यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभावः, पुं, (स्वस्य भावः ।) स्वकीयभावः । तत्पर्य्यायः । संसिद्धिः २ प्रकृतिः ३ स्वरूपम् ४ निसर्गः ५ । इत्यमरः । १ । ७ । ३८ ॥ भावः ६ । इति शब्दरत्नावली ॥ सर्गः ७ । इति जटा- धरः ॥ स्वत एव आविर्भावः । यथा, -- “बहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकीर्त्तितः । निसर्गश्च स्वरूपञ्चेत्येषोऽपि भवति द्विधा ॥ निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते । अजन्यस्तु स्वतः सिद्धः स्वरूपं भाव इष्यते ॥” इत्युज्ज्वलनीलमणिः ॥ “वचनेषु च बुद्धौ च स्वभावे च चरित्रतः । आचारे व्यवहारे च ज्ञायते हृदयं नृणाम् ॥ * ॥ लोकाः कर्म्मवशीभूतास्तत् कर्म्म यत् कृतं पुरा । स्वकर्म्मणां फलं भुङ्क्ते जन्तुर्जन्मनि जन्मनि ॥ केचिद्वदन्तीति भवेत् स्वकृतेन च कर्म्मणा । केचिद्वदन्ति दैवेन स्वभावेनेति केचन ॥ त्रिविधाश्च मता वेदे वेदवेदाङ्गपारगाः ॥ स्वयञ्च कर्म्मजनकस्तत् कर्म्म दैवकारणम् । स्वभावो जायते नॄणामात्मनः पूर्ब्बकर्म्मणा ॥ * ॥ स एवात्मा संर्व्वसेव्यः सर्व्वेषाञ्च फलप्रदः । स च सृजति दैवञ्च स्वभावं कर्म्म एव च ॥ * ॥ अहो श्रीकृष्णदासानां कः स्वभावः सुनिर्म्मलः । हृतभार्य्यमुच्छितञ्च न शशाप रिपुं गुरुः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ५७ । २१ -- २८ । २१ । ४१ ॥ अपि च । “सुदिनं दुर्द्दिनञ्चैव सर्व्वं कर्म्मोद्भवे भव । तत् कर्म्म तपसां साध्यं कर्म्मणाञ्च शुभाशुभम् ॥ तपः स्वभावसाध्यञ्च स्वभावोऽभ्यासतो भवेत् । संसर्ग साध्योऽभ्यासश्च संसर्गः पुण्यतो भवेत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४३ । ५१ -- ५२ ॥ अन्यच्च । चाणक्यवाक्यम् । “स्वभावो यादृशो यस्य न जहाति कदाचन । अङ्गारः शतधौतेन मलिनत्वं न मुञ्चति ॥” “सर्व्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान् सर्व्वान् स्वभावो मूर्द्ध्नि वर्त्तते ॥” इति हितोपदेशे मित्रलाभनामप्रथमकथा- संग्रहः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभाव पुं।

स्वभावः

समानार्थक:संसिद्धि,प्रकृति,स्वरूप,स्वभाव,निसर्ग,अनूक,सर्ग,आत्मन्,धर्म,शील,भाव

1।7।38।1।2

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः। कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥

 : सुस्वभावः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभाव¦ पु॰ स्वस्य भावः।

१ निसर्गे अजन्ये स्वतःसिद्धे भावेच अमरः।
“वहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकीर्त्तितः। निसर्गश्च स्वभावच इत्येष भवति द्विधा। निसर्गः सुदृढभ्यासजन्यः संस्कार उच्यते। अजनयस्तुस्वतः सिद्धः स्वरूपो भाव उच्यते” उज्ज्वलद॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभाव¦ m. (-वः)
1. Nature, natural state, property or disposition.
2. Purpose, intention. E. स्व own, and भाव property.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभाव/ स्व--भाव m. ( ifc. f( आ). )native place Vishn2.

स्वभाव/ स्व--भाव m. own condition or state of being , natural state or constitution , innate or inherent disposition , nature , impulse , spontaneity

स्वभाव/ स्व--भाव m. ( वात्or वेनor व-तस्or ibc. ) , (from natural disposition , by nature , naturally , by -oone's self , spontaneously) S3vetUp. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वभाव&oldid=507810" इत्यस्माद् प्रतिप्राप्तम्