यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शकुनिः, पुं, (शक्नोति उन्नेतुमात्मानमिति । शक + “शकेरुनोन्तोन्त्युनयः ।” उणा ०३ । ४९ । इति उनिः ।) पक्षी । इत्यमरः ॥ (यथा, मनुः । ५ । ११ । “क्रव्यादान् शकुनीन् सर्व्वांस्तथा ग्राम- निवासिनः । अनिद्दिष्टांश्चैकशफांष्टिट्टिभञ्च विवर्जयेत् ॥”) चिल्लपक्षी । इति हेमचन्द्रः ॥ सौवलः । स तु कौरवमातुलः । (अयं हि दुर्य्योधनमन्त्री । द्यूते पाण्डवान् जित्वा वनं प्रेरयामास । असौ हि कौरवयुद्धे सहदेवेन निहतः । एतद्विवरणं महा- भारते शल्यपर्व्वणि द्रष्टव्यम् ॥) ववाद्येकादश- करणान्तर्गताष्टमकरणम् । इति मेदिनी ॥ तत्करणजातफलम् । “परजनधनहर्त्ता वञ्चकः क्रूरचेष्टः करधृतकरवालो व्याहतस्वामिपक्षः । अतिशयपरदारासक्तचित्तः सरोषो भवति शकुनिजन्मा मानवः शीघ्रकर्म्मा ॥” इति कोष्ठीप्रदीपः ॥ * ॥ दुःसहपुत्त्रः । यथा, -- “दुःसहस्याभवत् भार्य्या निर्म्माष्टिर्नाम नामतः । जाता कलेस्तु पाप्मायां ऋतौ चण्डालदर्शनात् ॥ तयोरपत्यान्यभवन् जगद्ब्यापीनि षोडश । अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः ॥ दन्ताकृष्टिस्तथोक्तिश्च परिवर्त्तस्तथा परः । अङ्गधुक् शकुनिश्चैव गण्डप्रान्तरतिस्तथा ॥” तस्य पञ्च पुत्त्रा यथा, -- “श्येनकाककपोतांश्च गृघ्रोलूकौ च वै सुतान् । अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः ॥ श्येनं जग्राह वै मृत्युः काकं कालो गृहीत- वान् । उलूकं निरृतिश्चापि जग्राहातिभयावहम् ॥ गृध्रं व्याधिस्तदीशोऽथ कपोतञ्च स्वयं यमः । एतेषामेव चैवोक्ताः कृताः पापोपपादने ॥ तस्मात् श्येनांदयो यस्य निलीयन्ते शिरस्यथ । तेनात्मरक्षणायालं शान्तिः कार्य्या द्विजोत्तम ॥ गेहे प्रसूतिरेतेषां तद्बन्नीडनिवेशनम् । न शस्तं वर्जयेद्गेहं कपोताक्रान्तमस्तकम् ॥ श्येनः कपोतो गृध्रो वा कौशिको वा गृहे द्विजः । प्रविष्टः कथयन्त्यन्तं वसतां तत्र वेश्मनि ॥ ईदृक् परित्यजेद्गेहं शान्तिं कुर्य्याद्द्विजोत्तम । स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते ॥” इति मार्कण्डेयपुराणे दुःसहवंशोत्पत्तिनामा- ध्यायः ॥ * ॥ विकुक्षिपुत्त्रः । यथा, -- “वैवस्वतमनोरासीदिक्ष्वाकुः पृथिवीपतिः । तस्य पुत्त्रशतं चासीद्बिकुक्षिर्ज्येष्ठ उच्यते ॥ सोऽयोध्याधिपतिर्वीरस्तस्य पञ्चदश स्मृताः । शकुनिप्रमुखाः पुत्त्रा रक्षिता रोमहर्षिताः ॥” इति वह्निपुराणे सगरोपाख्याननामाध्यायः ॥

अमरकोशः सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शकुनि पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।32।2।3

खगे विहङ्गविहगविहङ्गमविहायसः। शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शकुनि¦ पु॰ शक--उनि!

१ पक्षिमात्रे अमरः।

२ चिल्लप-क्षिणि हेमच॰।

३ सुवलराजपुत्रे दुर्य्योधनमातुले च।

३ श्यामापक्षिणि स्त्री ङीप् राजनि॰।

४ ववादिषु करण-भेदे पु॰

५ दुःसहनृपपुत्रे पु॰ मार्कण्डे यपु॰। विकृतिनृप-पुत्रभेदे पु॰ वह्निपु॰।

शब्दसागरः सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शकुनि¦ m. (-निः)
1. A bird.
2. The meternal uncle of the Kaurava princes, and counsellor or DURYODHAN4A.
3. One of the astrono- mical periods called Karan4as.
4. The Indian kite or eagle, (Falco cheela.) f. (-नी) A hen-sparrow. E. शक् to be able, उनि Una4di aff.

Apte सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शकुनिः [śakuniḥ], [शक्-उनि]

A bird; तरुशकुनिकुरङ्गान् मैथिली यानपुष्यत् U.3.25; Ms.12.63.

A vulture, kite or eagle.

A cock.

N. of a son of Subala, king of Gāndhāra and brother of Gāndharī, wife of Dhṛitarāṣṭra; he was thus the maternal uncle of Duryodhana whom he assisted in many of his wicked schemes to exterminate the Pāṇḍavas. The name is now usually applied to an old wicked-minded relative whose counsels tend to ruin.

N. of a demon killed by Kṛiṣṇa. -Comp. -ईश्वरः N. of Garuḍa. -प्रपा a trough for watering birds.

वादः the cry or sound of a bird.

the crowing of a cock.

Monier-Williams सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

शकुनि m. a bird ( esp. a large bird L. = ग्रिध्रor चिल्लaccord. to some " a cock ") RV. etc.

शकुनि m. (in astronomy) N. of the first fixed करण(See. ) VarBr2S.

शकुनि m. N. of a Naga MBh.

शकुनि m. of an evil demon (son of दुः-सह) Ma1rkP.

शकुनि m. of an असुर(son of हिरण्या-क्षand father of वृक) Hariv. Pur.

शकुनि m. of the brother of queen गान्धारी(and therefore the brother-in-law of धृत-राष्ट्रand the मातुलor maternal uncle of the कुरुprinces ; as son of सुबल, king of गान्धार, he is called सौबल; he often acted as counsellor of दुर्योधन, and hence his name is sometimes applied to an old officious relative whose counsels ten to misfortune) MBh. Hariv. etc. (See. IW. 380 )

शकुनि m. of a son of विकुक्षिand grandson of इक्ष्वाकुHariv.

शकुनि m. of a son of दश-रथib. BhP.

शकुनि m. of the great-grandfather of अशोकRa1jat.

शकुनि m. du. N. of the अश्विन्s MW.

शकुनि f( इor ई). See. below.

Purana index सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--(सौबल) a prince of गान्धार and an evil adviser to Duryodhana; joined him in insulting Vidura; attacked the northern gate of मथुरा, and the eastern gate of Gomanta when they were besieged by जरासन्ध. भा. III. 1. १४; 3. १३; VII. 2. १८; X. ५०. ११ [7]; ५२. ११. [6].
(II)--father of Asura वृक; took part in the देवासुर war between Bali and Indra. भा. VIII. १०. २०; X. ८८. १४. [page३-356+ २२]
(III)--a son of (एका) दशरथ and father of Karambhi (aka). भा. IX. २४. 4-5; Br. III. ७०. ४४; वा. ९५. ४३; Vi. IV. १२. ४१.
(IV)--a son of विकुक्षि. Br. III. ६३. 9.
(V)--a son of सनद्वाज; father of स्वागत. Br. III. ६४. २०.
(VI)--a son of Danu M. 6. १७.
(VII)--a son of दृढरथ and father of Karambha. M. ४४. ४२.
(VIII)--had ५०० brothers who were rulers of उत्तरापथदेश; of these ४८ had sovereignty over the south; all sons of इक्ष्वाकु. वा. ८८. 9.
(IX)--a son of सुतद्वाज. वा. ८९. २०.

Purana Encyclopedia सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Śakuni  : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 14, 13.

_______________________________
*6th word in right half of page p59_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

Vedic Index of Names and Subjects सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Śakuni, ‘bird,’ is used practically like Śakuna, but with a much clearer reference to divination. It was smaller than the Śyena or Suparṇa,[१] gave signs,[२] and foretold ill-luck.[३] When it is mentioned[४] in the list of sacrificial victims at the Aśvamedha (‘horse sacrifice’), a special species must be meant: later the falcon is so called, but the ‘raven’ may be intended; the commentator on the Taittirīya Saṃhitā thinks that it is the ‘crow.’ It is mentioned several times elsewhere.[५]

  1. Rv. ii. 42, 2.
  2. Rv. ii. 42, 1;
    43, 3.
  3. Av. x. 3, 6.
  4. Taittirīya Saṃhitā, v. 5, 19, 1;
    Vājasaneyi Saṃhitā, xxiv. 40;
    Maitrāyaṇī Saṃhitā, iii. 14, 21.
  5. Av. ii. 25, 2;
    vii. 64, 1;
    xi. 9, 9;
    Kāṭhaka Saṃhitā, xxv. 7;
    Aitareya Brāhmaṇa, ii. 15, 12;
    iv. 7, 3;
    Satapatha Brāhmaṇa, xiv. 1, 1, 31;
    Chāndogya Upaniṣad, vi. 8, 2, etc.

    Cf. Zimmer, Altindisches Leben, 88, 430.
"https://sa.wiktionary.org/w/index.php?title=शकुनि&oldid=474696" इत्यस्माद् प्रतिप्राप्तम्