हिन्दोल
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिन्दोलः, पुं, (हिन्दोल + घञ् ।) श्रावणशुक्ल- पक्षविहितभगवद्यात्राविशेषः । झुलनयात्रा इति यस्य प्रसिद्धिः । षड्रागान्तर्गतराग- विशेषः । हि~डोल इति हिन्दी भाषा । यथा, “भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा । श्रीरागो मेघरागश्च षडेते पुरुषाह्वयाः ॥” अस्य स्त्रियः । “वेलावती रामकली देशाख्या पटमञ्जरी । ललिता सहिता एता हिन्दोलस्य वराङ्गनाः ॥” अथ हिन्दोलध्यानम् । “नितम्बनीमन्दतरङ्गितासु दोलासु खेलासुखमादधानः । खर्व्वः कपोलद्युतिकामयुक्तो हिन्दोलरागः कथितो मुनीन्द्रैः ॥” तत्पुत्त्रा यथा, सङ्गीतदर्पणे । “आभीरः शुभ्रधवलौ चन्द्रकासविमोहकाः । चन्द्रकान्तः स्नेहवेदः हिन्दोलात्मजकीर्त्तितः ॥” तस्य गानसमयो यथा, -- “हिन्दोलः पञ्चमः सिन्धुर्ललितश्च वसन्तकः । भखारी भटीयारो च आद्ययामे प्रगीयते ॥” इति बृहत्सङ्गीतरत्नाकरः ॥ * ॥ हनूमन्मते षड्रागाणां मध्ये द्वितीयरागः । ब्रह्मणः शरीरान्निर्गतः । केचिन्मते नाभितः । अस्य जातिः औडवः । अर्थात् ष ग म प नि इति पञ्चस्वरमिलितः । अस्य गृहं षड्जस्वरः । वसन्तर्त्तौ दिवाप्रथमभागे गानसमयः । राग- मालायामस्य रूपम् । अल्पवयःसुन्दरः पीत- वर्णः उत्तमाङ्गः स्वर्णमयहिन्दोलारूढः सुस- ज्जितसुन्दरीस्त्रोभिः गीतं गायन्तीभिः हिन्दो- लाद्योलयन्तीभिश्च सह परमानन्देन हास्य- कौतुककारी । अस्य पञ्च रागिण्यः । यथा । रामकरी १ देशाखी २ ललिता ३ विलावली ४ पटमञ्जरी ५ । अस्य पुत्त्रा अष्टौ यथा । चन्द्र- विम्बः १ मङ्गलः २ शुभः ३ आनन्दः ४ विनोदः ५ प्रधनः ६ गौरः ७ विभासः ८ ॥ * ॥ भरतमते अस्य रागिण्यो यथा । रामकली १ मालावती २ आशावरी ३ देवारी ४ गुण- कली ५ । तन्मते पुत्त्रा यथा । वसन्तः १ मालवः २ मारुः ३ कुशलः ४ शखारवन्दः ५ लङ्कादाहनः ६ नागधुनः ७ धवलः ८ । एषां भार्य्या यथा । लीलावती १ केरवी २ चयती ३ पूरवी ४ पारावती ५ तिरवणी ६ देवगिरी ७ सुरसती ८ । इति सङ्गीतशास्त्रम् ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिन्दोल¦ पु॰ हिल्लोल + घञ् पृषो॰।
१ श्रावणशुक्लपक्ष-विहिते दोलनयन्त्रेण भनवतो दोलनरूपे
२ उत्सवभेदे
३ रागभेदे च सङ्गीतदा॰।
४ दोलायां स्त्री स्वार्थे क। यानभेदे जटा॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिन्दोल¦ m. (-लः)
1. A swing.
2. The swing-festival held in the light- half of the month S4RA4VAN4A.
3. One of the Ra4gas or personified musical modes. f. (-ला) A swing. E. हि particle, दुल् to shake, घञ् aff., deriv. irr.; also with कन्, हिन्दोलक m. (-कः |)
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिन्दोलः [hindōlḥ], 1 A swing.
The swing on which the figures of Kṛiṣṇa are carried about during the swingfestival in the bright half of Śrāvaṇa, or the festival itself.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिन्दोल m. (or f( आ). )a swing , swinging cradle or hammock S3r2in3ga1r.
हिन्दोल m. an ornamental swing or litter in which figures of कृष्णare carried during the Swing-festival in the light half of the month श्रावणMW. (See. RTL. 430 )
हिन्दोल m. (in music) a partic. रागSam2gi1t.