्डे शब्दभेदे स्वार्थे क तत्रार्थे व्याक-रणमते वर्णसमुदयानां नार्थबोधकत्वं किन्तु सफोट-स्यैवेति प्रपञ्चितमस्माभिः शब्दार्थरत्ने यथा
“तत्र वर्णानां प्रत्युच्चारणमन्यथाप्रतीयमानतया{??}नित्य-त्वेन आशुविनाशिनाञ्च तेषां मेलनासम्बवेन तत्समुदा-यस्यापि सम्बन्धित्वाभावेन प्रत्येकं यर्णेषु वृत्तौ व्यभि-चारेण च पूर्वपूर्ववर्णानुभवाहितसंस्कारवीजवति अन्त्य-वर्णजनितपरिपाकशालिनि हृदये झटिति समुदीयमानस्यस्फोटरूपस्यैव शब्दस्य नित्यतया तत्रैव नित्यसम्बन्धस्ययोग्यतया वृत्तिमत्त्वमुचितसित्याकरे स्पष्टम्। तथाहि। वर्णा यदि वाचकाः स्युः स्यादेव तेभ्यो व्यस्तेभ्योऽर्था-वगतिः। न च तथा। प्रत्येकं वृत्तिमत्त्वाभांवेन तत्-समुदायस्य वृत्तिमत्त्वं सुदूरपराहतम्। आशुविना-शिनां वर्णानां मेलनासम्भवेन तत्समुदायत्वासिद्धेः पूर्व-पूर्ववर्णानुभवाहितसंस्कारसहितस्य चरमवर्णस्य वाच-कत्वन्तु सम्भावितमपि दिनान्तरीयतादृशसंस्कारा-नादाय वर्त्तमानचरमवर्णमात्रानुभवेन अर्थावगत्यापत्त्यानिरासितम्। अन्त्यवर्णपर्थ्यन्तानामनुभवानन्तरं समुदा-{??}नां सस्कारोदयकल्पनया पुनः समुटितवर्णानां स्मर-णात्मकज्ञानतोऽर्थावगतिरित्यपि न सङ्गतं जाराराजे-त्यादावविशेषेण तत्तद्वर्णसंस्कारसद्भावादुभयवैलक्षण्या-नुपपत्तेः। अतोऽवश्यं वर्णातिरिक्तोऽन्त्यवर्णानुभवव्यङ्ग्यःस्फोटनामा शब्दः स्वीकार्य्यः स्फुटत प्रकाशतेर्योऽने-नेति व्युत्पत्त्या च तस्य सार्थकनामता बोध्या समर्थित-श्चैष एव पक्षः पातञ्जलभाष्ये व्यासचरणैः
“तदेतेषा-मर्थसङ्केतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एकोबुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते तदेकंपदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागप्रक्रमवर्णं बौद्ध-मन्त्यवर्णप्रत्ययोपस्थापितं प्रतीयते” इत्यन्तेन। अत्रचानेकवर्णानां शक्ततावच्छेदकतापेक्षयैकस्यैव जातिरूप-स्फाटत्वस्य शक्ततावच्छेदकत्वकल्पने लाघवम प द्रष्ट-व्यम्। उक्तञ्च शब्दकौस्तुभे वोपदेवचरणैः
“शक्यत्वइव शक्तत्वे जातेर्लाघवमीक्ष्मताम्। औपाधिको वा[Page5372-a+ 38] भेदोऽस्तु वर्णानां तारमन्दवदिति”। तथा
“शृणोति यइमं स्फोटं सुप्ते श्रोत्रे च शून्यदृक्। येन वाक् व्यज्यतेयस्य व्यक्तिराकाश आत्मनः” इति मञ्जूषाधृतभागवतवचनेस्फोटात्मकशब्दश्रवणस्यात्मलिङ्गतोक्त्या स्फोटरूप-शब्दोऽर्थायात इत्यवगम्यम्। हरिवंशेऽपि
“अक्ष-राणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः” इति स्फोटस्यव्यञ्जकवर्णाश्रयत्वमभिहितम्। एतन्मताभिप्रायेणैव
“स्फोट इत्याहेति” शारीरकभाव्ये स्फटव्युत्पादनम्
“वर्णाएव तु शब्द इति भगवानुपवर्ष इति” निराकरणन्तू-{??}वर्ष ग्रहणात् तन्मताभिप्रायेण।
“न स्फटः प्रतीत्यप्रतीतिभ्यामिति” सांख्यसूत्रेऽपि स्फोटखण्डनमुपवर्षमता-भिप्रायेणेति सर्वं सुस्थम्। स च स्फाटोवर्णपदादि-भेदेन अनेकविधो बाहुल्यभयात् न प्रपञ्चितः। तस्यस्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वं चिरचिर-तरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनेरिति विवेफः। तथा च वाक्यपदीये
“स्फोटस्य ग्रहणे हेतुः प्राकृतोध्वनिरिष्यते” इति।
“स्थितिभेदे निमित्तत्वं वैकृतः प्रति-वद्यते” इति च स्थितिभेदे चिरचिरतरकालस्थितौ ध्वनिस्तु पूर्वलक्षितः। तस्य च स्फोटस्य नित्यतया ध्वनिगतह्रस्वदीर्घादिकालस्य तत्रोपचारः। प्रतिपादितञ्चतथैव वाक्यपदीये
“स्फाटस्याभिन्नकालस्य ध्वनिका-लानुपातिनः। स्वभावतस्तु नित्यत्वात् ह्रस्वदीर्घप्लुता-दिषु। प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्य्यते”। शब्दस्य स्फोटस्य नित्यतया अभिन्नकालस्य ह्रस्व-दीर्घादिषु प्राकृतध्वनेः कालः तारत्वादिधीहेतुरुपच-र्य्यते इति तदर्थः। एवञ्च विलम्बितोच्चारणस्थले तत्त-द्वर्णानां तद्वोधजनितसंस्काराणां वा बहुक्षणपर्य्यन्तस्थायित्वकल्पनामपेक्ष्य एकस्यैव शब्दस्याभिव्यक्त्यनन्तरंजायमानेन वैकृतेन ध्वनिना बहुकालस्थितिकल्पनेलाघवमित्यपि द्रष्टव्यम्। भेरीशब्दादौ च ध्वन्यभि-व्यक्त्यनन्तरं जायमानप्राकृतध्वनेर्बहुकालस्थायित्वदर्शनेनअत्रापि तथाकल्पनौचित्यात्। अतएव च महाभाष्ये
“एवं तर्हि स्फाटः शब्दो ध्वनिः शब्दगुणः” इत्यादिना-ऽभिव्यक्त्युपकारकत्वेन ध्वनेः स्फोटरूपशब्दगुणत्वमभिहितमभिहितञ्च ध्वनेर्ह्रस्वदीर्घत्वेनापि भानम् यथा
“ध्वनिः स्फोटस्य शब्दानां ध्वनिस्तु खलु लक्ष्यते। ह्रस्वो महांश्च केषाञ्चित् स्वयं नैव स्वभावतः” इति नस्वभावतस्तद्रूपेण स्फोटोलक्ष्यत इत्यर्थः। ध्वनिविकारे[Page5372-b+ 38] च वायुसंयोगविशेषस्य हेतुत्वं तस्य बहुकालस्थायित्वेविलम्बितत्वमल्पकालस्थायित्वे द्रुतत्वमिति विवेकः। एवंवहुविधेषु स्फटेषु वक्यस्फोटस्यैव सिद्धान्ते निष्-कृष्टतया तस्यैव बोधकत्वं तद्घटकपदानान्तु पदमध्यवर्त्ति-वर्णवत् निरर्थंकत्वं विशिष्टार्थद्योतनायैव तेषां प्रयो-गात्। तथा च
“ब्राह्मणार्थो यथा नास्ति कश्चित्ब्राह्मणकम्बले। देवदत्तादयोवाक्ये तथैव स्युर्निरर्थकाः” इति।
“पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च। वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चनेति” च वाक्य-पदीये पदाद्यसद्भावं दर्शयति। तथा
“वाक्यस्फाटो-ऽतिनिष्कर्षे तिष्ठतीति मतस्थितिरिति” हरिकारिकायांसिद्धान्ते वाक्यस्फोटस्यैव सिद्धिरिति प्रतिपादितम्”।

२ व्रणभेदे च (फोडा) राजनि॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोट¦ m. (-टः)
1. A boil, a tumour.
2. Breaking, bursting.
3. Revealing, disclosure, (as in नर्मस्फोट।)
4. The idea which bursts out or flashes on the mind when a sound is uttered. f. (-टा) The hood of the snake. E. स्फुट् to break or open, aff. घञ् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोटः [sphōṭḥ], [स्फुट् करणे घञ्]

Breaking forth, splitting open, bursting.

Disclosure; as in नर्मस्फोट.

A swelling, boil, tumour; अयमपरो गण्डस्थोपरि स्फोटः Mu. 5.

The idea which bursts out or flashes on the mind when a sound is uttered, the impression produced on the mind at hearing a sound; बुधैर्वैयाकरणैः प्रधान- भूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः K. P.1; also see Sarva. S. (पाणिनीयदर्शन).

The eternal sound recognised by the Mīmāṁsakas; दिशां त्वमवकाशो$सि दिशः खं स्फोट आश्रयः Bhāg.1.85.9; शृणोति य इमं स्फोटं सुपश्रोत्रे च शून्यदृक् 12.6.4. -Comp. -करः, -बीजकः the marking-nut plant.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फोट m. bursting , opening , expansion , disclosure(See. नर्म-स्फ्) MBh. Ka1v. etc.

स्फोट m. extension(See. कर-स्फ्)

स्फोट m. a swelling , boil , tumour Car. Sus3r.

स्फोट m. a little bit or fragment , chip L.

स्फोट m. crackling , crash , roar MBh. VarBr2S.

स्फोट m. (in phil. ) sound (conceived as eternal , indivisible , and creative) Sarvad.

स्फोट m. the eternal and imperceptible element of sounds and words and the real vehicle of the idea which bursts or flashes on the mind when a sound is uttered Pat.

स्फोट टकetc. See. p. 1270 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=स्फोट&oldid=257490" इत्यस्माद् प्रतिप्राप्तम्