स्वर्ग
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्गः, पुं, (स्वरिति गीयते इति । मै + कः । यद्वा, सुष्टु अर्ज्यते इति । अर्ज अर्जने + घञ् । शङ्कादित्वात् कुत्वम् ।) देवतानामालयः । तत्- पर्य्यायः । स्वः २ नाकः ३ त्रिदिवः ४ त्रिदशा- अयः ५ सुरलोकः ६ द्योः ७ द्यौ ८ त्रिपि- ष्टपम् ९ । इत्यमरः । १ । १ । ६ ॥ मन्दरः १० अवरीहः ११ गौः १२ रमतिः १३ फलो- दयः १४ । इति जटाधरः ॥ देवलोकः १५ स्वर्लोकः १६ ऊर्द्ध्वलोकः १७ सुखाधारः १८ सौरिकः १९ शक्रभुवनम् २० दिवानम् २१ । इति शब्दरत्नावली ॥ * ॥ तस्य गुणदोषा यथा, -- सुबाहरुवाच । “स्वर्गस्य मे गुणान् ब्रूहि साम्प्रतं द्विजमत्तम । एतत् सर्व्वं द्विजश्रेष्ठ करिष्यामि न संशयः ॥ जैमिनिरुवाच ॥ नन्दनादीनि दिव्यानि रम्याणि विविधानि च । तत्रोद्यानानि पुण्यानि सर्व्वकामशुभानि च ॥ सर्व्वकामफलैर्वृक्षैः शोभितानि ममन्ततः । विमानानि सुदिव्यानि परितान्यप्सरोगणैः ॥ सर्व्वत्रैष विघित्राणि कामगानि रसानि च । तरुणादित्यवर्णानि मुक्ताजालान्तराणि च ॥ चन्द्रमण्डलशुभ्राणि हेमशय्यासनानि च । सर्व्वकामसमृद्धाश्च सुखदुःखविवर्जिताः ॥ नराः सुकृतिनस्ते तु विचरन्ति यथासुखम् । न तत्र नास्तिका यान्ति न स्तेया नाजितेन्द्रियाः ॥ न नृशंसा न पिशुनाः कतघ्ना न च मानिन । मत्यास्तपःस्थिताः शूरा दयावन्तः क्षमापराः ॥ यन्वानो दानशीलाश्च तत्र गच्छन्ति ते नराः । न रोगो न जरा मृत्युर्न शोको न हिमादयः ॥ न तत्र क्षुत्पिपासा च कस्य ग्लानिर्न दृश्यते । एते चान्ये च वहवो गुणाः सन्ति च भूपते ॥ दोषास्तत्रैव ये सन्ति तान् शृणुष्व च साम्प्रतम् । शुभस्य कर्म्मणः कृतुस्नं फलं तत्रैव भुज्यते । ततो योजनमानेन द्विगुणो मण्डलेन तु ॥ जनलोकस्थितो विप्र पञ्चमो मुनिसेवितः । तस्योपरि तपोलोकश्चतुर्भिः कोटिभिः स्मृतः ॥ सत्यलोकोऽष्टकोटीभिः सर्व्वेषामुपरिस्थितः । सर्व्वे छत्राकृतिर्ज्ञेया भुवना भुवनोपरि ॥ ब्रह्मलोकाद्विष्णुलोको द्विगुणेन व्यवस्थितः । वाराहे तस्य माहात्म्यं कथितं लोकचिन्तकैः ॥ ततः परं द्विजश्रेष्ठ ततो ह्यण्डकपालकम् । ब्रह्माण्डात् परतः साक्षात् निर्लेपः पुरुषः स्थितः ॥ यमुपास्य विमुच्येत तपोज्ञानसमन्विताः । इति ते संस्थितिः प्रोक्ता भूगोलस्य मयानघ ॥ यस्तु सम्यगिमां वेत्ति स याति परमां गतिम् ।” इति नृसिंहपुराणे ३० अध्यायः ॥ पारिभाषिकस्वर्गो यथा, -- “मनोऽनुकूलाः प्रमदा रूपवत्यः स्वलङ्कृताः । वासः प्रासादषष्ठेषु स्वर्गः स्याच्छुभकर्म्मणः ॥” इति गारुडे । १०९ । ४४ ॥ न्यायमते स्वर्गलक्षणं यथा । दुःखासम्भिन्न- त्वादिविशिष्टसुखत्वं स्वर्गत्वं तदेव स्वर्गपदशक्य- तावच्छेदकमिति सिद्धान्तः । आदिपदेन अन- न्तरदुःखग्रस्तभिन्नत्वाभिलाषोपनीतत्वयोःपरि- ग्रहः । अतएव । “यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदम् ॥” इति स्वरादिपदशक्तिग्राहकार्थवादोऽपि संग- च्छते । इति गदाधरभट्टाचार्य्यकृतवादार्थः ॥ * ॥ किञ्च । “मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्य्ययः । नरकस्वर्गसंज्ञेवै पापपुण्ये द्विजोत्तमाः ॥” इति ब्रह्मपुराणे १९ अध्यायः ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्ग पुं।
स्वर्गः
समानार्थक:स्वर्,स्वर्ग,नाक,त्रिदिव,त्रिदशालय,सुरलोक,द्यो,दिव्,त्रिविष्टप,गो
1।1।6।1।2
स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयः। सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्.।
अवयव : देवसभा
सम्बन्धि2 : देवः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्ग¦ पु॰ स्वरिति गीयते गै--क सु + ऋज--घञ् वा।
१ दुःखा-सम्भिन्ने सुखे
२ देवानाभावासस्थाने च अमरः। स्वर्गकारणस्वरूपादिकं भा॰ व॰
२६
० अ॰ उक्तं यथा
“उपरिष्टाच्च स्वर्लोको योऽयं स्वरिति संज्ञितः। ऊर्द्ध्वगःसत्पथः शश्वद्देवयानचरो मुने!। नातप्नतपसः पुंसोनामहायज्ञयाजिनः। नानृता नास्तिकाश्चैव तत्र गच्छन्तिमुद्गल!। धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्-सराः। दानधर्मरताः लोका शूराश्चाहवलक्षणाः। तत्रगच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम्। लोकान्पुण्यकृतान् ब्रह्मन्! सद्भिराचरितान्नृमिः। देवाः सा-ध्यास्तथा विश्वे तथैव च महर्पयः। यामा धामाश्च मौ-द्गल्य! गन्धर्वाप्सरसस्तथां। एषां देवनिकायानां पृथक्पृथगनेकशः। भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाःशुभाः। त्रयस्त्रिंशतसहस्राणि योजनानि हिरण्मयः। मेरुः पर्वतराड् यत्र दिव्योद्यानानि सौद्गज!। नन्दाना-दोनि पुण्यानि विहाराः पुण्यकर्मणाम्। न क्षुत्पिपामेन ग्लानिर्न शीतोष्णे भयं तथा। बीभत्समशुभं वा-ऽपि तत्र किञ्चिन्न विद्यते। मनोज्ञाः सर्वतो गन्धाःमुखस्पर्शाश्च सर्वशः। शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्रवै मुने!। न शोको न जरा तत्र नायासपरिदेवने। ईदृशः स मुने! लीकः स्वकर्मफलहेतुकः। सुकृतैस्तत्रपुरुषाः सम्भवन्त्यात्मकर्मभिः। तैजसानि शरीराणिभवन्त्यत्रोपपद्यताम्। कर्मज न्येव मौद्गल्यो!। न मातृ-पितृजान्युत। न संस्वेदो न दौगन्ध्यं पुरीषं मूत्रमेव[Page5384-a+ 38] च। तेषां न च रजो वस्त्रं बाधते तत्र वै मुने!। नम्लावत्वि स्रजस्तेषां दव्यगन्धा सनोरमाः। संयुज्यन्तेविमानैश्च ब्रह्मन्नेवंविधैश्च ते। ईर्षाशोकक्लमापेता मोह-मात्शर्य्यवजिताः। सुखं स्वर्गजितस्तत्र वर्त्तयन्ते महा-मुने!। तेषां तथाविधानान्तु लोकानां मुनिपुङ्गव!। उपर्य्यपरि लोकस्य लोका दिव्या गुणान्विताः। पुरस्ताद्ब्रह्मणास्तत्र लोकास्तेजीमयाः शुभाः। यत्र यान्त्यृ-षथो ब्रह्मन्! पूताः स्वैः कर्मभिः शुभैः। ऋभवो नामतत्र न्ये देवानासपि देवताः। तेषां लोकाः परतरे यान्यजन्तीह देवताः। स्वयस्प्रभास्ते भाम्वन्तो लोकाः काभदुचाः परे। न तेषां स्त्रीकृतस्तापी न लोकैश्वर्य्यमत्-सरः। च वर्त्तयन्त्याहुतिभिस्तेनाप्यभृतभोजनाः। तथा दिव्यशरीरास्ते न च विग्रहमूर्त्तयः। न सुखेसुखकामास्ते देवदेवाः सनातनाः। न कल्पपरिवर्त्तेषुपरिवर्त्तन्ति ते तथा। जरा मृत्युः कुतस्तेषां हर्षःपीतिसुखं न च। न दुःखं न सुखञ्चापि रागद्वेषौकुतो मुने!। देवानामपि मौद्गल्य! काङ्क्षिता सागतिः परा। दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः। त्रयस्त्रि शदिमे देवा येषां लोका मनीषिभिः। गम्यन्ते नियसैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः। सेयं दान-कृता व्युष्टिरनुप्राप्त्वा सुखं त्वया। तां भुङ्क्ष्व सुकृतै-ल{??} तपस्याद्योतितप्रभः। एतत् स्वर्गसुखं विप्र! लोकानानाविधास्तथा। गुणाः स्वर्गस्य प्रोक्तास्ते दीषानपिनिबोध मे। कृतस्य कर्मणस्तत्र भुज्यते यत् फलं दिवि। न चान्यत् क्रियते कर्म मूलच्छेदेन भुज्यते। सोऽत्रदोषो मम मतस्तस्यान्ते षतनञ्च यत्। सुखव्याप्तमत्स्कानां पतनं यच्च मुद्गल!। असन्तोषः परीतापोदृष्ट्वा दोप्ततराः श्रियः। यद्भवत्यवरे स्थाने स्थितानां तत्सुदुष्करम्। संज्ञा मोहश्च पततां रजसा च प्रधर्षणम्। प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम्। आब्रह्मभव-नादेते दोषा मौद्गल्य! दारुणाः। ताकलोके सुकृतिनांगुणास्त्वयुतशो नृणाम्। अय त्वन्यो गुणः श्रेष्ठश्च्युतानांस्वर्गतो मुने!। शुभानुशययोगेन मनुष्येषूपजायते। तत्रापि स महाभागः सुखभागभिजायते। न चेत्सम्बुध्यते तत्र गच्छत्यधमतां ततः। इह यत् क्रियतेकर्म तन् परत्रोपभुज्यते। कर्मभूमिरिवं व्रह्मत्! फलभूमिरमो मतः”। स च लोकी भूरादिषु ऊर्द्ध्वस्थस्तृतीयः।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्ग¦ m. (-र्गः) Heaven, INDRA'S paradise, and the residence of deified mortals and the inferior gods. E. मु happiness, ऋज् to go, or obtain, aff. घञ् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्गः [svargḥ], Heaven, Indra's paradise; अहो स्वर्गादधिकतरं निर्वृतिस्थानम् Ś.7. -Comp. -आपगा the celestial Ganges.-ओकस्, -सद् m. a god, deity; स्वर्गः स्वर्गसदश्चैव धर्मश्च स्वयमेव तु (उपतिष्ठतु) Mb.14.92.27. -काम a. desirous of heaven. -गतिः, -गमनम् death. -गिरिः the heavenly mountain Sumeru. -तरङ्गिणी the Ganges; पश्य स्वर्गतरङ्गिणी- परिसरे Sūkti.62. -तर्षः eager desire for heaven. -द, -प्रद a. procuring (entrance into) paradise. -द्वारम् heaven's gate, the door of paradise, entrance into heaven; स्वर्गद्वारकपाटपाटनपटुर्धर्मो$पि नोपार्जितः Bh.3.11.-पतिः, -भर्तृ m. Indra. -पथः the milky way. -पर a. desirous of heaven.
मार्गः the road to heaven.
the milky way. -रोदःकुहरः the hollow space between heaven and earth; टाङ्कारः स्वर्गरोदःकुहरवलयितस्त्रासकारी न कस्य B. R.1.49.
लोकः the celestial region.
paradise. ˚ईश्वरः
Indra.
the body (as enjoying felicity in Indra's heaven). -वधूः, -स्त्री f. a celestial damsel, heavenly nymph, an apsaras; स्वर्गस्त्रीणां परिष्वङ्गः कथं मर्त्येन लभ्यते. -वासः residence in heaven.-साधनम् the means of attaining heaven.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्ग/ स्वर्--ग See. below.
स्वर्ग mfn. (or सुवर्ग)going or leading to or being in light or heaven , heavenly , celestial (with लोकm. or pl. = " the world of light , heavens ") AV. etc. Page1281,3
स्वर्ग m. heaven , the abode of light and of the gods , heavenly bliss , ( esp. ) इन्द्र's heaven or paradise (to which the souls of virtuous mortals See. transferred until the time comes for their re-entering earthly bodies ; this temporary heaven is the only -hheaven of orthodox Brahmanism ; it is supposed to be situated on mount मेरुSee. ; acc. with गा, आ-स्था, or आ-पद्, " to go to heaven " , " die ") RV. only x , 95 , 18 AV. etc.
स्वर्ग m. a partic. एका-हS3a1n3khS3r.
स्वर्ग m. N. of a son of the रुद्रभीमVP.
स्वर्ग etc. See. p. 1281 , col. 2.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a son of जामि and Dharma, father of Nandi. भा. VI. 6. 6.
(II)--a son of भीम and Diks. Br. II. १०. ८२; २७. ५४.
(III)--the heaven; फलकम्:F1: वा. ३४. ९६; ४१. ८२; १०३. ४२; १०८. ७६ and ८४.फलकम्:/F seven gates for; tapas, दान, साम, dama, ह्रीः, आर्जवम्, and sympathy for all creatures; फलकम्:F2: M. ३९. २२.फलकम्:/F all these possessed by शिबि; फलकम्:F3: Ib. ४२. २०.फलकम्:/F reached by ययाति with his four grandsons; फलकम्:F4: Ib. ४२. २८.फलकम्:/F for the worship of Agastya. फलकम्:F5: Ib. ५५३. २९; ६१. ५५.फलकम्:/F