यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वम्, पुं, क्ली, (स्वन शब्दे + अन्येभ्योपीति डः ।) धनम् । इत्यमरः । ३ । ३ । २१० ॥ (यथा, मनुः । ८ । ४१७ । “विस्रब्धं ब्राह्मणः शूद्रात् द्रव्योपादनमाचरेत् । नहि तस्यास्ति किञ्चित् स्वं भर्त्तृहार्य्यधनो हि सः ॥”

स्वम्, त्रि, आत्मीयम् । इत्यमरः । ३ । २१० ॥ (यथा, कथासरित्सागरे । २६ । १०५ । “मया त्वद्य प्रवेष्टव्या स्वा तनुश्च पुरी च सा ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्वम्&oldid=180033" इत्यस्माद् प्रतिप्राप्तम्