यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयनम्, क्ली, (शी + ल्युट् ।) निद्रा । शय्या । इत्यमरः ॥ (यथा, महाभारते । १ । १४५ । १४ । “आसनानि च दिव्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनां यथा तुष्येत वै पिता ॥”) मैथुनम् । इति मेदिनी ॥ अथ सर्व्वदेवशयन- कालः ।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयन नपुं।

निद्रा

समानार्थक:निद्रा,शयन,स्वाप,स्वप्न,संवेश,तन्द्रा

1।7।36।2।2

विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे। स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥

वैशिष्ट्य : निद्राशीलः

पदार्थ-विभागः : , क्रिया

शयन नपुं।

शय्या

समानार्थक:शय्या,शयनीय,शयन,तल्प,औशीर,तूलि

2।6।138।1।1

शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयन¦ न॰ शी--ल्युट्।

१ निद्रायां

२ शय्यायाम् अमरः

३ मै-थुने च मेदि॰। देवभेदे शयनकालभेदादि वामनपु॰

१६ अ॰ उक्तं यथा
“मिथुना भगते सूर्ये शुक्लपक्षे तपोधन!। एकादश्यांजगत्स्वामिशयनं परिकल्पयेत्। शेषाहिभोगपर्य्यङ्कंकृत्वा संपूज्य केशवम्। कृत्वोपवीतकञ्चैव सम्यक् संपूच द्विजान्। अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतःशुचिः। लब्ध्वा पीताम्बरधरं स्वस्ति निद्रां समानयेत्। त्रयीदश्यां ततः कामः स्वपते शयने शुभे। कदम्बानांसुगन्धानां कुसुमैः परिकल्पिते। चतुर्दश्यां ततो यक्षाःस्वपन्ति सुखशीतले। सुवर्णपङ्कजकृते सुखास्तीर्णोप-धानके। पौर्णमास्यामुमानाथः स्वपते चर्मसंस्तरे। वैयाघ्रे च जटाभारं सभुद्ग्रथ्यान्यचर्मणा। ततोदिवाकरे राशिं संप्रयाति च कर्कटम्। ततोऽमराणांरजनी भवते दक्षिणायनम्। ब्रह्मा प्रतिपदि तथानीलोत्पलदलेऽनघ!। तल्पे स्वपिति देवानां दर्शयन्मार्गमुत्तमम्। विश्वकर्मा द्वितीयायां तृतीयायां गिरेःसुता। विनायकश्चतुर्थान्तु पञ्चम्यामपि धर्मराट्। षष्ठ्यां स्कन्दश्च स्वपिति सप्तम्यां भगवान् रविः। कात्या-यनी तथाष्टम्यां नवम्यां कमलालया। दशम्यां भुजगे-न्द्राश्च स्वपन्ति वायुभोजनाः। एकादश्यान्तु कृष्णायांसाध्या ब्रह्मन् स्वपन्ति हि। एष क्रमस्ते सदितो नि-शायां शयने मुने!। स्वपत्सु तेषु देवेषु प्रावृट्कालःसमाययौ”। अथ लोकानां शयनप्रकारादि प्रदर्श्यते
“उपास्य पश्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य च। भृत्यैः परिवृतो भुक्त्वा नानितृप्तोऽथ संविशेत्। शुचिंदेशं विविक्तन्तु गोमयेन तु लेपयेत्। प्रागुदक्प्रवणंचैव संखपेत सदा बुधः। प्राक्शिराश्च स्वपेन्नित्यंतथा वै दक्षिणाशिराः। स्वपेदुदक्शिरा नैव तथाप्रत्यक्शिरा न च। न चान्तर्द्धानहीने तु न तिर्य्यकच कदाचन। शून्यालये श्मशाने तु एकवृक्षे चतुष्पथे। महादेवगृहे चापि मातृवेश्मनि न स्वपेत्। न यक्षनागायतने स्कन्दस्यायतने तथा। दर्भेषु च विना दीक्षांन स्वपेच्च कथञ्चन। धान्यगेहे च विप्राणां गुरूणाञ्चतथोपरि। नाशुचौ पर्णकीर्णे तु नाशुचिर्नाशिख-स्तथा। दिने सन्धौ न नग्नञ्च नोत्तरापरमस्तकः। [Page5085-a+ 38] नाकाशे पर्वते शून्ये न च चैत्यद्रुमे तथा। न तु द्वारे-ऽम्भसाकीर्णे नार्द्रपादस्त्वधावितः। पालाशे शयने नैवबहुदारुकृते न च। न दग्धे विद्युता चैव वह्निप्लुष्टेजले तथा। न स्वपेत् सन्ध्ययोर्नित्यं न शिवस्यासने कटे। एवं स्वपन् नरो नित्यं सुखस्येह परत्र भाक्। व्यत्यये चभवेद्दुःखी मृतो नरकमश्नुते” वह्निपु॰। सति सूर्य्येशय्या न पातनीया सूर्य्योदयात् पूर्वमुत्तोलनीयेत्याहस्मृतिः
“भास्करादृष्टशय्यानि नित्याग्निसलिलानि च। सूर्य्यावलोकिदीपानि लक्ष्म्या वेश्मानि भाजनम्। आसनंवसनं शय्या जायापत्यं कमण्डलुः। आत्मनः शुचि-रेतानि न परेषां कदाचन”। न कदाचन इत्यनुमतिंविना अन्यथातिथ्यानुपपत्तेः रघु॰। व्यासः
“शुचौ देशेविविक्ते तु गोमयेनोपलिप्तके। प्रागुदक्प्रवणे चैवसंविशेत्तु सदा बुधः। माङ्गल्यं पूर्णकुम्भञ्च शिरस्थानेनिधापयेत्। वैदिकैर्गारुडैर्मन्त्रैरक्षां कृत्वा स्वपेत्ततः”। गर्गः
“स्वगृहे प्राक्शिराः शेते आयुष्ये दक्षिणाशिराः। प्रत्यक्शिराः प्रवासे तु न कदाचिदुदक्शिराः” मार्कण्डेयपु॰
“प्राक्शिरःशयने विद्यात् धनमायुश्च दक्षिणे। प-श्चिमे प्रबलां चिन्तां हानिं मृथ्रं तथोत्तरे” तथा
“नम-स्कृत्याव्ययं विष्णुं समाधिस्थः स्वपेन्निशि” मार्कण्डेयपु॰
“शृन्यागारे श्मशाने च एकवृक्षे चतुष्कये। महादेव-गृहे चापि शर्करालोष्ट्रपांशुषु। धान्यगोविप्रदेवानांगुरूणाञ्च तथोपरि। न चापि भग्नशयने नाशुचौ ना-शुचिः स्वयम्। ” नार्द्रवासा न नग्नश्च नोत्तरापरम-स्तकः। नाकाशे सर्वशून्ये च न च चैत्यद्रुमे तथा”। न स्वपेदित्यर्थः आ॰ त॰।
“भुक्त्वा च विधिवन्-मन्त्रैर्द्विजो भुक्त्वाऽबशिष्टकम्। ससुहृद्बान्धवजनः स्वपेत्शुष्कपदो निशि। नोत्तराभिमुखः स्वप्यात् पश्चिमाभि-मुखो न च। न चाकाशे न नग्नो वा नाशुचिर्नासनेक्वचित्। न शीर्णायान्तु खद्वायां शून्यागारे न चैवहि। नापि वंश्ये च पालाशे शयने वा कदाचन” कौर्मपु॰

१८ अ॰
“कृतपादादिशौचश्च भुक्त्वा सायंततो गृही। गच्छेत् शय्यां सयन्त्राञ्च अथवा दारु-निर्मिताम्। शाल्मलस्य कदम्बस्य नीपमन्दारकस्यच। किंशुकस्य वटस्याथ तथा कुशमयस्य च। आरो-हणात् भवेत् पापं तस्मात्तेषु न च स्वपत्। प्ररोहशय्यां सूत्रेवा अर्पणे परमेश्वरि!। न शुक्रे नापवित्रेच न तृणे न च भूतले। तूलिकायां तग्रा वस्त्रे शय्या-[Page5085-b+ 38] भावे स्वपेद् गृही। स्वपेन्न पट्टवस्त्रे च कलङ्की कम्ब-लेषु च” मत्स्यपु॰

४४ प॰।
“श्वासानष्टौ ससुत्तानस्तान्द्वि

१६ पार्श्वे च दक्षिणे। ततस्तद्द्विगुणान्

३२ वामेपश्चात् स्वप्यात् यथासुखम्। वामदिशायामनलो नाभेरूर्द्ध्वोऽस्ति जन्तूनाम्। तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम्” भावप्र॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयन¦ n. (-नं)
1. Sleep.
2. A bed, a couch.
3. Copulation. E. शी to sleep, ल्युट् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयनम् [śayanam], [शी-ल्युट्]

Sleeping, sleep, lying down.

A bed, couch; शयनस्थो न भुञ्जीत Ms.4.74; R.1.95; V.3.1.

Copulation, sexual union. -Comp. -अ (आ)गारः, -रम्, -गृहम् a bed-chamber, sleeping apartments. -एकादशी the eleventh day of the bright half of Āṣāḍha when Viṣṇu lies down to enjoy his four months' repose. -तलगत a. gone to bed, lying in bed. -पालिका the (female) keeper of a (royal) bed.-भूमिः a bed-chamber. -रचनम् the preparation of a bed (one of the 64 arts). -वासस् n. sleeping garment. -सखी a bed-fellow. -स्थ a. being on a couch; शयनस्थो न भुञ्जीत Ms.4.74. -स्थानम् a sleeping apartment, bed-chamber.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयन mfn. lying down , resting , sleeping Pan5car.

शयन n. the act of lying down or sleeping , rest , repose , sleep MBh. Ka1v. etc.

शयन n. ( ifc. f( आ). )a bed , couch , sleeping-place( acc. with भज्, आ-रुह्, सं-विश्etc. , " to go to bed or to rest " ; with Caus. of आ-रुह्, " to take to bed , have sexual intercourse with [acc.] " ; शयनंशृतor ने स्थितmfn. gone to bed , being in bed) S3Br. etc.

शयन n. copulation , sexual intercourse L.

शयन n. N. of a सामन्L.

शयन etc. See. p. 1055 , col. 3.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śayana in the Atharvaveda[] and later[] denotes a ‘couch.’ Cf. Talpa, Vahya.

  1. iii. 25. 1;
    v. 29. 8.
  2. Śatapatha Brāhmaṇa, xi. 5, 1, 2;
    7, 4.
"https://sa.wiktionary.org/w/index.php?title=शयन&oldid=474724" इत्यस्माद् प्रतिप्राप्तम्