त्रिदिवः
सम्स्कृतम्
सम्पाद्यताम्नामम्
सम्पाद्यताम्अन्य शब्दाः
सम्पाद्यताम्തർജ്ജമകൾ
सम्पाद्यताम्मलयालम्
- -സ്വർഗ്ഗം,(स्वर्गम्)
- -ത്രിദിവം, त्रिदिवम्
- -ത്രിദശാലയം, (त्रिदशालयम्)
- -സുരാലയം(सुरालयम्),
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिदिवः, पुं, (त्रयो ब्रह्मविष्णुरुद्रा दीव्यन्त्यत्रेति । दिव + “हलश्च ।” ३ । २ । १२१ । इति घञ् । संज्ञापूर्ब्बकत्वात् न गुणः । यद्वा, दीव्यन्तीति दिवाः । इगुपधज्ञेति कः । त्रयः सत्त्वरजस्तमो- रूपाः दिवाः क्रीडका विलासका इत्यर्थः यत्र । “तृतीया द्यौस्त्रिदिवः । घञर्थे कविधानं वृत्ति- विषये संख्याशब्दस्य पूरणार्थत्वं त्रिभागवत् ।” इति शिशुपालवधटीकायां मल्लिनाथः । १ । ३६ ।) स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा, मनुः । ९ । २५३ । “रक्षणादार्य्यवृत्तानां कण्टकानाञ्च शोधनात् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥”) क्ली, आकाशः । इति हेमचन्द्रः ॥