यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिल, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ह्रस्वी । तेलति । इति दुर्गादासः ॥

तिल, क श स्निहि । इति कविकल्पद्रुमः ॥ (चुरां- तुदां च-परं-अकं-सेट् ।) स्निहि स्निग्धीभावे । क, तेलयति । श, तिलति तैलेनाङ्गम् । इति दुर्गादासः ॥

तिलः, पुं, (तिलति स्निह्यति तैलेन पूर्णो भवतीति । तिल + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।) स्वनामख्यातशस्यम् । तत्पर्य्यायः । होम- धान्यम् २ पवित्रः ३ पितृतर्पणः ४ पापघ्नः ५ पूतधान्यम् ६ । इति राजनिर्घण्टः ॥ स्नेह- फलः ७ स्नेहफलपूरफलः ८ । अस्य गुणाः । रसे कटुत्वम् । तिक्तत्वम् । मधुरत्वम् । तुवर- त्वम् । गुरुत्वम् । विपाके कटुत्वम् । स्वादुत्वम् । स्निग्धत्वम् । उष्णत्वम् । कफपित्तकारित्वम् । बल्यत्वम् । केशहितत्वम् । हिमस्पर्शत्वम् । त्वच्यत्वम् । स्तन्यत्वम् । व्रणे हितत्वम् । दन्त्य- त्वम् । अल्पमूत्रकारित्वम् । ग्राहित्वम् । वात- घ्नत्वम् । अग्निमतिप्रदत्वञ्च । इति भावप्रकाशः ॥ वर्णकारित्वम् ॥ * ॥ “कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणाःकिलान्ये तिलाः ॥” इति राजनिर्घण्टः ॥ अपि च । भावप्रकाशः । “कृष्णश्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः । अन्ये हीनतराः प्रोक्तास्तज्ज्ञैरक्तादयस्तिलाः ॥” तत्तैलगुणाः । अलङ्करत्वम् । केश्यत्वम् । मधु- रत्वम् । तिक्तत्वम् । कषायत्वम् । उष्णत्वम् । तीक्ष्णत्वम् । बलकारित्वम् । कफवातजन्तु- खर्जुव्रणकण्डूतिनाशित्वम् । कान्तिदत्वम् । वस्त्यभ्यङ्गपाननस्यकर्णाक्षिपूरणेषु हितत्वञ्च । इति राजनिर्घण्टः (तिलप्रतिग्रहनिषेधो यथा, ब्रह्मपुराणे । “ब्राह्मणः प्रतिगृह्णीयात् वृत्त्यर्थं साधुतस्तथा । अव्यश्वमपि मातङ्गतिललौहांश्च वर्ज्जयेत् ॥” तिलदाने फलमाह विष्णुः । “तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥” तथा महाभारते । “कल्यमुत्थाय यो विप्रः स्नातः शुक्लेन वाससा । तिलपात्रं प्रयच्छन् वै सर्व्वपापैः प्रमुच्यते ॥” शुद्धितत्त्वे । “प्रेतमुद्दिश्य यो दद्यात् हेमगर्भांस्तिलान्नृप ! । यावन्तस्ते तिलाः स्वर्गे तावत्कालं स मोदते ॥” सप्तमीं नवमीं पर्व्वकालञ्च त्यक्त्वा तिलतैलेना- ङ्गानि विमृक्ष्य स्नानं कर्त्तव्यम् । यथा, मार्क- ण्डेये । “सर्व्वकालं तिलैः स्नानं पुण्यं व्यासोऽब्रवीन्मनुः । श्रीकामः सर्व्वदा स्नानं कुर्व्वीतामलकैर्नरः । सप्तमीं नवमीञ्चैव पर्व्वकालञ्च वर्ज्जयेत् ॥” तिथितत्त्वे जन्मतिथिकृत्ये । “तिलोद्वर्त्ती तिलस्नायी तिलहोमी तिलप्रदः । तिलभुक् तिलवापी च षट्तिली नावसीदति ॥” रात्रौ तिलान्वितवस्तुमात्रं न भक्षयेत् । यथा, काशीखण्डे । “सर्व्वञ्च तिलसम्बद्धं नाद्यादस्तमिते रवौ ॥” तिलैस्तर्पणनिषेधस्तत्प्रतिप्रसवादिकञ्च तर्पण- शब्दे द्रष्टव्यम् ॥) तिलकालकः । यथा, -- “देवगुरुप्रसादेन जिह्वाग्रे मे सरस्वती । तेनाहं नृप जानामि भानुमत्यास्तिलं यथा ॥” इति कालिदासः ॥ (स्वल्पप्रमाणम् । तिलतुल्यत्वादस्य तथात्वम् । यथा, राजतरङ्गिण्याम् । ४ । ३२८ । “तिलं तिलं तं कृत्वा च चिक्षिपुर्दिक्षु सर्व्वतः । नगरान्निर्गतैः सैन्यैर्हन्यमानाः पदे पदे ॥”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिल¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। तेलति अतेलीत्। तितेल।

तिल¦ स्नेहे तु॰ पर॰ अक॰ अनिट्। तिलति अतेलीत्। तितेल।

तिल¦ स्नेहे चुरा॰ उभ॰ अक॰ सेट्। तेलयति ते अतीतिलत् त।

तिल¦ पु॰ तिल--क। स्वनामख्याते शस्यभेदे। भावप्र॰ तद्गुणाद्युक्तंयथा
“तिलः कृष्णः सितो रक्तः सवर्ण्योऽल्पतिलः स्मृतः। तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः। विपाके क-टुकः स्वादुः स्निग्धोष्णः कफपित्तनुत्। बल्यः केश्योहिमस्पर्शस्त्वच्यस्तन्योव्रणे हितः। दन्त्योऽल्पमूत्रकृद्-ग्राही वातघ्नोऽग्निमतिप्रदः। कृष्णः श्रेष्ठतमस्तेषु शु-क्रलो मध्यमः सितः। अन्ये हीनतराः प्रोक्तास्तज्ज्ञै-रक्तादयस्तिलाः”। तिलप्रतिग्रहनिषेधमाह ब्रह्मपुराणम्
“ब्राह्मणः प्रति-गृहणीयात् वृत्त्यर्थं साधुतस्तथा। अव्यश्वमपि मातङ्ग-तिललौहांश्च वर्जयेत्” तिलदाने फलमाह विष्णुः।
“तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्”। महाभारते
“कल्यमुत्थाय यो विप्रः स्नातः शुक्लेन वाससा। तिल-पात्रं प्रयच्छन् वै सर्वपापैः प्रमुच्यते”। श॰ त॰ स्मृतिः
“प्रेतमुद्दिश्य यो दद्यात् हेमगर्भांस्तिलान्नृप!। याव-न्तस्ते तिलाः स्वर्गे तावत्कालं स मोदते”। सप्तम्यादिवर्जंतिलैः सदा स्नानं कर्त्तव्यमाह मार्कण्डेयः
“सर्वकालं तिलैःस्नानं पुण्यं व्यासोऽब्रवीन्मुनिः। श्रीकामः सर्वदा स्नानंकुर्वीतामलकैर्नरः। सप्तमीं नवमीं चैव पर्वकालञ्च वर्ज-येत्” जन्मतिथौ तिलनिष्पाद्याः षड्व्यापाराः कार्य्याःयथाह ति॰ त॰
“तिलोद्वर्त्ती तिलस्नायी तिलहोमीतिलप्रदः। तिलभुक् तिलवापी च षट्तिली नावसी-दति” कालविशेषे तिलतर्पणनिषेधः गङ्गादौ च सर्वदानिषिद्धदिनेऽपि तिलतर्पणकार्य्यता च तर्पणशब्दे

३२

५८ पृ॰ उक्ता। रात्रौ तिलसंबद्धवस्तुमात्रस्याभक्ष्यता
“सर्वञ्चतिलसंबद्धं नाद्यादस्तमिते रवौ” काशी॰
“तिलाश्चम्पकसं-श्लेषात् प्राप्नु वन्त्यधिवासताम्” कामन्दकी॰
“विक्रीणातितिलैस्तिलान्” पञ्चत॰।

२ तिलतुल्ये स्वल्पप्रमाणे च
“तिलं तिलं समादाय रत्नामां यद्विनिर्मिता। तिलो-त्तमेति तत्तस्या नाम चक्रे पितामहः” भा॰ आ॰

७९

९६ श्लो॰।

३ तिलाकारे देहस्थे (तिल) ख्यातेतिलकालके च
“देवगुरुप्रसादेन जिह्वाग्रे मे सरस्वती। तेनाहं नृप! जानामि भानुमत्यास्तिलं यथा” कालिदासः। [Page3303-b+ 38] तिलस्य विकारः अण्। तैल तिलनिर्यासे तिलस्नेहेतिलसदृशवस्तुजाते स्नेहे च
“अदुष्टं सार्षपं तैलं यत्तैलंपुष्पवासितम्। अदुष्टं पक्वतैलञ्च स्नानाभ्यङ्गेषु नित्यशः” तिथित॰। पर्वणि तन्निषेधमाह
“स्त्रीतैलमांससंभोगी-विण्मूत्रनरकं व्रजेत्” ति॰ त॰ एवमन्यदिनेऽपि तैलनिषेधःस्मृतौ दृश्यः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिल¦ r. 1st cl. (तेलति) To go. r. 6th cl. (तिलति) and 10th cl. (तेलयति-ते)
1. To be unctuous or greasy.
2. To oil or anoint. E. भ्वा० प० सक० सेट् | तुदा० प० अक० अनिट् | चुरा० उभ० अक० सेट् |

तिल¦ m. (-लः)
1. A plant bearing an oily seed; the oil and seed being both much used in Oriental cooking, (Sesamum orientale.)
2. A mole or spot, compared to a seed of sesamum.
3. A small particle or portion. E. तिल् to be unctuous, affix क।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलः [tilḥ], [तिल्-क्]

The seasamum plant; नासाभ्येति तिल- प्रसूनपदवीम् Gīt.1.

The seed of this plant; नाकस्मा- च्छाण्डिलीमाता विक्रीणाति तिलैस्तिलान् । लुञ्चितानितरैर्येन कार्यमत्र भविष्यति ॥ Pt.2.7.

A mole, spot.

A small particle, as much as a sesamum-seed; तिले तालं पश्यति 'makes mountains of molehills.' -Comp. -अन्नम् rice with sesamum seed. -अप्, -अम्बु, -उदकम् water with sesamum seed offered to the dead as a libation; एते यदा मत्सुहृदोस्तिलापः Bhāg.1.12.15; श्राद्धानि नो$धिभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमये$प्यपिबत्तिलाम्बु Bhāg.7.8.45; Ś.3; तेषो दत्त्वा तु हस्तेषु सपवित्रं तिलोकदम् Ms.3.223. -उत्तमा N. of an Apsaras. -ओदनः, -नम् a dish of milk, rice and sesamum. -कठः sesamum powder (Mar. तिळकूट).-कल्कः dough made of ground sesamum. ˚जः oil-cake made of the sediment of ground sesamum.

कालकः a mole, a dark spot under the skin.

a disease of the penis, in which the fleshy parts become black and die off. -किट्टम्, -खलिः f., -खली, -चूर्णम् the caky sediment of sesamum after the oil is extracted; स्थाल्यां वैदूर्यमय्यां पचति तिलखलीमिन्धनैश्चन्दनाद्यैः Bh.2.1. -चतुर्थी The 4th day of the dark-half of Māgha. -तण्डुलकम् an embrace (so called because in it the two bodies are united together like rice mixed up with sesamum-seed).-तैलम् sesamum-oil; -द्वादशी The 12th day of a particular month (kept as a festival); तां रणस्वामिनं द्रष्टुं तिलद्वादश्यहे गताम् Rāj. T.5.395. -धेनुः f. sesamum made up in the form of a cow and offered as a present to a Brāhmaṇa. 'यावता वस्त्रेण कृत्स्ना धेनुराच्छादिता भवति तद्वस्त्र- पूरिततिलाः' is the another meaning given in the com.; भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै Mb.13.64.35. -पर्णः turpentine. (-र्णम्) sandal-wood.

पर्णी the sandal tree.

frankincense.

turpentine. -पर्णिका, -पर्णि (र्ण)कम् sandal-wood. -पिच्चटम् Sweetmeat of sesamum powder and sugar; L. D. B. -पिञ्जः, -पेजः barren sesamum. -पीडः an oilman; स्नेहेन तिलवत्सर्वं सर्गचक्रे निपीड्यते । तिलपीडैरिव Mb.12.174.24. -भाविनी jasmine. -मयूरः a species of peacock. -रसः, -स्नेहः sesamum oil. -होमः a burnt offering of sesamum.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिल m. Sesamum indicum (its blossom is compared to the nose Gi1t. x , 14 Sin6ha7s. ; See. -पुष्प) , sesamum seed (much used in cookery ; supposed to have originated from विष्णु's sweat-drops Hcat. i , 6 , 137 and 142 ) AV. ( ल, xviii , 4 , 32 ) VS. S3Br. etc.

तिल m. a mole Ka1lid.

तिल m. a small particle MBh. etc.

तिल m. the right lung S3a1rn3gS. v , 42

तिल m. pl. N. of a ch. of PSarv. (See. कृष्ण-, चर्म-, षण्ढ-).

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tila denotes in the Atharvaveda[] and later[] the sesamum plant, and particularly its grains, from which a rich oil (Taila) was extracted. It is often[] mentioned in connexion with Māṣa, ‘kidney bean.’ The Taittirīya Saṃhitā[] attributes the bean and the sesamum to the winter (hemanta) and the cool (śiśira) seasons. The stalk of the sesamum plant (tila-piñjī,[] til-piñja[]) was used for fuel, and the seed was boiled in the form of porridge (tilaudana[]) for food.

  1. ii. 8, 3;
    vi. 140, 2;
    xviii. 3, 69;
    4, 32.
  2. Taittirīya Saṃhitā, vii. 2, 10, 2;
    Maitrāyaṇī Saṃhitā, iv. 3, 2;
    Vājasaneyi Saṃhitā, xviii. 12;
    Śatapatha Brāhmaṇa, ix. 1, 1, 3, etc.
  3. Av. vi. 140, 2;
    Vājasaneyi Saṃhitā, loc. cit.;
    Bṛhadāraṇyaka Upaniṣad, vi. 3, 22;
    Chāndogva Upaniṣad, v. 10, 6, etc.
  4. Loc. cit.
  5. Av. ii. 8, 3.
  6. Av. xii. 2, 54.
  7. Bṛhadāraṇyaka Upaniṣad, vi. 4, 16;
    Śāṅkhāyana Āraṇyaka, xii. 8.

    Cf. Zimmer, Altindisches Leben, 240.
"https://sa.wiktionary.org/w/index.php?title=तिल&oldid=499986" इत्यस्माद् प्रतिप्राप्तम्