यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकः, पुं, (हंस इव कायति मधुरध्वनित्वात् । कैशब्दे + कः ।) पादकटकः । यथा, -- “पादाङ्कदं तुलाकोटिर्मञ्जीरो नूपूरोऽस्त्रियाम् । हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका ॥” इत्यमरः । २ । ६ । १०९ ॥ “षट् नूपुरे । केचित्तु पादाङ्गदादिचतुष्कं चरण- भूषणे नूपुर इति ख्याते । हंसकादिद्वयं रवशून्ये हंसाकृतिचरणभूषणे इत्याहुः । हंस इव कायति मधुरध्वनित्वात् हंसकः । कै शब्दे डः । हंसाकृतित्वात् हंस इव हंसकः इति वा । इवार्थेविकारसंघ इत्यादिना कः ।” इति भरतः ॥ (हंस इवेति । इवे प्रतिकृताविति कन् । स्वार्थे कन् वा) राजहंसः । इति शब्दचन्द्रिका ॥ (यथा, माघे । ७ । २३ । “सरित इव सविभ्रमप्रवात- प्रणदितहंसकभूषणा विरेजुः ॥” तालप्रभेदः । यथा, -- “लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतः ॥” इति सङ्गीतदामोदरः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकः [haṃsakḥ], 1 A goose, flamingo.

An ornament for the ankles (नूपुर or पादकटक); सरित इव सविभ्रमप्रपातप्रणदित- हंसकभूषणा विरेजुः Śi.7.23 (where the word is used in the first sense also); Dk.2.5; पादलग्नेनेव कलहंसयुगेन हंसक- युगलेन परिष्कृताभ्यां पादकमलाभ्यां ...... Cholachampū p.6.

A particular beating of time in music; L. D. B. See हंस above for other senses.

"https://sa.wiktionary.org/w/index.php?title=हंसकः&oldid=265115" इत्यस्माद् प्रतिप्राप्तम्