यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठयोगः, पुं, (हठेन योगः ।) योगविशेषः । यथा, -- “इदानीं हठयोगस्तु कथ्यते हठसिद्धिदः । कृत्वासनं पवनाशं शरीरे रोगहारकम् ॥ पूरकं कुम्भकञ्चैव रेचकं वायुना भजेत् । इत्थं क्रमोत्क्रमं ज्ञात्वा पवनं स्मधयेत् सदा ॥ धौत्यादिकर्म्मषट्कञ्च संस्कुर्य्याद्धठसाधकः । एतन्नाड्यान्तु देवेशि ! वायुपूर्णं प्रतिष्ठितम् ॥ ततो मनो निश्चलं स्यात्तत आनन्द एव हि । हठयोगान्न कालः स्यान्मनः शून्ये भवेद्यदि ॥ इदानीं हठयोगस्य द्वितीयं भेदवत् शृणु । आकाशे नासिकाग्रे तु सूर्य्यकोटिसमं स्मरेत् ॥ श्वेतं रक्तं तथा पीतं कृष्णमित्यादिरूपतः । एवं ध्यात्वा चिरायुः स्यादङ्गाजननवर्ज्जितः ॥ शिवतुल्यो महात्मासौ हठयोगप्रसादतः । हठाज्ज्योतिर्म्मयो भूत्वा ह्यन्तरेण शिव भवेत् । अतोऽयं हठयोगः स्यात् सिद्धिदः सिद्धसेवितः ॥” इति योगस्वरोदयः ॥

"https://sa.wiktionary.org/w/index.php?title=हठयोगः&oldid=180558" इत्यस्माद् प्रतिप्राप्तम्