यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश, इर् य कार्श्ये । इति कविकल्पद्रुमः ॥ (दिवां- परं-सकं-सेट् । इरित् ।) कार्श्यं कृशकरणम् । इर्, अकृशत् अकर्शीत् । अस्मात् पुषादित्वान्नित्ये ङ इत्यन्ये । य, कृश्यति चन्द्रं कष्णपक्षः । इति दुर्गादासः ॥

कृशः, त्रि, (कृशधातोः क्तप्रत्यये “अनुपसर्गात् फुल्लक्षीवेति” । ८ । २ । ५५ । निपातनात् साधुः ।) अल्पः । (यथा, मनौ । ४ । १८४ । “आकाशेशाश्च विज्ञेया बालवृद्धकृशातुराः” ॥) सूक्ष्मः । इत्यमरः । ३ । १ । ६१ ॥ (यथा, आर्य्यासप्तशती । ४९५ । “राजसि कृशाङ्गि ! मङ्गलकलसी सहकारपल्ल- वेनेव । तेनैव चूम्बितमुखी प्रथमाविर्भूतरागेण” ॥ “व्यायाममतिसौहित्यं क्षुत्पिपासामथौषधम् । कृशो न सहते तद्वदतिशीतोष्णमैथुनम् ॥ प्लीहा कासः क्षयः श्वासो गुल्मार्शांस्युदराणि च । कृशं प्रायोऽभिधावन्ति, रोगाश्च ग्रहणीमताः” ॥ “सततं व्याधितावेतावतिस्थूलकृशौ नरौ । सततञ्चोपचय्यौ हि कर्षणैर्वृंहणैरपि” ॥ “स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ हितौ । यद्युभौ व्याधिरागच्छेत् स्थूलमेवाति पीडयेत्” ॥ इति चरके सूत्रस्थाने २१ अध्याये ॥ “कश्चिदन्यः कृशोऽतीव बलवान् दृश्यते तदा” ॥ तत्र हेतुमाह । “आधानसमये यस्य शुकभागोऽधिको भवेत् । मेदोभागस्तु हीनः स्यात् स कृशोऽपि महाबलः” ॥ यस्याधानसमये जनयितुः शुक्रस्याधिक्यं भवति । मेदसोऽल्पता तस्य कृशस्यापि बहु बलमित्यर्थः ॥ अथ कार्श्यस्य चिकित्सा । “रूक्षान्नादि निमित्ते तु कृशे युञ्जीत भेषजम् । वृंहणं बलकृद्वृष्यं तथा वाजीकरञ्च यत् ॥ पीताश्वगन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा । कृशस्य पुष्टिं वपुषो विधत्ते बालस्य शस्यस्य यथाम्बुवृष्टी ॥ अश्वगन्धस्य कल्केन क्वाथे तस्मिन् पयस्यपि । सिद्धं तैलं कृशाङ्गानामभ्यङ्गादङ्गपुष्टिदम्” ॥ इति अश्वगन्धातैलम् ॥ * ॥ इति भावप्रकाशस्य मध्यखण्डे तृतीयभागे कार्श्या- धिकारे ॥) (अक्षमः । यथा, मनौ । ४ । १३५ । “क्षत्त्रियञ्चैव सर्पञ्च ब्राह्मणं वा बहुश्रुतम् । नावमन्येत वै भूष्णुः कृशानपि कदाचन” ॥ पुं, सर्व्वाकारवत्त्वात् विष्णुः । यथा, महाभारते । १३ । १४९ । १०३ । “अणुर्वृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्” ॥ स्वनामख्यातो मुनिपुत्त्रः । स तु परीक्षिच्छाप- प्रदातुः शृङ्गिणः सखा । यथा, महाभारते । १ । ४१ । २ । “स तं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन् । अपृच्छत्तं कथं तातः स मेऽद्य मृतधारकः” ॥ ऐरावतकुलोत्पन्नो नागविशेषः । यथा, तत्रैव । १ । आस्तीकपर्व्वणि । ५७ । ११ । “पारावतः पारिजातः पाण्डरो हरिणः कृशः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश वि।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।61।2।7

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश¦ तनूकरणे दिवा॰ पर॰ सक॰ सेट्। कृश्यति इरित् अकृशत्अकर्शीत्। णिचि कर्शयति ते अचीकृशत्--त अचकर्श-त्{??}त। कर्शयाम् बभूव आस चकार चक्रे। कृशः।

कृश¦ त्रि॰ कृश--क्त नि॰।

१ अल्पे,

२ सूक्ष्मे च।
“आकाशे-शास्तु विज्ञेया बालवृद्धकृशातुराः” ष्ठपवासकृशं तन्तु”
“क्षत्रियञ्चैव सर्पञ्चब्राह्मणं वा बहुश्रुतम्। नावमन्येत वैभूयः कृशानपि कदाचन” मनुः
“ब्राह्मणस्य सुरश्रेष्ठ! कृशवृत्तेः कदाचन” भा॰ आनु॰

६२ अ॰। सूक्ष्मे कृशो-दरी। कृशस्य भावः इमनिच् क्रशिमत् तद्भावे पु॰। ष्यञ्। कार्श्य न॰। तल्। कृशता स्त्री, त्व
“कृशत्वन॰ तद्भावे
“त्वय्येवं कृशता कुतः” सा॰ द॰। अतिशयेनकृशः इष्ठन् क्रशिष्ठ ईयसुन् क्रशीयस्। अतिशयकृशेत्रि॰ ईयसौ स्त्रियां ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश¦ r. 4th cl. (इर) कृशिर (कृश्यति) To make thin or small.

कृश¦ mfn. (-शः-शा-शं)
1. Small, thin, tittle, minute.
2. Thin, spare, emaciated.
3. Weak, feeble. E. कृश् to pare or make thin, क्त affix, deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश [kṛśa], a. [कृश्-क्त नि˚] (Compar. क्रशीयस्; superl. क्रशिष्ट)

Lean, weak, feeble, emaciated; कृशतनुः, कृशोदरी &c.; कृशः काशः खञ्जः श्रवणरहितः पुच्छविकलः Bh.1.78.

Small, little, minute (in size or quantity); सुहृदपि न याच्यः कृश- धनः Bh.2.28.

Poor, insignificant; Ms.7.28. -Comp. -अक्षः a spider. -अङ्ग a. lean, thin. (-ङ्गः) an epithet of Śiva.

(ङ्गी) a woman with a slender frame; कृशाङ्ग्याः संतापं वदति नलिनीपत्रशयनम् Ratn.

the Priyaṅgu creeper. -अतिथि a. one who keeps his guests short of food; Mb.12.8.24. -उदर a.

thin-waisted; सद्यस्त्वया सह कृशोदरि विप्रयोगः V.5.16; Ku.5.42.

having the belly reduced in bulk; मेदच्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः Ś.2.5. -गव a. one who has lean cattle; यः कृशार्थः कृश- गवः कृशभृत्यः कृशातिथिः । स वै राजन् कृशो नाम न शरीरकृशः कृशः ॥ Mb.12.8.24. -भृत्य a. one who feeds his servants scantily; see above quotation.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृश mf( आ)n. ( Pa1n2. 8-2 , 55 ) lean , emaciated , thin , spare , weak , feeble RV. AV. etc.

कृश mf( आ)n. small , little , minute , insignificant Mn. MBh. R. Mr2icch. etc.

कृश mf( आ)n. " poor "See. कृशी-कृत

कृश m. a kind of fish Gal.

कृश m. a kind of bird Inscr.

कृश m. N. of a ऋषि(author of RV. viii , 55 ), viii , 54 , 2 and 59 , 3 ; x , 40 , 8 MBh. i , xiii

कृश m. N. of सांकृत्यायनCar. i , 12

कृश m. of नागMBh. i , 2152

कृश m. ( pl. )the descendants of कृशg. यस्का-दि( Gan2ar. 27 )

कृश m. ([See. ?. fr. ?])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वैकुण्ठ god. Br. II. ३६. ५७. [page१-434+ ३१]
(II)--a son of कृशा and उशीनर; capital was वृषला. M. ४८. १८ and २१.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛśa : m.: A mythical serpent.

Born in the kula of Airāvata, one of those offered in the snake sacrifice of Janamejaya 1. 52. 10, 11, 1.


_______________________________
*3rd word in right half of page p13_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛśa : m.: A mythical serpent.

Born in the kula of Airāvata, one of those offered in the snake sacrifice of Janamejaya 1. 52. 10, 11, 1.


_______________________________
*3rd word in right half of page p13_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛśa is mentioned with Saṃvarta as a pious sacrificer to Indra in one of the Vālakhilya hymns of the Rigveda[१] and in another[२] as a speaker of truth, while a third is traditionally[३] ascribed to his authorship. He seems also to be mentioned with Śayu as a protégé of the Aśvins in another hymn of the Rigveda,[४] but here the word may merely denote the ‘feeble man.’[५]

  1. viii. 54, 2.
  2. viii. 59, 3.
  3. Indische Studien, 1, 293, n.
  4. x. 40, 8.
  5. Roth, St. Petersburg Dictionary, s.v.

    Cf. Ludwig, Translation of the Rigveda, 3, 132, 164.
"https://sa.wiktionary.org/w/index.php?title=कृश&oldid=497144" इत्यस्माद् प्रतिप्राप्तम्