यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवचः, पुं, क्ली, (कं देहं वञ्चति विपक्षास्त्राणि वञ्चयित्वा रक्षति इति शेषः । क + वन्च् + अच् । कं वातं वञ्चति वा अन्तर्ण्यर्थो वा । यद्वा कवते- इति कुधातोरच् प्रत्यय इति केचित् इत्युणादि- कोषः ४२ । २ ।) सन्नाहः । सा~जोया इति भाषा । (यथा, विष्णुपुराणे । १ । १३ । ४० । “शराश्च दिव्या नभसः कवचञ्च पपात ह” ॥) तत्पर्य्यायः । तनुत्रम् २ वर्म्म ३ दंशनम् ४ उरश्छदः ५ कङ्कटकः ६ जगरः ७ । इत्यमरः । २ । ८ । ६४ ॥ दंसनम् ८ जागरः ९ अजगरः १० । इति तट्टीका ॥ कटकः ११ योगः १२ सन्नाहः १३ कञ्चुकः १४ । इति जटाधरः ॥ * ॥ तस्य युक्तिर्यथा । खड्गादीनान्तु गणना पूर्ब्बमेव निदर्शिता । अस्त्रात्मनैव निर्द्दिष्टकवचादिरपीष्यते ॥ तल्लक्षणं संग्रहेण प्रवक्ष्यामि निबोधत । काष्ठं चर्म्म च सकलं त्रयमेतत्तु दुस्तरम् ॥ यथोत्तरं गुणयुतं तथा पूर्ब्बन्तु निन्दितम् । शरीरावरकत्वन्तु लघुत्वं दृढता तथा ॥ दुर्भेद्यतेति कथितः कुवचे गुणसंग्रहः । सच्छिद्रतातिगुरुता तनुता सुखभेद्यता ॥ कवचानां विनिर्द्दिष्टः समासाद्दोषसंग्रहः । अत्र वर्णो विनिर्द्दिष्टः क्रमादेवं चतुर्व्विधः ॥ सितो रक्तस्तथा पीतः कृष्णो ब्रह्मादिषु क्रमात् । केचित् कुर्व्वन्ति कुशलाः कवचं धातुसम्भवम् ॥ कनकं रजतं ताम्रं लौहं तेषु यथाक्रमम्” ॥ इति युक्तिकल्पतरुः ॥ * ॥ “यथा शस्त्रप्रहाराणां कवचं प्रति वारणम् । तथा दैवोपघातानां शान्तिर्भवति वारणम्” ॥ इति मलमासतत्त्वम् ॥ लौहादिवर्म्मवत् अङ्गादि- रक्षणार्थं देवतामन्त्रविग्रहम् । तत्तु पूजायां पाठ्यं भूर्ज्जे विलिख्य कण्ठादौ धार्य्यञ्च । इति तन्त्रम् ॥ गर्द्धभाण्डवृक्षः । पटहवाद्यम् । इति मेदिनी ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवच पुं-नपुं।

सन्नाहः

समानार्थक:तनुत्र,वर्मन्,दंशन,उरःछद,कङ्कटक,जगर,कवच

2।8।64।2।4

शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम्. उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम्.।

स्वामी : सैन्याधिपतिः

 : शस्त्राघादरक्षनार्थलोहादिमयावरणम्, चोलकादिसन्नाहः, दार्ढ्यार्थं_कञ्चुकोपरि_बद्धः, शिरस्त्राणः, चतुरङ्गसैन्यसन्नाहः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवच¦ पु॰ कं वातं वञ्चति वन्च--मूल॰ क ऋतनीत्या॰ उणा॰ अचवा।

१ गर्द्दभाण्डे वृक्षे

२ पटहवाद्ये च मेदि॰।

३ सन्नाहेगात्रत्राणे योद्धृभिर्युद्धकाले शस्त्राघातरक्षणार्थमङ्गे धार्य्येलौहादिनिर्म्मिते वर्मणि पु॰ न॰ अमरः। कवचलक्षणा-दिकं युक्तिकल्पातरावुक्तं यथा-
“खड्गादीनान्तु गणना पूर्व्वमेव निदर्शिता। अस्त्रात्मनैवनिर्द्दिष्टः कवाचादिरर्पाष्यते। तल्लक्षणं संग्रहेण प्रवक्ष्यामिनिबोधत। काष्ठं चर्म सवल्कं च त्रयमेतत्तु दुस्तरम्। यथो-त्तरं गुणयुतं यथापूर्वन्तु निन्दितम्। शरीरावरकत्वन्तु लघुत्वंदृढता तथा। दुर्भेद्यतेति कथितः कवचे गुणसंग्रहः। सच्छिद्रतातिगुरुता तनुता सुखभेद्यता। कवचानां विनि-र्दिष्टः समासाद्दोषसंग्रहः। अत्र वर्णो विनर्दिष्टः क्रमादेवंचतुर्व्विधः। सितोरक्तस्तथा पीतः कृष्णो ब्रह्मादिषु क्रमात्। केचित् कुर्वन्ति कुशलाः कवचं धातुसम्भवम्। कनकं रजतंताम्रंलौहं तेषु यथाक्रमम्”। अधिकं वर्मशब्दे वक्ष्यते।
“यथा शस्त्रप्रहाराणां कवचं प्रतिवारणम्। तथा दैवोप-घाताना शान्तिर्भवति वारणम्” मल॰ त॰ पु॰।
“वितत्य णार्ङ्गं कवचं पिनह्य”
“सच्छत्रकवचं रथम्” भट्टिः। कवचोजातोऽस्य तार॰ इतच्। कवचित्तत तद्धा-रके त्रि॰। सः अस्त्यस्य इनि। कवचिन् तद्धारके त्रि॰
“नमो विल्मिने च कवचिने च” यजु॰

१६ ,

३५
“यश्चकवची यश्चाऽकवचोऽमित्रो यश्चाज्मनि ज्या पाशैः कवचपाशैरज्मनाभिहतः शयाम्” अथ॰

११ ,

१० ,

२२ स्त्रियांङीप्। तन्त्रोक्ते मन्त्रसाधनाङ्गे

४ वाक्यसंघभेदे।
“मन्त्रेणम्रियते योगी रक्ष्यते कवचैर्यतः” इति तन्त्रोक्तेस्तस्यरक्षासाधकत्वेन वर्मतुल्यत्वात्तथात्वम्।
“श्रीजमन्मङ्गल-स्यास्य कवचस्य ऋषिः शिवः”
“इदं कवचमज्ञात्वा योभजेत्कालिदक्षिणाम्” इति च भै॰ त॰। कवचानि च देवताभेदेभिन्नानि तन्त्रोक्तानि तानि च सन्त्रसारे स्तोत्रकवचप्रक-रणे अन्यत्र च दृश्यानि। तानि च
“भूर्ज्जे विलिखितं चैतत्स्वर्णस्थं धारयेद्यदि। कण्ठे वा दक्षिणे वाहौ” इत्यादिनातन्त्रे लिखित्वा कण्ठादौ धार्य्यतया विहितानि।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवच¦ mn. (-चः-चं)
1. Armour, mail.
2. A drum used in battle, a kettle drum.
3. An amulet, a charm.
4. A tree, (Hibiscus populneoides.) see गर्द्दभाण्ड।
3. The mystical syllable Hum, forming part of a Mantra, and considered as a preservative like armour; it is also inscribed on a Birch leaf, &c. and worn as an amulet; being car- ried about the person as a charm: see the next. E. कु to sound, अच् Unadi aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवचः [kavacḥ] चम् [cam], चम् [cf. Uṇ.4.2.]

An armour, coat of mail, a mail.

An amulet, a charm, a mystical syllable (हुम्-हूम्) considered as a preservative like armour.

A kettle-drum. -Comp. -पत्रः the birch tree. -हर a.

wearing armour.

old enough to wear an armour; कवचहरः कुमारः Sk. on P.III.2.1. cf. वर्महर in R.8.94. (-रः) a boy, child.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवच mn. (3. कुUn2. iv , 2 Nir. v , 25 ) g. अर्धर्चा-दि, armour , cuirass , a coat of mail S3Br. xii , 2 , 2 , 7 Ka1tyS3r. xiii , 3 , 10 MBh. R. etc.

कवच mn. any covering

कवच mn. a corset , jacket Ka1t2h. xxxiv , 5 ([ ifc. f( आ). ]) Pa1n2. 3-2 , 129

कवच mn. bark , rind S3a1rn3g.

कवच m. a war-drum , a kettle-drum L.

कवच n. a piece of bark or birch-leaf or any substance inscribed with mystical words and carried about as an amulet , any amulet , charm W.

कवच n. a mystical syllable (such as हुम्, or हूम्)forming part of a मन्त्रused as an amulet([See. बीज]) W.

कवच m. the tree Oldenlandia herbacea Bhpr.

कवच m. the tree Hibiscus Populneoides L.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAVACA : A sage in the assembly of Indra. (M.B. Sabhā Parva, Chapter 7). He was one of the sages of the western part. (M.B. Śānti Parva, Chapter 208, Verse 30).


_______________________________
*2nd word in left half of page 402 (+offset) in original book.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kavaca denotes a ‘corselet’ or ‘breastplate’ in the Atharvaveda[] and later.[] There is nothing to show whether it was made of metal, but that it was so is quite possible (see Varman). The Atharvaveda[] refers to a ‘corselet-strap’ (kavaca-pāśa), which may point to a linen corselet such as those known to Herodotus.[]

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कवच न.
सुरक्षा-आवरण (गवामयन), का.श्रौ.सू. 13.13.13 (------ कवचं प्रयच्छति), आप.श्रौ.सू. 18.1०.3०।

  1. Av. xi. 10, 22 (kavacin).
  2. Śatapatha Brāhmaṇa, xiii. 2, 2, 7;
    Aitareya Brāhmaṇa, vii. 19, 2;
    Nirukta, v. 25 (kavaca);
    Śatapatha Brāhmaṇa, xiii. 1, 6, 3;
    4, 1, 5;
    Aitareya Brāhmaṇa, iii. 48;
    Vājasaneyi Saṃhitā, xvi. 45 (kavacin).
  3. xi. 10, 22.
  4. Bloomfield, Hymns of the Atharvaveda, 129, and Whitney, Translation of the Atharvaveda, 659, seem to recognize coats of mail only.
"https://sa.wiktionary.org/w/index.php?title=कवच&oldid=495449" इत्यस्माद् प्रतिप्राप्तम्