मित्रम्
संस्कृतम्
सम्पाद्यताम्एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | मित्रम् | मित्रे | मित्रानि |
सम्बोधनप्रथमा | मित्र | मित्रे | मित्रानि |
द्वितीया विभक्तिः | मित्रम् | मित्रे | मित्रानि |
तृतीया विभक्तिः | मित्रेन | मित्राभ्याम् | मित्रैः |
चतुर्थी विभक्तिः | मित्राय | मित्राभ्याम् | मित्रेभ्यः |
पञ्चमी विभक्तिः | मित्रात् | मित्राभ्याम् | मित्रेभ्यः |
षष्ठी विभक्तिः | मित्रस्य | मित्रयोः | मित्रानाम् |
सप्तमी विभक्तिः | मित्रे | मित्रयोः | मित्रेषु |
- मित्रं, आप्यं, सम्बन्धकं, स्नेहितः।
नामम्
सम्पाद्यताम्- मित्रं नाम मानवः सहायं करोति। सः मित्रः।
अकारन्त नपुम्सकलिम्गम्
पर्यायपदाः
सम्पाद्यताम्इतरलिम्गम्
सम्पाद्यताम्अनुवादाः
सम्पाद्यताम्- अऱबिक्-صديقعसादिख्
- आङ्ग्लम्: friend फ़्र्न्ट्
- जर्मन्-Freund (de) m,
- तेलुगू- స్నేహితుడు (स्नेहितुडु),మిత్రుడు(मित्रुडु) (masculine);
- तमिळ्-நண்பன் (नन्पन्), தோழன் (तोऴन्)
- पोलिष्-przyjaciel (pl) m, przyjaciółka (pl) f
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मित्रम्, क्ली, बन्धुः । मिता इति भाषा । तत्पर्य्यायः । सखा २ सुहृत् ३ । इत्यमरः । २ । ८ । १२ ॥ माययति जानाति सर्व्वं मित्रं मी कि गत्यां नाम्नीति डित्रः मित्रमजहल्लिङ्गम् । निपाता- त्तस्य द्वित्वे द्वितकारञ्च । इति तट्टीकायां भरतः ॥ तच्चतुर्व्विधम् । सहार्थः १ भजमानः २ सहजः ३ कृत्रिमः ४ । इति महाभारते राज- धर्म्मः ॥ * ॥ मित्रत्वोत्पत्तिर्यथा, -- “न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचि- द्रिपुः । कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥” वर्ज्यमित्रं यथा, -- कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् । कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्जयेत् ॥ कुमित्रे नास्ति विश्वासः कुराजे नास्ति जीवितम् ॥ परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं मायामयमरिन्तथा ॥” विश्वस्तस्यैव मित्रत्वं यथा, -- “सा श्रीर्या न मदं कुर्य्यात् स सुखी तृष्णयोज्- झितः । तन्मित्रं यस्य विश्वासः पुरुषः स जितेन्द्रियः ॥” इति गारुडे १३ । १४ । १५ । अध्यायाः ॥ * ॥ मित्रप्रशंसादिर्यथा, -- “यस्य मित्रेण संभाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ यानि कानि च मित्राणि कर्त्तव्यानि शतानि च । पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥ परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ अपुत्त्रस्य गृहं शून्यं सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्व्वशून्या दरिद्रता ॥” इति हितोपदेशः ॥