कमलम्
फलकम्:वर्गःपुष्पाणी कमलम्
संस्कृतम्
सम्पाद्यताम्- कमलं, अम्बुजः, अरविन्दं, उत्पलं, नलिनं, पङ्कजं, सरसिजं, अब्जं, पन्ङ्खजं, सुजलं, आस्यपत्त्रं, उदजं, कंजं, कुटपं, कुवं, खरदण्डं, जलाह्वयं, जलजकुसुमं, जलेजातं, नदीजं, नीररुहं, पयोरुहं, पथोजं, पाथोरुहं, पुष्करं, रमाप्रियं, विष्णुपदं, शीतलं, शोभनं, श्रृङ्गं, श्रीपर्णं, सारसं, सरसीजं, सरोजं, कान्तारं, हिमम्।
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | कमलम् | कमले | कमलानि |
सम्बोधनप्रथमा | कमल | कमले | कमलानि |
द्वितीया विभक्तिः | कमलम् | कमले | कमलानि |
तृतीया विभक्तिः | कमलेन | कमलाभ्याम् | कमलैः |
चतुर्थी विभक्तिः | कमलाय | कमलाभ्याम् | कमलेभ्यः |
पञ्चमी विभक्तिः | कमलात् | कमलाभ्याम् | कमलेभ्यः |
षष्ठी विभक्तिः | कमलस्य | कमलयोः | कमलानाम् |
सप्तमी विभक्तिः | कमले | कमलयोः | कमलेषु |
नामः
सम्पाद्यताम्- कमलम् किञ्चन पुष्पम् अस्ति। कमलं भारतस्य राष्ट्रियपुष्पं अस्ति। कमलं सौन्दर्यस्य, कोमलताया:, निर्मलताया: शान्ते: च सन्देशं वितरति ।
- अम्बुजम्
- अब्जम्
- जलजम्
- पङ्कजम्
- नळिनम्
अनुवादाः
सम्पाद्यताम्- आम्गलम्-lotus
- मलयालम्-താമര കമലം
- हिन्दि-कमल्
- बङ्गाळि-() ()
- फ़्रॆन्च्- (fr)
- रूसीय्- (ru) ()
- जेर्मन्-
- स्पानिष्- (es)
- तेलुगु-కమలము(कमलमु)
- तमिल्- [[
- पोलिष्-, (pl)
- कन्नड-ಕಮಲ(कमला)
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कमलम्, क्ली, (कमेः णिङ् भावे वृषादित्वात् कलच् । कम् जलं अलति अलंकरोति वा । अल् + अच् । अन्तणिजन्तो वा ।) जलजपुष्पविशेषः । तत्पर्य्यायः । पद्मम् २ पाथोजम् ३ नलम् ४ नलिनम् ५ अम्भो- जभ् ६ अम्बुजन्म ७ अम्बुजम् ८ श्रीः ९ अम्बुरु- हम् १० अम्बुपद्मम् ११ सुजलम् १२ अम्भोरु- हम् १३ सारसम् १४ पङ्कजम् १५ सरसीरुहम् १६ कुटपम् १७ पाथोरुहम् १८ पुष्करम् १९ वार्ज्जम् २० तामरसम् २१ कुशेशयम् २२ कञ्जम् २३ कजम् २४ अरविन्दम् २५ शतपत्रम् २६ विसकुसुमम् २७ सहस्रपत्रम् २८ महोत्पलम् २९ वारिरुहम् ३० सरसिजम् ३१ सलिलजम् ३२ पङ्केरुहम् ३३ राजीवम् ३४ । (यथा रघुः । ३ । ३६ । “अगच्छदंशेन गुणाभिलाषिणी नवावतार कमलादिवोत्पलम्” ॥) अस्य गुणाः शीतलत्वम् । स्वादुत्वम् । रक्तपित्त- भ्रमार्त्तिनाशित्वम् । सुगन्धित्वम् । भ्रान्तिसन्ताप- शान्तिपरमतृप्तिकारित्वञ्च । इति राजनिर्घण्टः ॥ (तथाच भावप्रकाशः । “कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित् । तृष्णादाहास्रविस्फोटविषवीसर्पनाशनम् ॥ विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम् । रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम् ॥ धवलं कमलं शीतं मधुरं कफपित्तजित् । तस्मादल्पगुणं किञ्चिदन्यद्रक्तोत्पलादिकम्” ॥) जलम् । ताम्रम् । क्लोम । औषधम् । इति मे- दिनी ॥ सारसपक्षी । इत्यमरः । १ । १० । ४० ॥