यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनुः, स्त्री, (धयति लेढि सुतान् धीयते वत्सैरिति वा । धेट पाने + “घेट इच्च ।” उणां ३ । ३४ । इति नुः इश्चान्तादेशः ।) नवप्रसूता गौः । तत्- पर्य्यायः । नवसूतिका २ । इत्यमरः । २ । ९ । ७१ ॥ नवप्रसूतिका ३ । इति शब्दरत्नावली ॥ दानीयदशधेनवो यथा, -- “यास्तु पापविनाशिन्यः पठ्यन्ते दशधेनवः । तासां स्वरूपं वक्ष्यामि नामानि च धनाधिप ! ॥ प्रथमा गुडधेनुः स्याद्घृतधेनुरथापि वा । तिलधेनुस्तृतीया च चतुर्थी जलसंज्ञिका ॥ क्षीरधेनुश्च विख्याता मधुधेनुरथापि वा । सप्तमी शर्कराधेनुर्दधिधेनुरथाष्टमी ॥ रसधेनुश्च नवमी दशमी स्यात् स्वरूपतः ॥ कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः । सुवर्णधेनुमप्यत्र केचिदिच्छन्ति मानवाः ॥ नवनीतेन तैलेन तथान्ये तु महर्षयः । एतदेव विधानं स्यात्त एवोपस्कराः स्मृताः ॥ मन्त्रावाहनसंयुक्ताः सदा पर्व्वणि पर्व्वणि । यथाश्राद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ॥ गुडधेनुप्रसङ्गेन सर्व्वास्तव मयोदिताः । अशेषयज्ञफलदाः सर्व्वपापहराः शुभाः ॥ व्रतानामुत्तमा यस्माद्बिशोकद्वादशीव्रतम् । तदङ्गत्वेन चैषात्र गुडधेनुः प्रशस्यते ॥ अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः । गुडधेन्वादयो देयास्तूपरागादिपर्व्वसु ॥” इति मत्स्यपुराणे ७६ अध्यायः ॥ पूर्ब्बोक्तधेनूनां दानविधयस्तत्तच्छब्दे द्रष्टव्याः ॥ * ॥ अथ कपिलाधेनुदानादिफलम् । होतोवाच । “अथातः संप्रवक्ष्यामि कपिलाधेनुमुत्तमाम् । जायमानस्य वत्सस्य मुखं योन्या प्रदृश्यते । तावत् सा पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ धेन्वा यावन्ति रोमाणि सवत्साया वसुन्धरे ! ॥ तावत्यो वर्षकोट्यस्तु ब्रह्मवादिभिरर्च्चिताः । वसन्ति ब्रह्मलोके वै ये च वै कपिलाप्रदाः ॥ सुवर्णशृङ्गीं यः कृत्वा रौप्यमुक्ताखुरान्तथा । ब्राह्मणस्य करे दत्त्वा सुवर्णं रौप्यमेव च ॥ कपिलायास्तदा पुच्छं ब्राह्मणस्य करे न्यसेत् । उदकञ्च करे दद्याद्वाचया शुद्धयादिते ॥ ससमुद्रावृता तेन सशैलवनकानना । रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ॥ पृथिवीदानतुल्येन दानेनैतेन वै नरः । नन्दितो याति पितृभिर्विष्ण्वाख्यं परमं पदम् ॥ ब्रह्मस्वहारी गोघ्नश्च भ्रुणहा पापदेहकः । महापातकयुक्तोऽपि वञ्चको ब्रह्मदूषकः ॥ निन्दको ब्राह्मणानाञ्च तथा कर्म्मोपदूषकः । एतैः पातकयुक्तोऽपि गवां दानेन शुध्यति ॥ यश्चोभयमुखीं दद्यात् प्रभूतकनकान्विताम् । तद्दिनं पयसाहारः पायसेनापि वा भवेत् ॥ सुवर्णस्य सहस्रेण तदर्द्धेनापि भामिनि ! । तस्याप्यर्द्धशतेनापि पञ्चाशच्च तदर्द्धकम् ॥ यथाशक्ति प्रदातव्या वित्तशाठ्यं विवर्ज्जयेत् ॥ इमां गृह्णोभयमुखीमुभयत्र शमोऽस्तु वै । मम वंशविवृद्ध्यर्थं सदा स्वस्तिकरी भव ॥” गोशरीरे देवतानिवेशो यथा, -- “दन्तेषु मरुतो देवा जिह्वायान्तु सरस्वती । खुरमध्ये तु गन्धर्व्वाः खुराग्रेषु तु पन्नगाः ॥ सर्व्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने । ककुदि सर्व्वनक्षत्रं लाङ्गूले धर्म्म आश्रितः ॥ अपाने सर्व्वतीर्थानि प्रस्रावे जाह्नवी नदी । नानाद्वीपसमाकीर्णाश्चत्वारः सागरास्तथा ॥ ऋषयो रोमकूपेषु गोमये पद्मधारिणी । रोमसु सन्ति विद्याश्च त्वक्केशेष्वयनद्वयम् ॥ धैर्य्यं धृतिश्च क्षान्तिश्च पुष्टिर्वृद्धिस्तथैव च । स्मृतिर्मेधा तथा लज्जा वपुः कीर्त्तिस्तथैव च ॥ विद्या शान्तिर्म्मतिश्चैव सन्ततिः परमा तथा । गच्छन्तीमनुगच्छन्ति एता गां वै न संशयः ॥ यत्र गावो जगत्तत्र देवदेवपुरोगमाः । यत्र गावस्तत्र लक्ष्मीः सांख्यधर्म्मश्च शाश्वतः ॥ सर्व्वरूपेषु ता गावस्तिष्ठन्त्यभिमताः सदा ॥ गावः पवित्रा मङ्गल्या देवानामपि देवताः । यस्ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते ॥” इति वराहपुराणम् ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनु स्त्री।

नूतनप्रसूता_गौः

समानार्थक:धेनु,नवसूतिका

2।9।71।1।3

चिरप्रसूता बष्कयणी धेनुः स्यान्नवसूतिका। सुव्रता सुखसंदोह्या पीनोध्नी पीवरस्तनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनु¦ स्त्री धयति सुतान्, धीयते पीयते वत्सैवां धेट्--नुइच्च।

१ गोमात्रे वत्सस्य धयनात् तस्यास्तथात्वम्।

२ नव-सूतिकायाम् सवत्सायां गवि स्त्री अमरः वत्सैः पीय-मानक्षीरत्वात् तस्यास्तथात्वम्। गोमात्रभेदाः दशविधा यथा वृह॰ पु॰ उत्तरखण्डे

१५

० अ॰
“गवां जातीस्तु वक्ष्यामि शृणुष्वैकमना द्विज!। प्रथमा-गौरकपिला द्वितीया गौरपिङ्गला। तृतीया रक्तकपिलाचतुर्थी नीलपिङ्गला। पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तुशुक्लपिङ्गला। सप्तमी चित्रपिङ्गाक्षी अष्टमी बभ्रुरो-हिणी। नवमी श्वेतपिङ्गाक्षी दशमी श्वेतपिङ्गला। तादृशास्तेऽप्यनड्वाहः कपिलास्तु प्रकीर्त्तिताः”।

३ दाना-र्थकल्पिते धेन्वाकारे गुडादिपदार्थे यथाह हेमा॰ दा॰(
“अत्र यद्यपि धेनुशब्देन स्वरूपतो गौरेवा॰भिधीयते तथापि धेनुशब्दसाधारण्यादिह प्रकरणेगुडधेन्वादीनामपि सन्निवेशो युक्तः तासु च क्रमेणनिरूप्यमाणासु
“दशमी स्यात् स्वरूपतः” इति स्वरूप-धेनोरन्ते स्थितत्वात् गुडधेन्वादय एव प्रथमतो निरू-ष्यन्ते। तदुक्तं मत्स्यपुराणे
“यास्तु पापविनाशिन्यःपठ्यन्ते दश धेनवः। तासां स्वरूपं वक्ष्यामि नामानिच नराधिप!। प्रथमा गुडघेनुः

१ स्यात् घृतधेनु

२ र-थापि च। तिलधेनु

३ स्तृतीया च चतुर्थी

४ जलसं-ज्ञिका। क्षीरधेनु

५ श्च विख्याता मधुधेनु

६ रथापि च। [Page3909-b+ 38] सप्तमी शर्कराधेनु

७ र्दधिधेनु

८ रथाष्टमी। रसधेनु

९ श्चनवमी दशमी स्यात् स्वरूपतः”।
“कुम्भाः स्युर्द्रवधेनूना-मितरासान्तु राशयः”।
“सुवर्णधेनुमप्यत्र केचिदिच्छन्ति-मानवाः” तत्तच्छब्दे दृश्यम्। यशोधनोधेनुमृषेर्मुमोच।
“अनिन्द्या नन्दिनी नाम धेनुराववृते वनात्” रघुः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनु¦ f. (-नुः) A milch cow, one that has lately calved. E. धे to drink, Una4di affix नु इच्च | धयति सुतान्, धीयते पीयते वत्सैर्वा |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनुः [dhēnuḥ], f. [धयति सुतान्, धीयते वत्सैर्वा, धे-नु इच्च Tv.]

A cow, milch-cow; धेनुं धीराः सूनृतां वाचमाहुः U.5.31.

The female of a species (affixed to the names of other animals in this sense); as खड्गधेनुः, वडवधेनुः &c.

The earth. (Sometimes at the end of comp. धेनु forms a diminutive; as असिधेनुः, खड्गधेनुः).

Any offering or present to Brāhmaṇa instead of or in the shape of a cow such as गुडधेनु, घृतधेनु, तिलधेनु, जलधेनु, क्षीरधेनु, मधुधेनु, शर्कराधेनु, दधिधेनु, रसधेनु, स्वरूपधेनु; Matsya P.

A mare; यथा धेनुः किशोरेण MS.7.4.7. (तद्यथा कृष्णकिशोरा धेनुरिति । यद्यपि धेनुशब्दो गोधेन्वां दृष्टप्रवृत्तिस्तथाप्यभि- धानसामान्यादश्वधेन्वामपि भागीति किशोरेण लिङ्गेन अश्वधेन्वां विज्ञायते । ŚB.). -Comp. -दक्षिण a. (a sacrifice) whereat a cow is given as a fee.

दुग्धम् cow's milk.

a kind of gourd (Mar. चिबुड). -मक्षिका a gadfly.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनु mfn. milch , yielding or giving milk

धेनु f. a milch cow or any cow RV. etc. ( ifc. of names of animals also denoting the female of any species of खड्ग-, गो-, वडव-)

धेनु f. any offering or present to Brahmans instead or in the shape of a cow (mostly ifc. [See. घृत-, जल-, तिल-etc. ] , where it also forms diminutives ; See. असि-, खड्ग-)

धेनु f. metaph. = the earth MBh. xiii , 3165

धेनु f. pl. any beverage made of milk RV. iv , 22 , 6 etc.

धेनु n. N. of a सामन्A1rshBr. (also मरुतां ध्and धेनु-पयसीdu. )

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the brown cow fit for gift in honour of the sun; the giver attains Golokam--details described. M. ९३. ६०. ८०; १०५. १६; २०५. 1-7.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHENU : See under Surabhi.


_______________________________
*4th word in left half of page 233 (+offset) in original book.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhenu in the Rigveda[] and later[] means ‘milch cow,’ which is often mentioned with special reference to the production of milk,[] and is contrasted with the ‘bull’ (vṛṣabha,[] pumāṃs,[] anaḍvāh).[] In the plural[] the word denotes ‘draughts of milk.’ The derivative, dhenukā, means merely ‘female.’[]

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धेनु स्त्री.
दुधारु-गाय, भा.श्रौ.सू. 5.2.1०.18; एक साम का नाम, जिसका गायन उस समय किया जाता है जब गाय को वत्स के समीप ले जाया जाता है, द्रा.श्रौ.सू. 2.2.29

  1. i. 32, 9 (saha-vatsā, ‘with her calf’);
    134, 4;
    ii. 2, 2;
    34, 8;
    vi. 135, 8, etc.
  2. Av. v. 17, 18;
    vii. 104. 1;
    Taittirīya Saṃhitā, ii. 6, 2, 3;
    Maitrāyaṇī Saṃhitā, iv. 4, 8;
    Vājasaneyi Saṃhitā, xviii. 27;
    Śatapatha Brāhmaṇa, ii. 2, 1, 21, etc.
  3. Rv. vii. 33. 22;
    viii. 14, 3;
    Av. iv. 34, 8 (kāma-dughā, ‘milking desires,’ the later ‘cow of plenty’ of the Epic);
    Satapatha Brāhmaṇa, xii. 8, 2, 2.
  4. Rv. x. 5, 7.
  5. Av. xi. 1, 34.
  6. Vājasaneyi Saṃhitā, xviii. 27;
    Satapatha Brāhmaṇa, iii. 1, 2, 21.
  7. Rv. iv. 22, 6;
    viii. 2, 6;
    4, 8;
    ix. 61, 21;
    72, 1, etc.
  8. Av. iii. 23, 4;
    Pañcaviṃśa Brāhmaṇa. xxv. 10, 23;
    Āśvalāyana Śrauta Sūtra, xii. 6, etc.
"https://sa.wiktionary.org/w/index.php?title=धेनु&oldid=500504" इत्यस्माद् प्रतिप्राप्तम्