यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिः, स्त्री, (क्षियति वसत्यस्याम् । क्षि + अधि- करणे क्तिन् ।) अस्या अपरा व्युत्पत्तिर्यथा, -- “महालये क्षयं याति क्षितिस्तेन प्रकीर्त्तिता । काश्यपी कश्यपस्येयमचला स्थिररूपतः” ॥ इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ७ अध्यायः ॥ पृथिवी । (यथा, मनौ ४ । २४१ । “मृतं शरीरमुत्सृज्य काष्ठलोष्ट्रसमं क्षितौ । विमुखा बान्धवा यान्ति धर्म्मस्तमनुगच्छति” ॥) वासः । क्षयः । इत्यमरः । ३ । ३ । ७० ॥ काल- भेदः । स तु प्रलयः । इति मेदिनी ॥ रोचना- नामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥ * ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिति स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।2।2।7

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा। धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

क्षिति स्त्री।

अपचयः

समानार्थक:क्षय,क्षिया,अपचिति,क्षिति,नाश

3।3।70।2।2

नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे। सङ्गे सभायां समितिः क्षयवासावपि क्षिती॥

पदार्थ-विभागः : , क्रिया

क्षिति स्त्री।

वासः

समानार्थक:क्षिति

3।3।70।2।2

नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे। सङ्गे सभायां समितिः क्षयवासावपि क्षिती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिति¦ स्त्री क्षि--निवासे आधारे क्तिन्।

१ भूमौ,
“निपीय यस्यक्षितिरक्षिणः कथाम्” नैष॰। भावे क्तिन्।

२ निवासेक्षि--क्षये भावे--क्तिन्।

३ क्षये, कर्त्तरि क्तिच्।

४ रोचना-ख्योगन्धद्रव्ये शब्दच॰

५ मनुष्ये निघ॰॥ ” इन्द्र! प्रराजसिक्षितीः” ऋ॰

८ ,

६ ,

२६
“क्षितोर्मनुष्यान्” भा॰!
“प्रजासुता नः क्षितीः करतमूर्ज्जयन्तीम्” ऋ॰

७ ,

६६ ,

२ ,
“ध्रुवासुक्षितिषु क्षियन्तः” ऋ॰

७ ,

८८ ,

७ ,
“पञ्च क्षितीर्मानुषीर्वोध-यन्ती”

७ ,

७९ ,

१ ।
“क्षितीर्हि सा” अथ॰

१२ ,

५ ,

१६ । क्षि क्षयेआधारे क्तिन्।

६ प्रलयकाले मेदि॰। क्षितिशब्दनिरुक्तिःब्रह्मवै॰ पु॰ प्रा॰ ख॰

७ अ॰।
“महालये क्षयं याति क्षिति-स्तेन प्रकीर्त्तिता”। अस्मिन्पक्षे कर्त्तरि क्तिच् इति भेदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिति¦ f. (-तिः)
1. The earth.
2. An abode, a dwelling, a house.
3. Loss, destruction, wane.
4. The period of the destruction of the universe.
5. A perfume, commonly called Rochana. E. क्षि to waste, to dwell, &c, क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षितिः [kṣitiḥ], f. [क्षि निवासे आधारे क्तिन्]

The earth, soil of the earth; Mb.4.

A dwelling, an abode, a house; तं भक्तिभावो$भ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः Bhāg.4.9.5.

Loss, destruction.

The end of the world.

Wane.

A man (Ved.)

Prosperity; क्षिते रोहः प्रवहः शश्वदेव Mb.13.76.1.

Number 'one'; Bij.-Comp. -अदितिः an epithet of Devakī, mother of Kṛiṣṇa. -ईशः, -ईश्वरः a king; R.1.5; तदाननं मृत्सुरभि- क्षितीक्षरो रहस्युपाघ्नाय न तृप्तिमाययौ 3.3;11.1. -कणः dust.-कम्पः an earth-quake. -क्षित् m. a king, prince; Śi.13.4.

जः, रुहः, सुतः a tree; गिरिप्रकाशान् क्षिति- जान् भञ्जेयमनिलो यथा Mb.7.197.19.

an earth worm.

the planet Mars.

N. of the demon Naraka killed by Viṣṇu. Śi.8.15. (-जम्) the horizon. (-जा) an epithet of Sītā. -तलम् the surface of the earth. उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवः Bh.3.4. -त्राणम् protection of the earth (a duty of क्षत्रिय caste). -देवः, -सुरः a Brāhmaṇa; Bhāg.3.1.12. -धरः a mountain; क्षितिधरपतिकन्यामाददानः करेण Ku.7.94. -धेनुः earth considered as a milchcow; राजन्दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण Bh.2.46. -नाथः, -पः, -पतिः, -पालः, भुज् m., -रक्षिन् m. a king, sovereign; R.2.51, 6.76,6.86,7.3,9.75; यः संमानं सदा धत्ते भृत्यानां क्षितिपो$- धिकम् Pt.

पुत्रः the planet Mars.

the demon Naraka. -प्रतिष्ठ a. dwelling on the earth. -भृत् m.

a mountain; सर्वक्षितिभृतां नाथ V.4.27; (where it means 'a king' also); Ki.5.2; Ṛs.6.26.

a king.-मण्डलम् the globe. -रन्ध्रम् a ditch, hollow. -वर्धनःm. a corpse, dead body. करोमि क्षितिवर्धनम् Bk. -वृत्तिः f. 'the course of the earth, patient behaviour. -व्युदासः a cave within the earth, an underground hole.-संक्रन्दनः (= क्षितीन्द्रः, a king); Śāhendra.2.1.-स्पृश् an inhabitant of the earth (मानुष); इति चोपनतां क्षितिस्पृशं कृतवानासुरपुष्पदर्शनात् R.8.81.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिति f. dominion (Comm.) MBh. xiii , 76 , 10.

क्षिति f. an abode , dwelling , habitation , house(See. also उरु-and सु-क्षिति, ध्रुव.) RV.

क्षिति f. ( Naigh. i , 1 ) the earth , soil of the earth Mn. MBh. R. etc.

क्षिति f. the number " one " Bi1jag.

क्षिति f. ( अयस्)settlements , colonies , races of men , nations (of which five are named ; See. कृष्टि) RV.

क्षिति f. (said of the families of the gods) iii , 20 , 4

क्षिति f. estates Ra1jat. v , 109 (See. उरु-and सु-क्षिति, धारयत्-, ध्रुव-, भव-, रण-, समर-.)

क्षिति f. wane , perishing , ruin , destruction AV.

क्षिति f. the period of the destruction of the universe , end of the world L. (See. अ-, असुर-.)

क्षिति 3.

क्षिति See. 1. 2. and 4. क्षि.

क्षिति m. N. of a man Pravar.

क्षिति f. a sort of yellow pigment L.

क्षिति f. a sort of base metal

क्षिति f. = क्षिति-क्षम( s.v. 2. क्षिति) Gal.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a secondary divinity. भा. IV. १४. २६.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣiti is in the Rigveda[१] a regular word for ‘dwelling,’ and in particular the kṣitir dhruvā, ‘the secure dwelling,’ is mentioned[२] in a context that shows it, to be equivalent to the Vṛjana or Grāma regarded as a stronghold. From this sense is developed that of the peoples occupying the settlements,[३] and in particular the five peoples[४] (for whom see Pañca Janāsaḥ).

  1. i. 65, 3;
    iii. 13, 4;
    v. 37. 4, etc.
  2. i. 73, 4 (cf. 2);
    vii. 88, 7. See Zimmer, Altindisches Leben, 142.
  3. Rv. iii. 38, 1;
    iv. 24, 4;
    38, 5;
    v. 1, 10, etc.
  4. i. 7, 9;
    176, 3;
    v. 35, 2;
    vi. 46, 7;
    vii. 75, 4;
    79, 1.
"https://sa.wiktionary.org/w/index.php?title=क्षिति&oldid=497971" इत्यस्माद् प्रतिप्राप्तम्