यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्ञी, स्त्री, (राज्ञः पत्नी । राजन् + ङीप् । यद्वा, राजते इति । राज + कनिन् । ततः स्त्रियां ङोप् ।) राजपत्नी । राणी इति भाषा ॥ (यथा, रघुः । १ । ५७ । “तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥”) सूर्य्यपत्नी । इति मेदिनी । ञे, २ ॥ राजपत्न्यां वर्णनीयानि यथा, -- “देव्यां सौभाग्यलावण्यशीलशृङ्गारमन्मथाः । त्रपाचातुर्य्यदाक्षिण्यप्रेममानव्रतादयः ॥ वेणीधम्मिल्लसीमन्तभालश्रवणनासिकम् । कपोलाधरनेत्रभ्रूकटाक्षरदकन्धराः ॥ गण्डबाहुकरोरोजनाभीमध्यवलित्रयम् । लोमालिश्रोणिजङ्घोरुपादयुग्मनखं क्रमात् ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ सूर्य्यपत्न्याः प्रमाणान्तरं यथा, -- सूत उवाच । “विवस्वान् कश्यपात् पूर्ब्बमदित्यामभवत् पुरा । तस्य पत्नीत्रयं तद्वत् संज्ञा राज्ञी प्रभा तथा ॥ रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् । प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ॥ यमश्च यमुना चैव यमलौ तु बभूवतुः ॥” इति मात्स्ये ११ अध्यायः ॥ कांस्यः । इति । हेमचन्द्रः ॥ नीली इति राज- निर्घण्टः ॥ * ॥ (प्रतीची दिक् । यथा, छान्दोग्योपनिषदि । ३ । १५ । २ । “तस्य प्राची दिक् जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची मुभूता नामोदीचीति ॥” ‘तथा राज्ञी नाम प्रतीची पश्चिमा दिक् राज्ञी राज्ञा वरुणेनाधिष्ठिता सन्ध्यारागयोगाद्वा ।’ इति शाङ्करभाष्यम् ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्ञी¦ f. (-ज्ञी) A queen. नील्यां, कांस्ये, जातीपुष्यवृक्षे, पित्तलेच |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्ञी [rājñī], 1 A queen, the wife of a king.

Yellowish-red brass.

N. of the wife of the sun.

N. of the western quarter; राज्ञी नाम प्रतीची Ch. Up.3.15.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्ञी f. (See. 1. राजन्)a queen , princess , the wife of a king VS. etc.

राज्ञी f. N. of the western quarter or that which contains the Soul of the Universe ChUp. iii , 15 , 2 of the wife of the Sun Pur.

राज्ञी f. deep-coloured or yellowish-red brass (consisting of three parts of copper to one of zinc or tin) L.

राज्ञी राज्यetc. See. col. 1.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the three wives of विवस्वान्; she was the daughter of Raivata and had a son Revata. M. ११. 2-3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rājñī, ‘queen,’ is found in the Yajurveda Saṃhitās[१] and in the Brāhmaṇas.[२]

  1. Taittirīya Saṃhitā, iv. 3, 6, 2;
    4, 2, 1;
    Maitrāyaṇī Saṃhitā, ii. 8, 3, 9;
    Kāṭhaka Saṃhitā, xvii. 3, 8;
    Vājasaneyi Saṃhitā, xiv. 13;
    xv. 10.
  2. Taittirīya Brāhmaṇa, ii. 2, 6, 2;
    iii. 11, 3, 1;
    Aitareya Brāhmaṇa, v. 23, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=राज्ञी&oldid=503823" इत्यस्माद् प्रतिप्राप्तम्