हठयोग
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हठयोगः, पुं, (हठेन योगः ।) योगविशेषः । यथा, -- “इदानीं हठयोगस्तु कथ्यते हठसिद्धिदः । कृत्वासनं पवनाशं शरीरे रोगहारकम् ॥ पूरकं कुम्भकञ्चैव रेचकं वायुना भजेत् । इत्थं क्रमोत्क्रमं ज्ञात्वा पवनं स्मधयेत् सदा ॥ धौत्यादिकर्म्मषट्कञ्च संस्कुर्य्याद्धठसाधकः । एतन्नाड्यान्तु देवेशि ! वायुपूर्णं प्रतिष्ठितम् ॥ ततो मनो निश्चलं स्यात्तत आनन्द एव हि । हठयोगान्न कालः स्यान्मनः शून्ये भवेद्यदि ॥ इदानीं हठयोगस्य द्वितीयं भेदवत् शृणु । आकाशे नासिकाग्रे तु सूर्य्यकोटिसमं स्मरेत् ॥ श्वेतं रक्तं तथा पीतं कृष्णमित्यादिरूपतः । एवं ध्यात्वा चिरायुः स्यादङ्गाजननवर्ज्जितः ॥ शिवतुल्यो महात्मासौ हठयोगप्रसादतः । हठाज्ज्योतिर्म्मयो भूत्वा ह्यन्तरेण शिव भवेत् । अतोऽयं हठयोगः स्यात् सिद्धिदः सिद्धसेवितः ॥” इति योगस्वरोदयः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हठयोग¦ पु॰ हठेन बलात्कारेण योगः। प्राणायामादिक्रि-याभ्यासजे राजयोगं विनैव परमात्मसाक्षात्काररूपेचित्तवृत्तिरोधात्मके योगे। योगश्च द्विविधः हठयोगः राजयोगश्च। तत्र हठयोगःक्रियाविशेषसाध्यः हठदीपिकादावुक्तप्रकारः। राजयो-गस्तु भावनाविशेषसाध्यः पातञ्जलादावुक्तः। स च पत-ञ्जश्चिशब्दे
४२
०४ पृ॰ दर्शितः। हठयोगोऽत्र साङ्गाऽभिधीयतेतत्साधनप्रशंसादिः उभवयोगयोरपि परपरसापेक्षतया[Page5397-a+ 38] एककार्य्याकरत्वम्।
“हठं विना सिव्यति राजयोगोनर्त्ते हठाच्चापि न राजयोगः। तदाभ्यसेत् पूर्वमतःसुनिष्पत्त्यन्तं हठं सद्गुरुतोऽभिलब्धम्। अभ्यासेनविना दृढेन सुचिरं साङ्गस्य योगस्य वा योगी यातिन राजयोगपदवीं मध्येऽन्तरालैर्युताम्। वृद्धो वातरुणः सरुक् च शनकैर्योगेऽस्ततन्त्रः क्रियायुक्तःसिद्धिमुपैति शास्त्रपठनान्ना योगसिद्धिर्भवेत्। यो ना-स्तिकोऽभ्यासविहीन उग्रश्चण्डप्रियो वै बहुभाषितोयः। अपथ्यशीलोऽमितभुगदरिद्रो न योगसिद्धिंलभते कदाचित्। योगस्य वीजं परमं क्रियैव क्रियैवयोगस्य फलप्रदात्री। सङ्केतविद्योगगुरोः प्रलब्धासुधीरतो योगपरस्य नान्यत्। स्यात् सङ्गः सिद्धतीर्थैर्यदिसुकृतवशात् प्राग्भवाभ्यासजोऽयं यद्द्वारा पश्चिमेनत्वरितमिह फलं दृश्यते क्वापि लाके। तत्सर्वं नान्यनाड्या शिरसि परिगतेनानिलेनेक्ष्यतेऽदस्तस्मादभ्यास एवत्वरितलघुभिदायोगतस्तीर्थलब्धात्। अवृत्तिकस्यात्मनिशान्तवाहसम्पादानार्थं मनसः प्रयत्नः। अभ्यास एवंचिरकालः सेवितः सत्कारवान् स्याद् दृढभूमिरेष। जितो भवति मारुतोऽभ्यसनभूरिदार्ढ्यन्ततः कृशानुरभि-बर्द्धते सततकुम्भकाभ्यासतः। गते हुतभुजीद्धतामशनमेतिपाकं सुखं रसादिकसुधातवः स्युरनु याति देहो वलम्। महाभ्यासबन्धौ बलात् सद्रमस्य तदा जारणं स्याच्च दोषाअशेषाः। विशुष्यन्ति विण्मूत्ररोगादयो वै नृणां काटि-जन्माजितव्याधयश्च। नाडाविशुद्धिर्हठसिद्धिलक्षणं विनाह्यपार्था चिरकुम्भसंधृतिः। गुरूक्ततो युक्तविशेषतोधृतेऽनिले सुषुमणा कुरुतेऽग्निदीपनम्। प्रत्याहारात्प्राग्जिताऽक्षौघवृत्तिर्योगीन्द्राऽथो चालयेत् कुण्डलींस्वाम्। सिद्धपाणाभ्यासतश्चालिताऽसावत्युच्चैर्द्राक् व्रह्मरन्ध्रान्तरे स्यात्” हठस॰। योगदेशभेदास्तत्रैव
“सुविषये शुभधार्मिकभूपतेर्बहुसुभिक्षवती-तभये शुचौ। सुकृतशालिनि मालिंनि वैभवैर्मनसि योग-विधौ मतिमाश्रषेत्। अतिनिगूढपदं मशकोज्झितं तुहिन-तापविवर्जितमन्तरा। उषरकण्टकशुष्कदलीज्झितं विगत-गःगणगोष्ठमृते मलम्। वल्मीकसञ्चयचतुष्पथवर्जमग्न्याभ्यासोज्झितं विगतमर्वभयं विजन्तु। बात्याभिथात-रहित गतभूतरक्ष यागार्थमेवमवलाक्य मठा विधेयः। धनुः{??}णाप्रस्तुन शिला ग्नजलवाजेते। एकान्तमाठकामध्ये स्थातप्यं{??}ठपागना” हठपुङ्केतः।
“तल्पद्वार-[Page5397-b+ 38] मरन्धुगर्त्तविटपं नात्युच्चरीचायतं सम्यग्गोमयसान्द्र-लिप्तमयनं निःशेषजन्तूज्झितम्। व ह्ये मण्डपकूपौर्वेदि-रुचिरं प्राकारसंवेष्टतं प्रीक्तं योगमठस्य लक्षणमिदंसिद्धैहठाभ्यासिभिः” हठप्रदीपिका।
“द्वार स्मृत योग-मठस्य वृत्तं व्यायामतस्तच्चतुरस्रमार्य्यम्। विस्तारतश्चापिरवीन्द्रभूपाङ्गुलं सुरस्यं रमणीअमध्यम्। निर्वातभू-मन्दिरमुच्छ्रमात्मदोषापहं मारुतदोषशोषि। विशोध्यनाडामलमङ्घमन्तर्दत्ते विकाशं हृदि सुस्थिरे च” हठमं॰। तत्रोचितकालः
“एकाहे वाऽथ द्विकालं त्रिकाल प्राणयामंमध्यरात्रे भजेत। यामे रात्रेः पश्चिमे पूर्व एव पूर्वाह्णेवाह्नश्च मध्ये प्रदोषे” हठम॰। निषिद्धावस्थादि
“न शीते नात्युष्णे श्रमविकलदेहे न हितथा क्षुधायामाध्माने विकलवपुषाऽचेतमासा। अ-जीर्णेऽम्लेद्गारे न च विहितवान्तावतिसृते प्रभुक्तौ व्या-सङ्गाकुलहृदि न युक्ताऽनिलघृतिः। चिन्ताकुलो मूल-फलप्रदूषितोऽभ्यासं न योगस्य कदापि कुर्य्यात्। कार्य्या-तिसक्तौ रतिकार्य्यतत्परो नानेकरोगाधियुतो जनान्ते। रथ्यान्तरे सिन्धुमरित्तटान्तरे चिरन्तने वेश्मनि चेत्यदेशे। योग विदध्यान्न कदापि साधकः सुदौमनस्यादि भवेतकृतेऽत्र। अनादृत्य यः साधको देशक लौ प्रयुञ्जीत योगहि दाषास्तु तस्य। प्रकुप्यन्ति देहेऽन्तराया इवोच्चैजडत्व न्धमूकत्वबाधिर्य्यमुख्याः। स्मृतिलया जडता चविमूकता वधिरतान्धमहादहनज्वराः। कुविषयेऽसमयेपरियुञ्जता वपुषि योगममी नव दोषकाः” हठस॰। वर्ज्यमा॰ सदोषाः
“कामोभय स्वप्नमतीव लोभः प्राग् योग-दोषानतिकोपयुक्तान्। विहाय युक्तः सुसमाहितात्यायुञ्जीत योगं मनसा स्थिरेण” हठस॰। तद्दोषजयोपायाः
“निद्रां सत्त्वनिषेवणेन दलयेद्धृत्या चशिश्नोदरे रक्षेद् दोश्चरणौ दृशा श्रुतिदृशौ चित्तेन चेतोगिरौ। रक्षेत् सद्विधिना प्रमादत इतस्त्रासं तुदंस्तंधिया सङ्कल्पस्य जयेन काममिति वै ज्ञो योगदोषान्जयेत्” हठसं॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हठयोग¦ m. (-गः) A particular mode of YOGA, or abstract contemplation difficult to practise, and as such distinguished from RA4JA-YOGA, which is an easy mode of abstraction. It is performed in various ways, such as standing on one leg, holding up the arms, inhaling smoke with the head inverted, &c.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हठयोग/ हठ--योग m. a kind of forced योगor abstract meditation (forcing the mind to withdraw from external objects ; treated of in the हठ-प्रदीपिकाby स्वात्मारामand performed with much self-torture , such as standing on one leg , holding up the arms , inhaling smoke with the head inverted etc. )