संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

arमहिषी:

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषी, स्त्री, (महिषस्य कृताभिषेकस्य नृपस्य पत्नी । “पुंयोगादाख्यायाम् ।” ४ । १ । ४८ । इति ङीष् ।) कृताभिषेका राजपत्नी । इत्य- मरः । २ । ६ । ५ ॥ (यथा, रघौ । २ । २५ । “इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्त्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥”) सैरिन्ध्री । औषधिभेदः । इति मेदिनी । षे, ४३ ॥ महिषयोषित् । तत्पर्य्यायः । मन्दगमना २ महाक्षीरा ३ पयस्विनी ४ लुलापकान्ता ५ कलुषा ६ तुरङ्गद्विषणी ७ ॥ अस्याः क्षीर- गुणाः । मधुरत्वम् । विपाके शीतलत्वम् । गुरुत्वम् । बलपुष्टिप्रदत्वम् । वृष्यत्वम् । पित्तदाहास्रनाशित्वञ्च । “माहिषं मधुरं गव्यात् स्निग्धं शुक्रकरं गुरु । निद्राकरमभिष्यन्दि क्षुधाधिक्यकरं हिमम् ॥ तस्या दधिगुणाः । मधुरत्वम् । स्निग्धत्वम् । श्लेष्मकारित्वम् । रक्तपित्तनाशित्वम् । बलास्र- वर्द्धनत्वम् । बल्यत्वम् । श्रमघ्नत्वम् । शोधन- त्वञ्च । “माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत् । स्वादुपाकमभिष्यन्दि वृष्यं गुर्व्वस्रदूषणम् ॥ * ॥” अस्या नवनीतगुणाः । कषायत्वम् । मधुर- रसत्वम् । शीतत्वम् । वृष्यत्वम् । बल्यत्वम् । ग्राहित्वम् । पित्तघ्नत्वम् । तुन्ददत्वञ्च । “नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु । दाहपित्तश्रमहरं मेदःशुक्रविवर्द्धनम् ॥” अस्या घृतगुणाः । उत्तमत्वम् । धृतिकरत्वम् । सुखदत्वम् । कान्तिकृत्त्वम् । वातश्लेष्मनाशित्वम् । बलकरत्वम् । वर्णप्रदाने क्षमत्वम् । दुर्नाम- ग्रहणीविकारशमनत्वम् । मन्दानलोद्दीप- नत्वम् । चक्षुष्यत्वम् । गव्यतो न श्रेष्ठत्वम् । हृद्यत्वम् । मनोहारित्वञ्च । “माहिषन्तु घृतं स्वादु पित्तरक्तानिलापहम् । शीतलं श्लेष्मलं वृष्यं गुरु स्वादु विपच्यते ॥” इति भावप्रकाशः ॥ * ॥ अस्या मूत्रगुणाः । आनाहशोफगुल्भदोष- नाशित्वम् । कटुत्वम् । उष्णत्वम् । कुष्ट- कण्डूतिशूलोदररोगनाशित्वञ्च । इति राज- निर्घण्टः ॥ (अस्या दुग्धगुणाश्च यथा, चरके सूत्रस्थाने २७ अध्याये । “महिषीणां गुरुतरं गव्याच्छीततरं पयः । स्नेहानूनमनिद्राय हितमत्यग्नये च तत् ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषी स्त्री।

पट्टमहिषी

समानार्थक:महिषी

2।6।5।1।1

कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः। पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी॥

पति : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषी [mahiṣī], 1 A she-buffalo, buffalo-cow; Ms.9.55; माषानष्टौ तु महिषी सस्यघातस्य कारिणी Y.2.159.

The principal queen, queen-consort; महिषीसखः R.1.48;2. 25;3.9.

A queen in general.

The female of a bird; सासज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता Bhāg.7.2.52.

A lady's maid, female servant (सैरन्ध्री).

An immoral woman.

Money acquired by the prostitution of one's wife; cf. माहिषिक. -Comp. -पालः a keeper of she-buffaloes. -स्तम्भः a pillar adorned with a buffalo's head.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषी f. See. below.

महिषी f. a female buffalo , -bbuffalo-cow Br. Mn. MBh. etc.

महिषी f. any woman of high rank , ( esp. ) the first or consecrated wife of a king (also pl. )or any queen RV. etc.

महिषी f. the female of a bird BhP.

महिषी f. (with समुद्रस्य) , N. of the गङ्गाHariv.

महिषी f. an unchaste woman or money gained by a wife's prostitution L.

महिषी f. a species of plant L.

महिषी f. N. of the 15th day of the light half of the month तैषL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. of the केतुमाला country. वा. ४४. २२. [page२-670+ ३०]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Mahiṣī. See Mahiṣa.
==Foot Notes==

2. Mahiṣī, ‘the powerful one,’ the name of the first of the four wives (see Pati) of the king, is mentioned frequently in the later literature.[१] Perhaps even in the Rigveda[२] the technical sense of ‘first wife’ is present.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिषी स्त्री.
अभिषिक्त (प्रधान) रानी = पट्टमहिषी। का.श्रौ.सू. 2०.5.15 (अश्वमेघ यज्ञ)

  1. Taittirīya Saṃhitā, i. 8, 9, 1;
    Kāṭhaka Saṃhitā, xv. 4;
    Maitrāyaṇī Saṃhitā, ii. 6, 5;
    Pañcaviṃśa Brāhmaṇa, xix. 1, 4;
    Śatapatha Brāhmaṇa, vi. 5, 3, 1;
    vii. 5, 1, 6, etc.
  2. v. 2, 2;
    37, 3.
"https://sa.wiktionary.org/w/index.php?title=महिषी&oldid=506888" इत्यस्माद् प्रतिप्राप्तम्