हिरण्यगर्भ
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्यगर्भः, (हिरण्यं हेममयाण्डं गर्भ उत्- पत्तिस्थानमस्य ।) ब्रह्मा । इत्यमरः । १ । १ । १६ ॥ हिरण्यं गर्भ उत्पत्तिस्थानमस्य हिरण्यस्य गर्भो भ्रूण इति वा हिरण्यगर्भः । एतस्याण्डं हिरण्य- वर्णमभवत् । तथा च स्मृतिः । “हिरण्यवर्ण्यवर्णमभवत्तदण्डमुदकेशयम् । तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भुरिति विश्रुतः ॥” इति । उपचारात् हिरण्यवर्णमण्डं हिरण्यम् । इति भरतः ॥ अन्यच्च । “हिरण्यगर्भोऽभूद्वद्ध्या तेन बुद्धिर्म्मता असौ ।” पादुकोपानहं छत्रं चामरासनभोजनम् । ग्रामं वा विषयं वापि यदन्यद्दयितं भवेत् ॥ अनेन विधिना यस्तु पुण्येऽह्नि विनिवेदयेत् । हिरण्यगर्भदानं स ब्रह्मलोके महीयते ॥ पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत् । कल्पकोटिशतं यावत् ब्रह्मलोके महीयते ॥ कलिकलुषविमुक्तः सेवितः सिद्धसंघै- रमरचमरमालावीज्यमानोऽप्सरोभिः । पितृशतमथ बन्धून् पुत्त्रपौत्त्रप्रपौत्त्रा- नपि नरकनिमग्नांस्तारयेदेक एव ॥ इति पठति य इत्थं यः शृणोतीह सम्यक् मधुमुररिपुलोके पूज्यते सोऽपि सिद्धैः । मतिमपि च जनानां यो ददाति प्रियार्थं विबुधपतिजनानां नायकः स्यादमोघम् ॥” इति मात्स्ये २७५ अध्यायः ॥ * ॥ विष्णुः । इति तस्य सहस्रनामस्तोत्रम् ॥ सूक्ष्म- शरीरसमष्ट्युपहितचैतन्यम् । तत्पर्य्यायः । प्राणात्मा २ सूत्रात्मा ३ । इति वेदान्तसारः ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्यगर्भ पुं।
ब्रह्मा
समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु
1।1।16।2।1
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः। हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः॥
जन्य : सनत्कुमारः
पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्यगर्भ¦ पु॰ हिरण्यं स्वर्णमयाण्डं गर्भ उत्पत्तिस्थान-मस्य।
१ चतुर्मुखे ब्रह्मणि तस्य हैमाण्डप्रभवत्वात्तथात्वम्
“तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञेस्वयं ब्रह्मा सर्वलोकपितामहः” मनूक्तेः। तुलादिषोडष-महादानमध्ये दानार्थं स्वर्णादिना कल्पिते
२ हिरण्य-गर्भाख्ये पात्रे
२ उपचारात्तद्दाने
४ शालग्राममूर्त्तिभेदे चशालग्रामशब्दे दृश्यम्। तस्य दानधिश्च हेमा॰ दा॰ मत्स्यपु॰
“अथातः संप्रवक्ष्यामि महादानमनुत्तमम्। हेम्ना हिर-ण्यगर्भाख्यं महापातकनाशनम्। पुण्यं दिनमथा-साद्य तुलापुरुषदानवत्। ऋत्विग्मण्डपसम्भारभूषणा-च्छादनादिकम्। कुर्य्यादुपोषितस्तद्वल्लोकेशावाहन बुधः। पुण्याहवाचनं कृत्वा तद्वत् कृत्वाधिवासनम्”। अत्र दे-शकालवृद्धिश्राद्धशिवादिपूजाब्राह्मणवाचनगुरुऋत्विग्वर-णमधुपर्कदानकुण्डमण्डपवेदिसम्भारहोमाचिवासनादि-सर्वं हिरण्यगर्भादिपञ्चदशमहादानप्रकृतिमूतं मतस्यपु-राणोक्ततुलापुरुषटानविहितं वेदितव्यम्।
“ब्राह्मणैरा-नयेत् कुण्डं तपनीयमयं शुभम्। द्वासप्तत्यङ्गुलोच्छ्रायंहेमपङ्कजगर्भवत्। त्रिभागहीनविस्तारं प्रशस्तं मुरजा-कृति”। कुण्डमिति, हिरण्यगर्भाख्यं पात्रं, तपनीयमयं, स्वर्णमयं हेमपङ्कजम् तदेव नामिशब्दवाच्यं, त्रि-भानहीनविस्तारमिति, अष्टाचत्वारिंशदङ्गुलविस्तार-मित्यर्थः। मुरजाकृति, मृदङ्गाकृति। आज्यक्षीरा-तिपूरितमिति क्वचित्पाठः। तत्र घृतक्षीरे तुल्यपरिमाणे,यद्यपि चातिपूरितमित्युच्यते तथापि यजमानप्रवेशेनयथा तन्न वहिरुच्छसति तथा पूरणीयम्।
“दशान्त्राणिसरत्नानि दात्रं सूर्चीं तथैव च। हेमनालं सपिटकंबहिरादित्यसंयुतम्। तथैवावरणं नाभेरुपवीतञ्च काञ्च-नम्। पार्श्वतः स्थापयेत् तद्वद्धेमदण्डं कमण्डलुम्”। दशान्त्राणि, दशखण्डानि, अभ्राणोति क्वचित्पाठः। तानि काञ्चनानि अभ्राकारतया, अभ्राणीति। अभ्रंखनित्रभिति केचित्, रत्नानि पञ्च प्रसिद्धानि, सपिटकं,मञ्जूषान्वितं वहिरिति। हेमकुण्डाद् बाह्यप्रदेशे पार्श्वतः[Page5429-b+ 38] स्थापयेदित्यनेन सम्बन्धः। वह्निमास्करसंयुतमिति चपाठान्तरम्
“वह्निभास्करयोर्लक्षणं ब्रह्माण्डदाने वक्ष्यते। वह्निमाप्यपसंयुतमिति, वा पाठ तदा आप्यपः वरुणः”। तल्ल-क्षणमपि तत्रैव, नाभेरावरणमिति, नाभ्यावरणार्थं सौवर्णंवस्त्रं दात्रादीन्यपि सुवर्णमयान्येव कार्य्याणि।
“पद्मा-कारं बिधानं स्यात् समन्तादङ्गुलाधिकम्। मुक्तावली-समोपेतं पद्मरागदलान्वितम्। तिलद्रोणोपरिगतं वेदी-मध्ये ततोऽर्चयेत्”। द्रोणः परिभाषायां व्याख्यातः। इह खलु हिरण्यगर्भनिर्माणसुवर्णपरिमाणस्यानाम्ना-नात् यावता यजमानस्य प्रवेशावारणोपायिकं कुण्डंभवति तावता घटनीयं, तच्च वेदिकामध्ये लिखितचक्र-स्योपरि तिलद्रोणं निधाय तदुपरि संस्थाप्य पूजयेत्। अथ तुलापुरुषदानतदधिवासनदिनादन्येद्युर्ब्राह्मणवाचर्नविधाय पूर्णाहुतिप्रभृतिकमंशेषसमाप्तिं कुर्य्यात्। ततश्चकुण्डसमीपवर्त्तिकलशजलैः पूर्ववदभिषेकः, तदुच्यते।
“ततो मङ्गलशब्देन ब्रह्मघाषरवेण च। सर्वौषध्योदक-स्रानं स्नापितो वेदपुङ्गवैः”। सर्वौषध्यः, व्याख्याताः,
“शुक्लमाल्याम्बरधरः सर्वामरणभूषितः। इममुच्चारये-न्मन्त्रं गृहीतकुसुमाञ्जलिः। नमो हिरण्यगर्भाय हि-रण्यकवचाय च। सप्तलोकमुराध्यक्ष! जगद्धात्रे नमोनमः। भूर्लोकप्रमुखा लोकास्तव गर्भे व्यवस्थिताः। ब्रह्मा-दयस्तथा देवा नमस्ते विश्वधारिणे। नमस्ते भुवना-धार! नमस्ते मुवनाश्रय!। नमो हिरण्यगर्भाय गर्भेयस्य पितामहः। यतस्त्वमेव भूतात्मा भूतेमूते व्यव-स्थितः। तस्मात् मामुद्धराशेषदुःखसंसारसागरात्। एवमामन्त्र्य तन्मध्यमाविश्यास्त उदङ्मुखः। मुष्टिभ्यांपरिसंगृह्य धर्मराजचतुर्मुखो। जानुमध्ये शिरः कृत्वातिष्ठेदुच्छासपञ्चकम्”। धर्मराजोऽत्र सुवर्णमयः, तल्ल-क्षणञ्च तुलापुरुषेऽभिहितं चतुर्मुखोऽपि सौवर्णः, तल्ल-क्षणं ब्रह्माण्डदाने वक्ष्यते। तत्र दक्षिणमुष्टौ धर्मराजः,वाममुष्टौ चतुर्मुख इति।
“गर्भाधानं पुंसवनं सीमन्ती-न्नयनं तथा। कुर्य्युर्हिरण्यगर्भस्य ततस्ते द्विजपङ्गवाः”। अनवलोकनमप्यत्र विज्ञेयं, एतेषु, गर्भादानादिषु वक्ष्य-माणेषु जातकर्मादिषु, मन्त्रयुक्तमनुध्यानमात्रमाचरणीयम्
“गीतमङ्गलघाषेण गुरुं सन्तोषयेत् ततः। जात-कर्मादिकाः कुर्य्यात् क्रियाः षोडश चापराः”। ताश्चा-भिधीयन्ते। जातकर्म
१ नामकरणं
२ निष्क्रमणं
३ अन्न-प्राशनं
४ चूडाकर्म
५ उपनयनं
६ प्राजापत्यम्
७ ऐन्दं[Page5430-a+ 38] आम्नेयं
९ सोम्यं
१० इति चत्वारि
४ वेदव्रतानि गोदानं
१५ केशःन्त
१६ श्चेति द्वादश, पूर्वाश्चतस्व इत्युभवेषु षोडशत्वम्।
“मूर्त्त्या दकञ्च गुरवे दत्त्वा मन्त्र भम जपेत्। नमोहिरयटगर्भाय विश्वगर्भाय ते नमः। चराचरस्य जगतोगृहभूताय वै नमः। मन्त्रोऽयं जनितः पूर्वं मर्त्त्यधर्मा-द्विजोत्तमः। त्वद्गर्भसम्भवादेष दिव्यदेहो भवाम्यहम्। चतुर्मः कंलशैर्भूयस्ततस्ते द्वजपुङ्गवाः। स्नानं कुर्य्युःप्रसन्नाश्च सर्वाभरणभूषिताः”। कलशैः कुण्डसमीप-स्थितैरेव, स्नानं कुर्युयंजमानस्येति शेषः
“देवस्यत्वेतिशन्त्रेण स्थितस्य कनकासने। अद्य जातस्य तेऽङ्गानिअभिषेक्ष्यामहे वयम्। दिव्येनानेन वपुपा चिरञ्जीवसुखोभव। ततो हिरण्यगर्भं तं तेभ्यो दद्याद्विचक्षणः”।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्यगर्भ¦ m. (-र्भः)
1. BRAHMA
4.
2. VISHN4U.
3. The soul invested by the subtile body, “सूक्ष्मशरीर”। E. हिरण्य gold, गर्भ embryo; or the mundane egg floating on the water at creation, of that metal, or of similar colour, from which the deity issued, according to some legends.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हिरण्यगर्भ/ हिरण्य--गर्भ m. a golden fetus Cat.
हिरण्यगर्भ/ हिरण्य--गर्भ m. N. of ब्रह्मा(so called as born from a golden egg formed out of the seed deposited in the waters when they were produced as the first creation of the Self-existent ; according to Mn. i , 9 , this seed became a golden egg , resplendent as the sun , in which the Self-existent ब्रह्मwas born as ब्रह्माthe Creator , who is therefore regarded as a manifestation of the Self-existent RV. x , 121 ) RV. AV. S3Br. etc. (See. RTL. 14 etc. )
हिरण्यगर्भ/ हिरण्य--गर्भ m. N. of the author of the hymn ऋग्वेदx , 121 (having the patr. प्राजापत्य) Anukr.
हिरण्यगर्भ/ हिरण्य--गर्भ m. of a वेदान्तteacher Tattvas.
हिरण्यगर्भ/ हिरण्य--गर्भ m. of various other persons Cat.
हिरण्यगर्भ/ हिरण्य--गर्भ m. of विष्णुMBh.
हिरण्यगर्भ/ हिरण्य--गर्भ m. of a flamingo Hit.
हिरण्यगर्भ/ हिरण्य--गर्भ m. (in phil. ) the soul invested with the सूक्ष्म-शरीरor subtle body(= सूत्रा-त्मन्, प्रा-णा-त्मन्) Veda7ntas.
हिरण्यगर्भ/ हिरण्य--गर्भ n. (prob.)N. of a लिङ्गib.
हिरण्यगर्भ/ हिरण्य--गर्भ mfn. relating to हिरण्य-गर्भor ब्रह्मा. IndSt.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--is ब्रह्मा. Br. III. 1. ३५; ६५. २३.
(II)--is वासुदेव; फलकम्:F1: Vi. VI. 7. ५६.फलकम्:/F as the author of योगशास्त्र. फलकम्:F2: Ib. II. १३. ४४.फलकम्:/F
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
HIRAṆYAGARBHA : A synonym of Śrī Kṛṣṇa. (Śānti Parva, Chapter 342, Verse 96).
_______________________________
*4th word in right half of page 314 (+offset) in original book.