स्वत्व
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वत्वम्, क्ली, (स्वस्य भावः । स्व + त्व ।) शास्त्र- सम्मतयथेष्टविनियोगार्हत्वम् । सप्तपदार्थाति- रिक्तपदार्थः । निरूपकतासम्बन्धेन स्वामित्वम् । यथा । स्वत्वञ्च यथेष्टविनियोगार्हत्वेन शास्त्र- बोधितत्वमिति प्राञ्चः ॥ अतिरिक्तपदार्थ इति शिरोमणिः ॥ स्वामित्वञ्च तन्निरूपकत्वम् । निरूपकतया तदेव वा । तच्च द्रव्यगतं गुण- गतञ्च द्रव्यस्य दानादिश्रुतेः । नीलं बा वृषमुत्- सृजेदित्यादौ लौहित्यादिगुणविशिष्टपारिमा- षिकनीलवृषोत्सर्गश्रुतेश्च । वस्तुतस्तु आत्म- समवेतं स्वामित्वमेवातिरिक्तपदार्थः । विक्रय- दानादीनां तन्नाशकत्वे क्रयप्रतिग्रदादीनाञ्च तद्धेतुत्वे सम्बन्धलाघवसम्भवात् तदेव निरूप- कतया स्वत्वव्यवहारहेतुः । अतएव निबन्धादौ भाविन्यपि स्वत्वमिति । अन्यथा प्रतिमासं प्रति- वर्षंवा देयत्वेन प्रतिश्रुतधाम्यादिरूपस्य भावित्वे तत्र तदुत्पत्त्यनुपपत्तेरिति चूडामणिसम्मतो लीलावतीरहस्यपन्थाः सम्नीचीनः । तत्र स्वत्व- धारावारणाय सजातीयस्वत्वं प्रतिस्वत्वं विरोधि सजातीयमिति करणात् पराजितनृपतिराज्या- न्तर्व्वर्त्तितत्तत्पुरुषीयक्र मागतस्थावरादौ जया- दिना जेतुर्नृपतेः करग्रहणोपयोगिस्वत्वोत्पादे तथा क्रीते अतिगृहीतराज्यान्तर्व्वर्त्तिनि तादृश- स्थावरादौ च क्रेत्रादेः क्रयाद्यधीनस्वत्वोत्- पादेऽपि न व्यभिचार इति संक्षेपः । इति दायभागटीकायां श्रीकृष्णतर्कालङ्कारः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वत्व¦ न॰ स्वस्य भावः त्व। द्रव्याणां यथेष्टक्रयविक्रयादिक्रि-यासु विनियोजके
१ धर्मभेदे
२ स्वाभित्वे च, तच्च सम्बन्ध-भेदेन द्रव्यगतमात्मगतञ्च। स्वत्वपदार्थस्तु दायभा॰ टोकायांश्रीकृष्णतर्कालङ्कारेण निरूपितो यथा
“स्वत्वञ्च यथेष्टविनियोगार्हत्वेन शास्त्रबोधितत्वमितिप्राञ्चः। अति{??}क्तः पदार्थ इति शिरोमणिः। स्वामि-त्वञ्च तन्निरूपक्तत्वं निरूपकतया तदेव वा तच्च द्रव्यगतंगुणगतञ्च द्रव्यस्य दानादिश्रुतेः नीलं वा वृषमुत्सृजे-दित्यादौ लौःहत्यादिगुणावशिष्टपारिभाषिकनीलवृषोत्-सर्गश्रुतेश्च। वस्तुतस्तु आत्मसमवत स्वामित्वामतिरिक्तःपदार्थः विक्रयदानादीनां तन्नाशकत्वेतद्धेतुत्वे च सम्ब-न्धलाघवात् तदेव निरूपकरया स्वत्वव्यवहारहेतुः विष-यतया ज्ञाततावत्। अतएव निबन्धादौ भाविन्यपिस्वत्वम् अन्यथा प्रतिमासं प्रतिवर्षं वा देयत्वन प्रति-श्रुतस्य धान्यादिरूपस्य भावित्वेन तत्र तदुत्पत्त्यनुपपत्तेरिति चूडामणिसम्मतोलीलावतीरहस्यसिद्धः समी-चीलः पन्थाः। तच्च स्वत्व लौकिकमिति मिता॰ व्यवस्थापितं यथा
“स्वत्वमेव तावन्निरूप्यते किं शास्त्रैकसमधिगम्यं स्वत्वमुतप्रमाणान्तरसमधिगम्यमिति। तत्र शास्त्रैकसमधिगम्य-मिति तावद्युक्तं गौतमवचनात्। स्वामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्ध क्षत्र-गस्य विजित निर्विष्टं वैश्यशूद्रयोरिति” प्रभाणान्तर-गम्ये स्वत्वे नेदं वचनम्। तथा स्तेनातिदेशे मनुः
“योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम्। या-जनाध्यापनेनापि यथा स्तनस्तथैव सः” इत्यदत्तादायिनःसकाशात् याजनादिकरणन द्रव्यमर्जयतां दण्डविधान-मनुपपन्नं स्यात् स्वत्वस्य लौकिकत्वे। अपि च। लौकिकं चेत् स्वत्वं मम स्वमपहृतमनेनेति न मयात्अपहर्तुरेव स्वत्वादथान्यस्य स्वन्तेनापहृतमिति नाप-हर्तुः स्वम्। एवं तर्हि सुवर्णरजतादिस्वरूपवदस्य वास्वमन्यस्य वा स्वमिति सशयोन स्वात् तस्मा{??}स्त्रं{??}-समधिगम्यं स्वत्वमिति। अत्रोच्यते। कौकिकमेव स्वत्व-लौकिकार्थक्रियासाधनत्वात् व्रोह्यादिवत्। आह-वनीयादीनां हि शास्त्रगस्यानां न लीकिलक्रियासाध-[Page5377-a+ 38] नत्वमस्ति। नन्वाहवनीयादीनामपि पाकादिसाधनत्वमस्त्वेव। नैतत्। न हि तत्राहवनींयादिरूपेणपाकादिसाधनत्वं किं तर्हि प्रत्यक्षादिपरिदृश्यमाना-ग्म्यादिरूपेण।{??}ह तु सुवर्णादिरूपेण न क्रयादिसाधनत्वमपि तु स्वत्वेनैव। न हि यस्य यत्स्वं नभवति तत्तस्य क्रयाद्यर्थक्रियां साधयति। अपि चप्रत्यन्तवासिनामप्यदृष्टशास्त्रव्यवहाराणां स्वत्वव्य्वहारोदृश्यते क्रयविक्रयादिदर्शनात्। किञ्च। नियतोपायकंस्वत्वं लोकसिद्धमेवेति न्यायविदो मन्यन्ते। तथा हिंलिप्सासूत्रे तृतीयवर्णके द्रव्यार्थननियमानां क्रत्वर्थत्वेस्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति पूर्वपक्ष-सम्भायमाशङ्ख्य द्रव्यार्जनस्य पितग्रहादना स्वत्वसाधनत्वंलोककिद्धमिति पूर्वपक्षः समर्थितो गुरुणा। ननु द्रव्या-र्{??}नस्य क्रत्वर्थत्वे स्वमेव न भवतीति याग एव न संप्रवत्तेत। प्रलपितमिदङ्गेनापि अर्जनं स्वत्वं नापादय-तीति विप्रतिसिद्धमिति वदता। तथा सिद्धद्वान्तेऽपि स्वत्वस्यलौलिकत्वमङ्गीकृत्यैव विचारप्रयोजनमुक्तम्। अतो नि-यमातिक्रमः पुरुषस्य न क्रतोविति। अस्य चार्थ एवंविवृतः। यदा द्रव्यार्जगनियमानां क्रत्वर्थत्वं तदानियषार्जितेनैव द्रव्येण क्रतुसिद्धिः। नियमातिक्रमा-र्जितेन द्रव्येण न क्रतुमिद्धिरिति न पुरुषस्य नियमाति{??}मदोषः पूर्वपक्षे। सिद्धान्ते तु अर्जननियमस्य पुरुषार्थत्वात्तदतिक्रमेणार्जितेनापि द्रव्येण{??}तसिद्धिर्भयति। पुरुषस्यैव नियमातिकसाद्दोष इति नियनातिक्रमार्जित-स्यापि स्वत्वमङीकृतम् अन्यथा क्रतुसिद्ध्यभावात्ग चैतावता चौर्य्यादिप्राप्तस्य पि स्वत्वं स्यादिति प्रन्तव्यम्लोके तत्र स्वत्वप्रसिद्ध्यभावाद् व्यवहारविसवादाच्च। एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके स्थिते ब्राह्मणस्यप्रतिग्रहादय उपायाः। क्षत्रियस्य विजितादय उपायावैश्यस्य कृष्यादयः शूद्रस्य शुश्रूषादय इत्यदृष्टार्था नि-यमाः। ऋक्थादयस्तु सर्वसाधारणाः
“स्वामी ऋक्थ-क्रयसंविभागपरिग्रहाधिगमेष्वित्युक्ताः। तत्राप्रति-बन्धा दायो रिक्थम्। क्रयः प्रसिद्धः संयिभागः सप्रतिबन्धो दायः। परिग्रहोऽनन्यपूवस्य जलतृणकाष्ठादेःस्वाकारः। अधिगमो निधादेः प्राप्निः। एतषु निमित्तेषु सत्सु खामी भवति। ज्ञातेषु ज्ञायते स्वामीब्राह्मणस्याधिकं लब्धमिति ब्राह्मणस्य प्रतिग्रहाद् अन” यल्लब्ध तदधिकमसाधारणम्। क्षत्रियस्य विजितमित्य[Page5377-b+ 38] त्राधिकमित्यनुवर्तते क्षत्रियस्य विजयदण्डादिलब्ध्रमसा-धारणम्। निर्विष्टं दैश्यशूद्रयोरिति। अत्राप्यधिक-मित्यनुवर्त्तते वैश्यस्य कृषिगोरक्षादिलब्धन्निर्विष्टं तद-साधारणं शूद्रस्य द्विजशुश्रुषादिना भृतिरूपेण यल्लब्धंतदसाधारणमेवमनुलोमजानां प्रतिलामजानञ्च लोक-प्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारणमुक्तम्
“सूतानामश्व-सारथ्यम्” इत्यादि तत्तत् सर्वं निर्विष्टशब्देनोच्यते सर्वस्यापिभृतरूपत्वात्
“निर्वेशी भृतिभोगयीरिति” त्रिकाण्डी-स्मरणात्। तत्तदसाधारणं वेदितव्यम्। यदपि पत्नी-दुहितरश्चेत्यादिस्मरणम्। तत्रापि स्वामिसम्बन्धितयाबहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वेव्यमोहमिवृत्त्यर्थं स्मरणमिति सर्वमनवद्यम्”। तच्च स्वत्वं जन्मनैवेति मिताक्षरादयः। पित्रादिमरणा-दिनैवति दायभागादयः। तत्रापि समुदायद्रव्ये स्वत्वमितिमिताक्षरादयः। प्रदेशभेदे इति दायभागादयः। तत्तद्-ग्रन्थ विस्तरा दृश्यः
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वत्व¦ n. (-त्वं)
1. Self-existence, independent being or condition.
2. Own right or property, ownership, proprietary right, (in law.) E. स्व own, and त्व aff. of the abstract; also स्वत्ता |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वत्वम् [svatvam], 1 Self-existence.
Ownership, proprietory right. -Comp. -निवृत्तिः, -हानिः loss of proprietory right. -बोधनम् proof of ownership. -हेतुः cause of proprietory right.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वत्व/ स्व--त्व n. proprietary right to , property in( loc. ) Katha1s. BhP.
स्वत्व/ स्व--त्व n. self-existence , independence Ka1t2h. MaitrS.
स्वत्व/ स्व--त्व n. relationship to -oone's self MW.