संस्कृतम्

सम्पाद्यताम्

पुस्तकम् - नपुंसकलिङ्गनामपदम्

  • पुस्तकं नाम ग्रन्थः, पत्रं, पत्रिका।
  • उदाहरणं - सुन्दरकाण्डं वाल्मीकि रामायणग्नन्थे अस्ति।
  • प्रमाणपत्रं, पतिज्ञापत्रं, कुतज्ञतापत्रं, परिचयपत्रं इत्यादि।

पर्यायपदानि

सम्पाद्यताम्
पुस्तिका (स्त्री)

आङ्ग्लभाषा

सम्पाद्यताम्
  • पुस्तकम् - Book.
  • A Book of Science - शास्त्रम्
  • A Book on Law - धर्मशास्त्रम्
  • A Poetical Book - काव्यशास्त्रम्
  • A Manuscript, Written book - लेख्यं, लिखितम्।

यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुस्तकम्, क्ली, स्त्री, (पुस्त + स्वार्थे कन् ।) पुस्तम् । पुति इति भाषा । (यथा, हरि- वंशे । २५६ । ७६ । “शुक्लाम्बरधरः श्रीमान् शुचिर्भूत्वा स्वलङ्कृतः । अर्च्चयेत यथान्यायं गन्धमालैः पृथक् पृथक् ॥ संहितापुस्तकान् राजन् ! प्रयतः शिष्टसम्मतः ॥”) तस्य परिमाणं यथा, -- “मानं वक्ष्ये पुस्तकस्य शृणु देवि ! समासतः । मानेनापि फलं विन्द्यादमाने श्रीर्हता भवेत् ॥ हस्तमात्रं मुष्टिमात्रमाबाहुद्वादशाङ्गुलम् । दशाङ्गुलं तथाष्टौ च ततो हीनं न कारयेत् ॥” तस्य वेधो यथा, -- “वेधद्वयं मुष्टिहस्तं बाहुमात्रे चिरन्तकम् । समभागे महेशानि ! हस्तादौ रूपरन्ध्रकम् ॥ अष्टाङ्गुलं परित्यज्य भध्ये वेधं न कारयेत् । प्रादेशादौ भवेद्रन्ध्रो द्व्यङ्गुले वा समाचरेत् ॥ पुस्तकस्य च आद्यन्ते यन्त्रवेधं विकल्पयेत् । भार्य्याहानिर्भवेदाशु धनानां वा क्षयो भवेत् ॥ दग्धरन्ध्रे भवेत् पीडा वर्त्तुलं शुभदं भवेत् ।” चतुष्कोणे विप्लवस्तु त्रिकोणे मरणं भवेत् ॥ पुस्तककरणपत्रं यथा, -- “भूर्जे वा तेजपत्रे वा ताले वा ताडिपत्रके । अगुरुणापि देवेशि ! पुस्तकं कारयेत् प्रिये ! ॥ सम्भवे स्वर्णपत्रे च ताम्रपत्रे च शङ्करि ! । अन्यवृक्षत्वचि देवि ! तथा केतकिपत्रके ॥ मार्त्तण्डपत्रे रौप्ये वा वटपत्रे वरानने ! । अन्यपात्रे वसुदले लिखित्वा यः समभ्यसेत् । स दुर्गतिमवाप्नोति धनहानिर्भवेद्ध्रुवम् ॥” पुस्तके वेदलिखननिषेघो यथा, -- “वेदस्य लिखनं कृत्वा यः पठेद्ब्रह्महा भवेत् । पुस्तकंवा गृहे स्थाप्यं वज्रपातो भवेद्ध्रुवम् ॥” युगभेदे पुस्तकाक्षरस्थदेवा यथा, -- “सत्येऽक्षरे स्थितः शम्भुः शूलपाणिस्त्रिलोचनः । प्रजापतिर्द्वापरे च त्रेतायां सूर्य्य एव च । कृते युगे पिनाकी च कलौ लिप्यक्षरे हरिः ॥” तल्लेखकपूजाफलं यथा, -- “आरम्भे च समाप्तौ च लेखकं प्रतिपूजयेत् । हरिञ्च गन्धपुष्याद्यैर्वस्त्रैश्च सुमनोहरैः ॥ यावदक्षरसंख्यानं प्रतिपत्रे च सुन्दरि ! । तावद्युगसहस्राणि ब्रह्मलोके वसेच्चिरम् ॥” वेतनग्रहणे लेखकस्य दोषो यथा, -- “वेतनं यस्तु गृह्णीयात् लिखित्वा पुस्तकं स तु । यावदक्षरसंख्यानं तावच्च नरके वसेत् ॥” भूमौ पुस्तकलेखनस्थापननिषेधो यथा, -- “न भूमौ विलिखेद्वर्णं मन्त्रं न पुस्तकं लिखेत् । न मुक्त्वा पुस्तकं स्थाप्यं न मुक्तमाहरेत्तु तत् ॥ भूकम्पग्रहणे चैव अक्षरं वाथ पुस्तकम् । भूमौ तिष्ठति देवेशि ! जन्मजन्मसु मूर्खता । तदा भवति देवेशि ! तस्मात्तत् परिवर्ज्जयेत् ॥” इति योगिनीतन्त्रे तृतीयभागे सप्तमपटलः ॥ * ॥ तस्य दानफलं यथा, -- विप्राय पुस्तकं दत्त्वा धर्म्मशास्त्रस्य च द्विज ! । पुराणस्य च यो दद्यात् स देवत्वमवाप्नुयात् ॥ शास्त्रदृष्ट्या जगत् सर्व्वं सुश्रुतञ्च शुभाशुभम् । तस्मात् शास्त्रं प्रयत्नेन दद्याद्बिप्राय कार्त्तिके ॥ वेदविद्याञ्च यो दद्यात् स्वर्गे कल्पत्रयं वसेत् । आत्मविद्याञ्च यो दद्यात्तस्य संख्या न विद्यते ॥ त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च । शास्त्रं कामदुधा धेनुः पृथिवी चैव शाश्वती ॥” इति पाद्मोत्तरखण्डे ११७ अध्यायः ॥ * ॥ वेदशास्त्रादिदानफलं यथा, -- “वेदार्थयज्ञशास्त्राणि धर्म्मशास्त्राणि चैव हि । मूल्येन लेखयित्वा यो दद्याद्याति स वैदिकम् ॥ इतिहास्पुराणानि लिखित्वा यः प्रयच्छति । ब्रह्मदानसमं पुण्यं प्राप्नोति द्बिगुणीकृतम् ॥” इति गारुड २१५ अध्यायः ॥ * ॥ भागवतदानविधानं तु पारायणशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=पुस्तकम्&oldid=506827" इत्यस्माद् प्रतिप्राप्तम्