घृतम् - नपुंसकलिङ्गनामपदम्

घृतम्

संस्कृतम् सम्पाद्यताम्

  • घृतं, सर्पिस्, आग्नेयं, आस्थापनं, तनूनपं, तामरं, नवनीतजं, हवनीयं, आज्यम्।


नामम् सम्पाद्यताम्

  • घृतं नाम आज्यम्। भोजनारम्भे घृतान्नस्वीकरणाभ्यास: भारतीयानाम् । घृतं सस्यजन्यः आहारः न, अपि तु प्राणिजन्यः आहारः। प्राचीनात् कालात् अपि घृतम् आहारत्वेन तथैव औषधत्वेन अपि अत्यन्तं महत्त्वयुक्तम्। “ऋणं कृत्वा घृतं पिबेत्” इति उक्तिः एव घृतस्य महत्त्वं ज्ञापयति । आरोग्यशास्त्रे अपि घृतस्य विशिष्टं स्थानम् अस्ति।

गव्यविशेषम्,

अनुवादाः सम्पाद्यताम्

  1. आङ्ग्लम्- ghee-घी
  2. मलयालम्-ഘൃതം, നെയ്യ്,(नॆय्य्)
  3. हिन्दि- घी-घी
  4. तमिल्-னை नै
  5. तेलुगु-నెయ్యి
  6. कन्नड-ತುಪ್ಪ

उदाहरणम् सम्पाद्यताम्

  • स्नेहद्रव्येषु एव घृतम् अत्युत्तमम् । घृतस्य रुचिः मधुरा । शीतगुणयुक्तं, जठराग्निम् उद्दीपयति च । घृतं शरीरस्य सप्तसु धातुषु अन्नधातोः वर्धकम् । विधेः अनुसारं (क्रमानुगुणम्) घृतम् उपयुज्यते चेत् महान् लाभः भवति ।
  • “स्नेहानाम् उत्तमं शीतं वयसः स्थापनं परम् ।
   सहस्रवीर्यं विधिभिः घृतं कर्म सहस्रकृत् ॥“ (वाग्भट.सू.५) 
  • घृतं स्निग्धगुणयुक्तम् इति कारणात् वातं शमयति ।
  • घृतं जठराग्निम् उद्दीपयति । तेन शरीरस्य रोगांशाः सर्वे दग्धाः भवन्ति ।
  • घृतं मज्जाधातोः पोषकम् । तस्मात् कारणात् मस्तिष्कसम्बद्धेषु रोगेषु घृतेन निर्मितानाम् औषधानाम् उपयोगः अत्यन्तं हितकरः ।
  • घृतं मदम्, अपस्मारं, मूर्छारोगं च शमयित्वा मेधाशक्तिं, प्रज्ञाशक्तिं च वर्धयति ।
  • घृतं वार्धक्यम् अवरुणद्धि । (Antioxidant)

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an ocean of, surrounding क्रौञ्चद्वीप. Br. II. १६. १२; IV. ३१. १८; M. १३. 7.

"https://sa.wiktionary.org/w/index.php?title=घृतम्&oldid=506686" इत्यस्माद् प्रतिप्राप्तम्