यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीतकः, त्रि, वृक्षविशेषः । वहेडा इति भाषा । तत्पर्य्यायः । अक्षः २ तुषः ३ कर्षफलः ४ भूत- वासः ५ कलिद्रुमः ६ । इत्यमरः ॥ कल्पवृक्षः ७ संवर्त्तः ८ । इति रत्नमाला ॥ तैलफलः ९ भूतावासः १० संवर्त्तकः ११ वासन्तः १२ कलिवृक्षः १३ वहेडुकः १४ हार्य्यः १५ विषघ्नः १६ अनिलघ्नः १७ कासघ्नः १८ । (यथा, महा- भारते । ३ । ६४ । ५ । “पियालतालखर्ज्जूरहरीतकविभीतकैः ॥”) अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कषा- यत्वम् । उष्णत्वम् । कफापहत्वम् । चक्षुष्यत्वम् । पलितघ्नत्वम् । विपाके मधुरत्वञ्च ॥ तन्मज्ज- गुणाः । तृष्णाच्छर्द्दीकफवातहरत्वम् । लघु- त्वम् । मधुरत्वम् । मदकारित्वञ्च ॥ तत्तैल- गुणाः । स्वादुत्वम् । हिमत्वम् । केश्यत्वम् । गुरुत्वम् । पित्तानिलार्त्तिनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । अथ विभीतक- नामानि गुणाश्च । “विभीतकस्त्रिलिङ्गः स्यादक्षः कर्षफलस्तु यः । कलिद्रुमो भूतवासस्तथा कलियुगालयः ॥ विभीतकं स्वादुपाकं कषायं कफपित्तनुत् । उष्णवीर्य्यं हिमस्पर्शं भेदनं काशनाशनम् । रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्य्यनाशनम् ॥ विभीतमज्जा तृट्छर्द्दिकफवातहरो लघुः । कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणाः ॥” इति भावप्रकाशः ॥ * ॥ अन्यञ्च । “विभीतंभेदि तीक्ष्णोष्णं वैस्वर्य्यं क्रिमिनाशनम् । चक्षुष्यं स्वादुपाकञ्च कषायं कफपित्तनुत् ॥” इति राजवल्लभः ॥ * ॥ अस्य कलिद्रुमत्वकारणं यथा, -- पुलस्त्य उवाच । “ततो गतेषु देवेषु ब्रह्मलोकं प्रति द्विज । त्रैलोक्यं पालयामास बलिर्धर्म्मान्वितः सदा ॥ कलिस्तदा धर्म्मयुतं जगद्दृष्ट्वा कृते यथा । ब्रह्माणं शरणं भेजे स्वभावस्य निषेधनात् ॥ प्रणिपत्य तमाहाथ तिष्यो ब्रह्माणमीश्वरम् । मम स्वभावो बलिना नाशितो देवसत्तम ॥ तं प्राह भगवान् योगी स्वभावो जगतोऽपि हि । न केवलं हि भवतो हृतस्तेन बलीयसा ॥ पश्याद्य तिष्य देवेन्द्रं वरुणञ्च समागतम् । भास्वरोऽपि हि दीनत्वं प्रयातो हि बलाद्वलेः ॥ इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः । दीनान् दृष्ट्वा च शक्रादीन् विभीतकवनं गतः ॥” इति वामने १७ अध्यायः ॥ (अन्यच्च । यथा, महाभारते ३ । ७२ अध्याये । “एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै । तस्याक्षहृदयाज्ञस्य शरीरान्निःसृतः कलिः ॥” “तं शप्तुमैच्छत् कुपितो निषधाधिपतिर्नलः । तमुवाच कलिर्भीतो वेपनानः कृताञ्जलिः ॥ कोपं संयच्छ नृपते कीर्त्तिं दास्यामि ते पराम् ॥” “एवमुक्तो नलो राजा नियच्छत् कोपमात्मनः । ततो भीतः कलिः क्षिप्रं प्रविवेश विभी- तकम् ॥” “विभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीतक वि।

विभीतकी

समानार्थक:विभीतक,अक्ष,तुष,कर्षफल,भूतावास,कलिद्रुम

2।4।58।1।3

अमृता च वयस्था च त्रिलिङ्गस्तु बिभीतकः॥ नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीतक¦ पु॰ विशेषेण भीत इव इवार्थे कन्। (वयडा)वृक्षे अमरः।
“विभीतकं स्वादुपाकं कषायं कफपित्तनुत्। उष्णवीर्य्यं हिमस्पर्शं भेदनं कासनाशनम्। रूक्षंनेत्रहितं केश्यं कृमिवैस्वर्य्यनाशनम्। विभीतमज्जातृट्छर्दि कफवातहरो लघुः। कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणः” भावप्र॰। काभावे विभीतोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीतक¦ mfn. (-कः-की-कं) Beleric myrobalan, (Terminalia belerica.) E. विभीत fearless, कन् aff. “वहेडा इति भाषा |”

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीतक/ वि--भीतक See. s.v.

विभीतक m. (or f( ई). )the tree Terminalia Bellerica

विभीतक n. its berry (used as a die) S3Br. MBh. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vibhītaka[१] and Vibhīdaka,[२] the latter being the old form, denote a large tree, the Terminalia bellerica, the nut of which was used in dicing.[३] The wood was also used for making the[४] sacrificial fire burn.

  1. This form is the regular one after the Rigveda.
  2. Rv. vii. 86, 6;
    x. 34, 1.
  3. Rv., loc. cit. See 2. Akṣa.
  4. Taittirīya Saṃhitā, ii. 1, 5, 8;
    7, 3. Cf. Śatapatha Brāhmaṇa, xiii. 8, 1, 16, etc.

    Cf. Zimmer, Altindisches Leben, 62;
    Roth, Gurupūjākaumudī, 1-4;
    Lüders, Das Wūrfelspiel im alten Indien, 17-19.
"https://sa.wiktionary.org/w/index.php?title=विभीतक&oldid=474603" इत्यस्माद् प्रतिप्राप्तम्