हिङ्गुल
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिङ्गुलः, पुं, क्ली, (हिङ्गु तद्वर्णं लातीति । ला + कः ।) रागद्रष्यविशेषः । तत्पर्य्यायः । हिङ्गुलुः २ । इत्यमरभरतौ । ३ । ५ । २० ॥ हिङ्गुलम् ३ रक्तम् ४ मर्क्कटशीर्षम् ५ दरदः ६ रसः ७ । इति रत्नमाला ॥ हंसपादम् ८ कुरुविन्दः ९ । इति हेमचन्द्रः ॥ हिङ्गुलिः १० रक्तपारदः ११ । इति जटाधरः ॥ वर्व्वरम् १२ सुरङ्गम् १३ सुपरम् १४ रञ्जनम् १५ दरदम् १६ म्लेच्छम् १७ चित्राङ्गम् १८ चूर्णपारदम् १९ चर्म्मारकम् २० मणिरागम् २१ रसोद्भवम् २२ रञ्जकम् २३ रसगर्भम् २४ । अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । उष्णत्वम् । वातकफत्रिदोषद्वन्द्वदोष- ज्वरनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । अथ हिङ्गुलस्य नामानि लक्षणानि गुणाश्च । “हिङ्गुलं दरदं म्लेच्छं वित्रास चूर्णपारदम् । दरदस्त्रिविधः प्रोक्तश्चर्म्मारः शुक्रतुण्डकः । हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरः ॥ चर्म्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः । जवाकुसुमसङ्काशो हंसपादो महोत्तमः ॥ तिक्तं कषायं कटु हिङ्गुलं स्या- न्नेत्रामयघ्नं कफपित्तहारि । हृल्लासकुष्ठज्वरकामलांश्च प्लीहामवातौ च गरं निहन्ति ॥ ऊर्द्ध्वपातनयुक्त्या तु डमरुयन्त्रपाचितम् । हिङ्गुलं तस्य सूतं तु शुद्धमेव न शोधयेत् ॥” इति ॥ * ॥ तत्र हिङ्गुलस्य शोधनविधिः । “मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् । सप्तवारान् प्रयत्नेन शुद्धिमायाति निश्चितम् ॥” एवं शोधितस्य हिङ्गुलस्य गुणाः । “तिक्तं कषायं कटु हिङ्गुलं स्या- न्नेत्रामयघ्नं कफपित्तहारि । हृल्लासकुष्ठज्वरकामलांश्च प्लीहामवातौ च परं निहन्ति ॥” इति ॥ * ॥ (पर्य्यायः शोधनप्रकारान्तरञ्च यथा, -- “हिङ्गले हिङ्गुलुर्याति दरदः शुकतुण्डकः । रसगन्धकसम्भूतो हिङ्गुलो दैत्यरक्तकः ॥ अम्लवर्णद्रवैः पिष्ट्वा दरदो माहिषेण च । दुग्धेन सप्तधा पिष्टः शुष्कीभूतो विशुध्यति ॥” तथाच प्रकारान्तरम् । “आद्रकैर्लकुचद्रावैः सप्तधा भावितो यदि । हिङ्गुलः शुद्धतां याति निर्द्दोषो जायते खलु ॥ विम्ब्याभं हिङ्गुलं दिव्यं रसगन्धकसम्भवम् ॥ मेहकुष्ठहरं रुच्यं बल्यं मेधाग्निवर्द्धनम् ॥” इति हिङ्गुलशुद्धिः ॥ * ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमरणाधि- कारे ।) अथ हिङ्गुलाद्रसाकर्षणाविधिः । “निम्बरसैर्निम्बपत्ररसैर्वा याममात्रकम् । घृष्ट्वा दरदमूर्द्धं तु पातयेत् सूतयुक्तिवत् ॥ तत्रोर्द्ध्वपिठरीलग्नं गृह्णीयाद्रममुत्तमम् । शुद्धमेव हि तत् सूतं सर्व्वकर्म्मसु योजयेत् ॥” इति च भावप्रकाशः ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिङ्गुल¦ पुंन॰ हिङ्गु तद्वर्णं साति सा--क। रक्तवर्णे[Page5426-b+ 38] वर्णकद्रव्यभेदे अमरः
२ वार्त्ताक्यां
३ वृहत्याञ्च स्त्री ङीष्वर्णकभेदे तस्य शोधनाटिकं भावप्र॰ उक्तं यथा
“मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम्। सप्त वारान्प्रयत्नेन शुद्धिमायाति निश्चितम्”। एवं शीधितस्यहिङ्गुलस्य गुणाः।
“तिक्तं कृषायं कटु हिङ्गुलं स्या-न्नेत्रामयघ्नं कफपित्तहारि। हृल्लासकण्डूज्वरकाम-लांश्च प्लाहामवातौ च गरं निहन्ति”। अथ हिङ्गु-लाद्रसाकर्षणविधिः
“निम्बूरसैर्निम्बपत्ररसैर्वा याम-मात्रकम्। घृष्ट्वा दरदमूर्द्धन्तु पातयेत् सूतयुक्तिवत्। तत्रोर्द्धपिठरीलग्मं गृह्णीयाद्रसमुत्तमम्। शुद्धमेव हितंसूतं सर्वकर्मसु योजयेत्”। तल्लक्षणं दरदशब्दे
३४
७१ पृ॰दृश्यम्। सतीदेहब्रह्मरन्ध्रपातस्थाने
४ देशविशेषे स्त्री(हिङ्लाट्)।
“ब्रह्मरन्ध्रं हिङ्गुलायां देवता भीमलोचना। कोटबी सा महामाया त्रिगुणा या दिगम्बरी” पीठमा॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिङ्गुल¦ mn. (-लः-लं) Vermilion. f. (-ली) The egg-plant, (Solanum melon gena.) E. हिङ्गु asafœtida, ला to take or give, aff. क |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिङ्गुलः [hiṅgulḥ] लम् [lam], लम्
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिङ्गुल m. n. a preparation of mercury with sulphur , vermilion VarBr2S.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
HIṀGULA : A mineral (vermillion) obtained from mountainous regions. It has the colour (red) of the sky at sunset. (Vana Parva, Chapter 158, Verse 94).
_______________________________
*1st word in right half of page 313 (+offset) in original book.