यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिमम्, त्रि, (हन्ति उष्माणमिति । हन + “हने- र्हि च ।” उणा० १ । १४६ । इति मक् हि च ।) शीतगुणविशिष्टः । शीतलवस्तु । तत्पर्य्यायः । सुषीमः २ शिशिरः ३ जडः ४ तुषारः ५ शीतलः ६ शीतः ७ । इत्यमरः । १ । ३ । १९ ॥ (यथा, सुश्रुते । ४ । २८ । “अपराह्णे हिमाभि- रद्भिः परिषिक्तगात्रः शालीनां षष्टीकानाञ्च पयसा शर्करामधुरेणौदनमश्नीयात् ॥”)

हिमम्, क्ली, (हन + मक् । हन्तेर्हि च ।) अकाश- वाष्पः । तत्पर्य्यायः । अवश्यायः २ नीहारः ३ तुषारः ४ तुहिनम् ५ प्रालेयम् ६ महिमा ७ । इत्यमरः । १ । ३ । १८ ॥ इन्द्राग्निधूमः ८ खवाष्पः ९ रजनीजलम् १० । इति हारावली ॥ यथा, रघुः । ८ । ४५ । “अथवा मृदुवस्तु हिंमितुं मृदुनैवारभते प्रजान्तकः । हिमसेकविपत्तिरत्र मे नलिनी पूर्ब्बनिदर्शनं मता ॥”) अस्य गुणः । कफवायुवद्धकत्वम् । इति राज- वल्लभः ॥ चन्दनम् । इति मेदिना ॥ पद्मकाष्ठम् । रङ्गम् । मौक्तिकम् । इति राजनिर्घण्टः ॥ नवनीतम् । इति शब्दचन्द्रिका ॥ शीतम् । इति हेमचन्द्रः ॥ (कर्पूरः । पर्य्यायो यथा, -- “पुंसि क्लीवे च कर्पूरः सिताभ्रो हिमबालुकः । घनसारश्चन्द्रसंज्ञः हिमनामापि स स्मृतः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=हिमम्&oldid=181337" इत्यस्माद् प्रतिप्राप्तम्