यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागूः, स्त्री, (यूयते मिश्र्यते इति । यु + “सृयु- वचिभ्योऽन्युजागूजक्नुचः ।” उणा० ३ । ८१ । इति आगूच् ।) षड्गुणजलपक्वघनद्रवद्रव्यविशेषः । याउ इति भाषा ॥ तत्पर्य्यायः । उष्णिका २ श्राणा ३ विलेपी ४ तरला ५ । इत्यमरः । २ । ९ । ५० ॥ “यूयते मिश्र्यते यावागूः यु ल मिश्रणे नाम्नीति आगूः गुणः । ओषति हिनस्ति ज्वरादिरोगं उष्णिका उषू ष वाधे दहि पूर्व्वेण निक् । श्रायते पच्यते स्म श्राणा श्रा ल पाके क्तः सुल्वाद्योदिति नः । विलिम्पति विलेपी ञि लिपौ शप ञ लेपे पचादित्वादन् । नदादित्वा- दीप् । तरति प्लवति तरला त तरेऽभिभवे प्लुत्यां नाम्नीति अलः । ‘अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे । मण्डश्चतुर्द्दशगुणे यवागूः षड्गुणेऽम्भसि ॥’ इति वैद्यकोक्तो भेद इह नादृतः ॥” इति तट्टी- कायां भरतः ॥ अस्या गुणाः । “यवागूर्ज्वरतृष्णाघ्नी लघ्वी वस्तिविशोधनी । अतीसारे ज्वरे दाहे हिता वह्निप्रदीपनी ॥” इति राजवल्लभः ॥ (अथास्या गुणा लक्षणञ्च । “सन्दीपनी स्वेदकरी यवागूः सम्पाचनी दोषमलामयानाम् । सन्तर्पणी धातु बलेन्द्रियाणां शस्ता भवेत् सा ज्वररोगिणाञ्च ॥” भागैकञ्च भवेत्तत्र द्बिभागेन जलं क्षिपेत् । चित्रकं पिप्पलीमूलं पिप्पलीचव्यनागरम् ॥ धान्यकस्य समांशानि पिष्ट्वा श्वेतांश्च तण्डुलान् । संशुद्धा शिथिला किञ्चित् सा यवागूर्निगद्यते ॥ यवागूमुपभुञ्जानो जनो नारुचिमाचरेत् । शाकमाषफलैर्युक्ता यवागूः स्याच्च दुर्ज्जरा ॥” इति हारीते प्रथमस्थाने १२ अध्याये ॥ “यावागूः षड्गुणजले सिद्धा स्यात् कृशरा घना । यवागूर्ग्राहिणी वल्या तर्पणी वातनाशिनी ॥” इति मध्यखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू स्त्री।

यवागू

समानार्थक:यवागू,उष्णिका,श्राणा,विलेपी,तरला

2।9।50।1।1

यवागूरुष्णिका श्राणा विलेपी तरला च सा। म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः। गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू¦ स्त्री यूयते मिश्र्यते यु--आगू। षड्गुणजलपक्वेद्रवभेदे (याउ) अमरः।
“मण्डश्चतुर्दशगुणे यवागूःषड्गुणेऽम्भसि” वैद्यकषरिभाषा।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू¦ f. (-गूः) Sour gruel, prepared by the spontaneous fermentation of water in which rice, &c. has been boiled. E. यु to mix, आगूच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू [yavāgū], f. [यूयते मिश्र्यते यु-आगू] Rice gruel, sour gruel made from rice or from any other kind of grain, such as barley; यवागूर्विरलद्रवा Suśr.; Mb.12.193.22; मूत्राय कल्पते यवागूः Mbh. -Comp. -चारकः the lay-brother who prepares यवागू.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू f. (in Un2. iii , 81 said to come fr. 2. यु)rice-gruel

यवागू f. any weak decoction of other kinds of grain etc. ( accord. to some , a -decdecoction in which 4 measures of an ingredient are steeped in 64 -measmeasures of water and the whole boiled down to half the original quantity ; frequently in comp. with the ingredient from which the gruel is made) TS. Br. etc.

यवागू etc. See. p. 847 , col. 3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yavāgū means ‘barley-gruel,’[१] but is also used of weak decoctions of other kinds of grain.[२]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवागू स्त्री.
जौ का हलुवा या लप्सी, द्रष्टव्य-Wüst W, REMA 141-45; भा.श्रौ.सू. 1.11.9।

  1. Taittirīya Saṃhitā, vi. 2, 5, 2;
    Kāṭhaka Saṃhitā, xi. 2;
    Taittirīya Āraṇyaka, ii. 8, 8;
    Kauṣītaki Brāhmaṇa, iv. 13, etc.
  2. Of Jartila and Gvīdhuka, Taittirīya Saṃhitā, v. 4, 3, 2.
"https://sa.wiktionary.org/w/index.php?title=यवागू&oldid=479936" इत्यस्माद् प्रतिप्राप्तम्