संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्णम्, क्ली, (सुष्ठु अर्णो वर्णो य स्य ।) सुवर्णम् । धुस्तूरः । इत्यमरः । २ । ९ । ९४ ॥ गौरसुवर्ण- शाकम् । नागकेशरम् । इति राजनिर्घण्टः ॥ * ॥ स्वर्णस्योत्पत्तिर्यथा, -- “एकदा सर्व्वदेवाश्च समूबुः स्वर्गसंसदि । तत्र कृत्वा च नृत्यञ्च गायन्त्यप्सरसां गणाः ॥ विसोक्य रम्भां सुश्रोणीं सकामो वह्निरेव च । पपात वीर्य्यं चच्छाद लज्जया वाससा तथा ॥ उत्तलौ स्वर्णपुञ्जश्च वस्त्रं क्षिप्त्वा ज्वलत्प्रभः । क्षणेन वर्द्धयामास स सुमेरुर्बभूव ह ॥ हिरण्यरेतसं वह्निं प्रवदन्ति मनीषिणः ॥” इति ब्रह्मवैवंर्त्ते श्रीकृष्णजन्मखण्डे १३१ । ३३-३७ ॥ तस्य गुणाः । “सुवर्णं तिक्तमधुरं कषायं गुरु लेखनम् । हृद्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि ॥ आयुर्मेधावयःस्थैर्य्यवाग् विशुद्धिद्यतिप्रदम् । क्षयोन्मादगदार्त्तानां शमनं परमुच्यते ॥” इति राजवल्लभः ॥ * ॥ सुवर्णस्य शोधनमारणविधिर्यथा । मारणाय योग्यं सुवर्णमाह । “दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् । तारशुक्लाग्निभं स्निन्धं कोमलं गुरु हेम सत् ॥” सत् उत्तमम् । “तच्छेतं कठिनं रूक्षं विवर्णं समलं दलम् । दाहे च्छेदेऽसितं श्वेतं कषे स्फुटलघु त्यजेत् ॥” अथ शोधनविधिः । “पत्तलीकृतपत्राणि हेम्नो वह्नौ प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा । एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥” * ॥ अथाशुद्धस्य सुवर्णस्य दोषमाह । “बलं सवीर्य्यं हरते नराणां रोगतजं पोषयतीह काये । असौख्यकार्य्ये च सदा सुवर्ण- मशुद्धमेतन्मरणञ्च कुर्य्यात् ॥” अथ स्वर्णमारणविः । “स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत् । तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥” स्वर्णस्य अतितनूकृतपत्रस्य । गन्धं गन्धकचूर्णम् । “गोलकञ्च ततो रुद्ध्वा सरावदृढसंपुटे ॥ त्रिंशद्वनोपलैर्दद्यात् पुटान्येवं चतुर्द्दश । निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥” रुद्ध्वा सवस्त्रकुष्टितचिक्वणमृत्तिकया । वनो- पलः गोइटा इति लोके । निरुत्थं यत् पुनर्न जीवति ॥ * ॥ अथान्यप्रकारः । “काञ्चने गलिते नागं षोडशांशेन निःक्षिपेत् । चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा तु गोलकम् ॥ गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् । सरावसंपुटे धृत्वा पुटे त्रिशद्धनोपलैः ॥ एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते । अत्रापि पूर्ब्बवद्गन्धः प्रदातव्यः पुनः पुनः ॥ काञ्चनारिरसैर्घृष्ट्वा समसूतकगन्धयोः । कज्जलीहेमपत्राणि लेपयेत् समया तथा ॥ काञ्चनारित्वचः कल्कैर्मूषायुग्मं प्रकल्पयेत् । धृत्वा तत् संपुटे गोलं मृन्मूषासंपुटे च तत् ॥ निधाय सन्धिरोधञ्च कृत्वा संशोष्य गोलकम् । वह्निं खरतरं कुर्य्यादेवं दद्यात् पुटत्रयम् ॥ निरुत्थं जायते भस्म सर्व्वकर्म्मसु योजयेत् । काञ्चनारिप्रकारेण लाङ्गलीं हन्ति काञ्चनम् ॥ णाङ्गली करिहारी । ज्वालामुखी तथा हन्यात्तथा हन्ति मनःशिला । शिलासिन्दूरयोश्चूर्णसमयोरर्कदुग्धकैः ॥ सप्तधा भावनां दद्याच्छोषयेच्च पुनः पुनः । ततस्तु गलिते हेम्नि कल्कोऽयं दीयते समः ॥ पुनर्धमेदतितरां यथा कल्को विलीयते । एवं बेलात्रयं दद्यात् कल्कं हेममृतिर्भवेत् ॥ एवं मारितस्य सुवर्णस्य गुणाः । सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् । स्वादु तिक्तञ्च तुवरं पाके च स्वादु पिच्छिलम् । पवित्रं वृंहणं नेत्र्यं मेघास्मृतिमतिप्रदम् ॥ हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् । विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित् ॥” वृष्यं वृषाय कामुकाय हितम् ॥ * ॥ असम्यङ्मारितं स्वर्णं बलं वीर्य्यञ्च नाशयेत् । करोति रोमान्पृत्युञ्च तद्धन्याद् यत्नतस्ततः ॥” इति भावप्रकाशः ॥ अन्यत् सुवर्णशब्दे द्रष्टव्यम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्णम् [svarṇam], [सुष्ठु अर्णो वर्णो यस्य]

Gold.

A golden coin.

A kind of red chalk (गौरिक); असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः Rām.7.7.15.

A kind of plant (Mar. धोत्रा). -Comp. -अङ्गः the Āragvadha tree.-अरिः sulphur. -कणः a kind of bdellium (Mar. कणगुग्गुळ).-कणः, -कणिका a grain of gold. -काय a. golden-bodied. (-यः) N. of Garuḍa. -कारः, -कृत् a goldsmith.-गर्भः (= हिरण्यगर्भः) N. of Brahmā. -गैरिकम् a kind of red chalk.

चूडः the blue jay.

a cock. -जम् tin.-दीधितिः fire. -द्वीपः N. of Sumātra. -धातुः red ochre.-नाभः ammonite (शालग्राम); Mb.5.4.1. -पक्षः N. of Garuḍa. -पद्मा the celestial Ganges. -पाठकः borax.-पुष्पः the Champaka tree. -फला a kind of Musa (Mar. सोनकेळ). -बन्धः a deposit of gold. -बिन्दुः N. of Viṣṇu.

भूमिका Ginger.

Cassia bark (Mar. दालचिनी). -भृङ्गारः a golden vase. -माक्षिकम् a kind of mineral substance; ताम्रं लोहं च वङ्गं च काचं च स्वर्णमाक्षिकम् Śiva B.3.11. -यूथी, -यूथिका yellow jasmine; Bhāg. 8.2.18. -रीतिः bell-metal. -रेखा, -लेखा a streak of gold. -रेतस् the sun. -वज्रम् a sort of steel. -वणिज् m.

a gold-merchant.

a money-changer. -वर्णा, -र्णम् turmeric.

"https://sa.wiktionary.org/w/index.php?title=स्वर्णम्&oldid=507069" इत्यस्माद् प्रतिप्राप्तम्