यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डम्, क्ली, पुं, (मन्यते ज्ञायते अनेन अन्नादिक- मिति । मन + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः ।) सर्व्वेषामन्नदध्यादीनामग्ररसः । इत्यमरभरतौ । माड् इति मात् इति च भाषा ॥ (यथा, उत्तररामचरिते ४ अङ्के । १ । “नीवारौदनमण्डमुष्णमधुरं सद्यःप्रसूताप्रिया- पीतादप्यधिकं तपोवनमृगः पर्य्याप्तमाचामति ॥”) सारः । पिच्छम् । इति मेदिनी । डे, २१ ॥

मण्डम्, क्ली, (मण्डतीति । मडि भूषादौ + अच् ।) मस्तु । इति मेदिनी । डे, २१ ॥ (यथा, भाग- वते । ५ । २० । २४ । “समानेन दधिमण्डोदेन परितः ॥”)

मण्डः, पुं, (मण्डयति क्षेत्रं भूषयतीति मडि + अच् ।) एरण्डवृक्षः । शाकभेदः । इति मेदिनी । ते, २१ ॥ मस्तु । भूषा । सारः । पिच्छम् । हेमचन्द्रः ॥ (मण्डति वर्षागमे हृष्यतीति मडि + अच् ।) दर्दूरः । भक्तादिभवरसः । तस्य लक्षणम् । “भक्तैर्विना द्रवो मण्डः पेयं भक्तसमन्वितम् ।” इति राजनिर्घण्टः ॥ (“तक्राल्लघुतरो मण्डः ।” इति च, सुश्रुते सूत्र- स्थाने ४५ अध्यायः ।) अथ मण्डस्य लक्षणं विधिर्गुणाश्च । “तण्डुलानां सुसिद्धानां चतुर्द्दशगुणे जले । रसः सिक्थैर्व्विरहितो मण्ड इत्यभिधीयते ॥ “शुण्ठी सैन्धवसंयुक्तो दीपनः पाचनश्च सः । अन्नस्य सम्यक् सिद्ध्यात्र ज्ञेया मण्डस्य सिद्धता ॥ पेया यूषयवागूनां विलेपीभक्तयोरपि ॥” तस्य गुणाः । “मण्डो ग्राही लघुः शीतो दीपनो धातुसाम्य- कृत् । ज्वरघ्नस्तर्पणो बल्यः पित्तश्लेष्मश्रमापहः ॥” इति भावप्रकाशः ॥ अपि च । “क्षुद्बोधनो वस्तिविशोधनश्च प्राणप्रदः शोणितवर्द्धनश्च । ज्वरापहारी कफपित्तहन्ता वायुं जयेदष्टगुणो हि मण्डः ॥” लाजमण्डोऽग्निजननो दाहतृष्णानिवारणः । ज्वरातीसारशमनोऽशेषदोषामपाचनः ॥ वाट्यमण्डोऽग्निजननः शूलानाहविनाशनः । पाचनो दीपनो हृद्यः पित्तश्लेष्मानिलापहः ॥” वाट्यमण्डो भृष्टयवमण्डः । इति राजवल्लभः ॥ (धान्यादिकृतमण्डगुणाः । क्लीवत्वं विवक्षितम् । “धान्यमण्डं पित्तहरं श्रमघ्नञ्चाश्मरीहरम् । वातलं रक्तशमनं ग्राहि सन्दीपनं परम् ॥” इति धान्यमण्डगुणाः ॥ “युगन्धराणां मण्डन्तु श्लेष्मकृद्वातलं मतम् । पित्तसंशमनीयञ्च मूत्रलं ग्राहणञ्च तत् ॥” इति युगन्धरमण्डगुणाः ॥ “रक्तशाल्युद्भवं मण्डं मधुरं ग्राहि शीतलम् । प्रमेहानश्मरीं हन्ति वातलं पित्तकृत्तथा ॥” इति रक्तशालिमण्डगुणाः ॥ “मधुरं शीतलं किञ्चित् श्लेष्मलं शोषनाशनम् । अश्मरीमेहसंछेदी वातलं श्वेतताण्डुलम् ॥” इति श्वेततण्डुलमण्डगुणाः ॥ “यवमण्ड कषायं स्याद् ग्राहि चोष्णं विपाकि च ।” इति यवमण्डगुणाः ॥ “तद्वत् गोधूमसंभूतं मधुरं पित्तवारणम् ।” इति गोधूममण्डगुणाः ॥ “ग्लानिमूर्च्छाकरं सद्यः कोद्रवाद्यकृतं लघु ।” इति कोद्रवमण्डगुणाः ॥ “तद्वच्च क्षुद्रधान्यानां वातलं पित्तकारकम् । करोति श्लीपदं गुल्मं प्रतिश्यायादिकोपनम् ॥” इति क्षुद्रधान्यमण्डगुणा ॥ इति मण्डवर्गाः ॥ इति हारीते प्रथमे स्थाने नवमेऽध्याये ॥ “मण्डस्तु दीपयत्यग्निं वातञ्चाप्यनुलोमयेत् । मृदूकरोति स्रोतांसि स्वेदं सञ्जनयत्यपि ॥ लङ्घितानां विरिक्तानां जीर्णे स्नेहे च तृष्य- ताम् । दीपनत्वाल्लघुत्वाञ्च मण्डः स्यात् प्राणधारणः ॥ तृष्णातीसारशमनो धातुसाम्यकरः शिवः । लाजमण्डोऽग्निजननो दाहमूर्च्छानिवारणः ॥ मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम् । देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः । क्षुत्पिपासासहः पथ्यः शुद्धानान्तु मलापहा ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः । वातानुलोमनो हृद्यः पिप्पलीनागरायुतः ॥” इति सुश्रुते सूत्रस्थाने ४६ अथ्यायः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्ड पुं।

एरण्डः

समानार्थक:व्याघ्रपुच्छ,गन्धर्वहस्तक,एरण्ड,उरुबूक,रुचक,चित्रक,चञ्चु,पञ्चाङ्गुल,मण्ड,वर्धमान,व्यडम्बक

2।4।51।2।3

एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः। चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

मण्ड पुं-नपुं।

सर्वेषाम्_रसानामग्रम्

समानार्थक:मण्ड

2।9।49।1।3

भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्त्रियाम्. मासराचामनिस्रावा मण्डे भक्तसमुद्भवे॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्ड¦ पुंन॰ मन--ड तस्य नेत्त्वम्।

१ सर्वान्नानामग्ररसे (माड)

२ सारे

३ पिच्छे च।

४ आमलक्यां

५ सुरायाञ्च स्त्री

६ दधिमण्डे (मात्) न॰ मेदि॰।

७ एरण्डवृक्षे

८ {??}भूषायां च पुंन॰ हेमच॰ अर्द्धर्चादिभावप्र॰ तद्विधानं यथा
“तण्डुलानां सुसिद्धानां चतुर्दशगुणे गले। रसःसिकथैर्विरहितो मण्ड इत्य{??}धीयते।{??}सैन्धव-संयुक्तो दीपनः पाचनश्च सः। अन्न{??}{??}सिद्ध्यात्रज्ञेया मण्डस्य सिद्धता। पेय यूपपवागूनां विलेपी[Page4718-b+ 38] भक्तयोरपि”। तस्य गुणाः
“मण्डी ग्राही लघुः शीतोदीपनो धातुसाम्यकृत्। जरघ्नस्तर्पणो बल्यः पित्त-श्लेष्मश्रमापहः”।
“क्षुद्बोधनो वस्तिविशोधनश्च प्राणप्रदःशोणितवर्द्धनश्च। ज्वरापहारी कफापत्तहन्ता बायुंजयेदष्टगुणो हि मण्डः। लाजमण्डोऽग्निजननो दाह-तृष्णानिवारणः। ज्वरातीसारशमनोऽशेषदोषामपाचनः। वाट्यमण्डोऽग्निजनः शूलानाहविनाशनः। पाचनोदीपनो हृद्यः पित्तश्लेष्मानिलापहः” राजवल्लभः। वाट्यमण्डो भृष्टयममण्डः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्ड¦ mn. (-ण्डः-ण्डं)
1. Scum, skimmings, froth, foam, barm, &c., the upper part of any infusion in a state of boiling or ferment.
2. Pith, essence.
3. The head. m. (-ण्डः)
1. Ornament, decoration.
2. The castor-oil tree. (Palma christi.)
3. A sort of potherb.
4. A frog. f. (-ण्डा)
1. Spirituous or vinous liquor.
2. Emblic myrobalan. E. मडि to adorn, Una4di aff. ड; मन-ड तस्य-नेत्त्वम् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डः [maṇḍḥ] ण्डम् [ṇḍam], ण्डम् [मन्-ड तस्य नेत्वं, मण़्ड्-अच् वा]

The thick oily matter or scum forming on the surface of any liquid.

The scum of boiled rice; नीवारौदनमण्डमुष्णमधुरम् U.4.1; तण्डुलानां सुसिद्धानां चतुर्दशगुणे जले । रसः सिक्थैर्विरहितो मण्ड इत्यभिधीयते Bhāva. P.

Cream (of milk).

Foam, froth or scum in general; घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् Śvet. Up.4.16; श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा Mb.12.318.68.

Ferment.

Gruel.

Pith, essence.

The head.

The spirituous part of wine; राज्यं गतधनं साधो पीतमण्डां सुरामिव Rām.2.36.12.

ण्डः An ornament, decoration.

A frog.

The castor-oil tree.

ण्डा Spirituous liquor.

The emblic myrobalan tree.

Comp. उदकम् barm, yeast.

decorating walls, floors &c. on festive occasions.

mental agitation or excitement.

variegated colour.-जातम् the second change which takes place in sour milk. -प a. drinking scum or cream. -पीठिका two quarters of the compass. -हारकः a distiller of spirits &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्ड mn. ( ifc. f( आ). )the scum of boiled rice (or any grain) Nir. Uttarar. Sus3r.

मण्ड m. the thick part of milk , cream , S3vetUp. MBh. etc. (See. दधि-म्)

मण्ड m. the spirituous part of wine etc. Hariv. R. ( W. also " foam or froth ; pith , essence ; the head ")

मण्ड m. (only L. )Ricinus Communis

मण्ड m. a species of potherb

मण्ड m. a frog(See. मण्डूक)

मण्ड m. ornament , decoration

मण्ड m. a measure of weight (= 5 माषs)

मण्ड m. spirituous or vinous liquor , brandy L.

मण्ड n. See. नौ-मण्ड.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a भार्गव gotraka1ra. M. १९५. २१.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇḍa, n., is found in the compound nau-maṇḍa (du.), denoting the two ‘rudders’ of a ship in the Śatapatha Brāhmaṇa.[१]

  1. ii. 3, 3, 15. Cf. Eggeling, Sacred Books of the East, 12, 345, n. 3, who, following the commentary, accepts ‘sides’ as the meaning;
    Caland, Über das rituelle Sūtra des Baudhāyana, 60.
"https://sa.wiktionary.org/w/index.php?title=मण्ड&oldid=474174" इत्यस्माद् प्रतिप्राप्तम्