भिक्षा
सम्स्कृतम्
सम्पाद्यताम्नामः
सम्पाद्यताम्- निर्व्यापः
- [[
- [[
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | भिक्षा | भिक्षे | भिक्षाः |
सम्बोधनप्रथमा | भिक्षे | भिक्षे | भिक्षाः |
द्वितीया विभक्तिः | भिक्षाम् | भिक्षे | भिक्षाः |
तृतीया विभक्तिः | भिक्षया | भिक्षाभ्याम् | भिक्षाभिः |
चतुर्थी विभक्तिः | भिक्षायै | भिक्षाभ्याम् | भिक्षाभ्यः |
पञ्चमी विभक्तिः | भिक्षायाः | भिक्षाभ्याम् | भिक्षाभ्यः |
षष्ठी विभक्तिः | भिक्षायाः | भिक्षयोः | भिक्षानाम् |
सप्तमी विभक्तिः | भिक्षायाम् | भिक्षयोः | भिक्षासु |
अनुवादाः
सम्पाद्यताम्[[en: [[ml:
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भिक्षा, स्त्री, (भिक्ष याचनादौ + “गुरोश्च हलः ।” ३ । ३ । १०२ । इति अः । ततष्टाप् ।) लोभ- याचनम् । चाओया इति मागा इति च भाषा । तत्पर्य्यायः । याच्ञा २ अर्थना ३ अर्द्दना ४ । इत्यमरः । ३ । २ । ६ ॥ प्रार्थनम् ५ याचना ६ । इति शब्दरत्नावली ॥ (तदुक्तम् । “बाणिज्ये वसते लक्ष्मीस्तदर्द्धं कृषिकर्म्मणि । तदर्द्धं राजसेवायां भिक्षायां नैव नैव च ॥”) सेवा । भृतिः । इति नानार्थे अमरः ॥ भिक्षितवस्तु । इति मेदिनी ॥ (सा च ग्रास- प्रमाणा । ग्रासमात्रा भवेद्भिक्षेति शातातप- वचनात् ॥ यथा, मनुः । ३ । ९४ । “कृत्वैतद्बलिकर्म्मैवमतिथिं पूर्ब्बमाशयेत् । भिक्षाञ्च भिक्षवे दद्याद्बिधिवद् ब्रह्मचारिणे ॥”) उपनीतस्य भिक्षाविधिर्यथा, -- “भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतो- ऽन्वहम् । निवेद्य गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ॥ भवत्पूर्ब्बञ्चरेद्भैक्षमुपनीतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ मातरं वा स्वसारं वा मातुर्व्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ सजातीयगृहेष्वेव सार्व्ववर्णिकमेव वा । भैक्षस्याचरणं प्रोक्तं पतितादिविवर्जितम् ॥ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु । ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्ब्बं पूर्ब्बं विवर्जयेत् ॥ सर्व्वद्वारि चरेद्भैक्षं पूब्बोक्तानामसम्भवे । नियम्य प्रयतो वाचं दिशन्त्वनवलोकयन् ॥ समाहृत्य तु तद्भैक्षं यावदर्थममायया । भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ॥ भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥” इति कूर्म्मपुराणे उपविभागे १२ अध्यायः ॥ * ॥ सायं प्रातर्भिंक्षाटनाभावो यथा, -- “कारयित्वा तु कर्म्माणि कारुम्पश्चान्न वञ्चयेत् । सायं प्रातर्गहद्वारान् भिक्षार्थं नावघट्टयेत् ॥” इति तत्रैव १५ अध्यायः ॥ * ॥ सा त्रिविधा यथा, -- “हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं बुद्ध्वैतं परमेश्वरम् ॥ भिक्षामाहुर्ग्रासमात्रमग्रन्तस्माच्चतुर्गुणम् । पुष्कलं हन्तकारान्तं तच्चतुर्गुणमुच्यत ॥ गोदोहमात्रं कालं वै प्रतीक्षेदतिथिः स्वयम् । अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥ भिक्षां वै भिक्षवे दद्याद्बिधिवद्ब्रह्मचारिणे । दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥ सर्व्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयेत् ॥” इति तत्रैव १७ अध्यायः ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भिक्षा स्त्री।
याचनम्
समानार्थक:याञ्चा,अभिशस्ति,याचना,अर्थना,याञ्चा,भिक्षा,अर्थना,अर्दना,प्रणय,भिक्षा
3।2।6।2।4
आक्रोशनमभीषङ्गः संवेदो वेदना न ना। सम्मूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना॥
वृत्तिवान् : याचकः
वैशिष्ट्य : याचकः
पदार्थ-विभागः : , क्रिया
भिक्षा स्त्री।
भृतिः
समानार्थक:पण,निर्वेश,भिक्षा
3।3।225।2।2
स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्. प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥
पदार्थ-विभागः : धनम्
भिक्षा स्त्री।
सेवा
समानार्थक:श्राय,श्रयण,भिक्षा
3।3।225।2।2
स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्. प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥
वृत्तिवान् : सेवकः
वैशिष्ट्य : सेवकः
पदार्थ-विभागः : , क्रिया
भिक्षा स्त्री।
याचनम्
समानार्थक:याञ्चा,अभिशस्ति,याचना,अर्थना,याञ्चा,भिक्षा,अर्थना,अर्दना,प्रणय,भिक्षा
3।3।225।2।2
स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्. प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥
वृत्तिवान् : याचकः
वैशिष्ट्य : याचकः
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भिक्षा¦ स्त्री भिक्ष--अ।
१ याच्ञायाम् अमरः।
२ सेवायां
३ भृतौ च मेदि॰। उपचारात्
४ भिक्षिते वस्तुनि। तत्र ब्रह्मचारिभिक्षाप्रकारः ब्रह्मचर्य्यशब्दे
४५
९६ पृ॰उक्तः। तस्या दानावश्यकत्वम् प्रमाणं च आ॰ त॰मार्कपु॰ उक्तं यथा
“भोजनं हन्तकारं वा अग्रं भिक्षामथापिवा। अदत्त्वा नैव भोक्तव्यं यथाविभवमात्मनः। ग्रासप्रदा-नाद्भिक्षा स्यात् अग्रं ग्रासचतुष्टयम्। अग्राच्चतुर्गुणंप्राहुर्हन्तकारं द्विजोत्तमाः”। ग्रासं पलमात्रमिति नव्यवर्द्धमानः”। भिक्षाया दानपात्राणि उक्तानि विष्णुपु॰
“दद्याच्च भिक्षात्रितयं परिव्राट ब्रह्मचारिणाम्। स्वे-च्छया तु नरो दद्यात् विभवे सत्यवारितम्। इत्येते-ऽतिथयः प्रोक्ताः संप्राप्ता भिक्षुकाश्च ये। चतुरः पूजय-न्नेतान् नृयज्ञर्णात् प्रमुच्यते”। चकारः पूर्वोक्तातिथि-भोजनेन समुच्चयार्थः। सन्यासिभिक्षादाने तु
“यति-हस्ते जलं दद्यात् भैक्ष्यं दद्यात् पुनर्जलम्। तद्भैक्ष्यंमेरुणा तुल्यं तज्जलं सागरोपमम्”। विष्णुधर्मोत्तरे
“चाण्डालो वाथ पापो वा शत्रुर्वा पितृघातकः। देश-कालात्ययगतो मरणीयो मतो मम” विष्णुपु॰।
“व्या-घितस्यान्नहीनस्य कुटुम्बात् प्रच्युत{??} च। अध्वानं वाप्रपन्नस्य भिक्षाचर्य्यं विधीयते”।{??} भिक्षाद्यदाने भो-जननिषेधात् मनुष्ययज्ञस्य नित्यत्वा{??}{??}तथिप्राप्तेरनित्य-त्वात् यज्ञसिद्धये ब्रह्मणमात्राय भिक्षादिदानमावश्यकम्। अतएव बौधायनः
“अहरहर्ब्राह्मणेभ्योऽन्नं दद्यात्आमूलफलशाकेभ्यः अथैवं मनुष्ययज्ञसमाप्नोति”। विष्णुःभिक्षुकाभावे चाग्रं गोभ्यो दद्यात् अग्नौ वाक्षिपेत्”।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भिक्षा¦ f. (-क्षा)
1. Service.
2. Hire, wages.
3. Begging, asking.
4. The thing obtained by begging, alms.
5. A mouthful or handful of food, given as alms. E. भिक्ष् to beg or obtain by begging, अङ् and टाप् affs.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भिक्षा [bhikṣā], [भिक्ष्-अ]
Asking, begging, soliciting वृत्ते शराव- संपाते भिक्षां नित्यं यतिश्चरेत् Ms.6.56.
Anything given as alms, alms; भवति भिक्षां देहि.
Wages, hire.
Service.
A means of subsistence अपेतक्लमसंतापाः सुभिक्षाः सुप्रतिश्रयाः Rām.2.92.6. -Comp. -अटनम् wandering about begging for alms; रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः Bh.2.95. (-नः) a beggar, mendicant. -अन्नम् food obtained by begging, alms. -अयनम् (णम्) = भिक्षाटन q. v. -अर्थिन् a. begging for alms or charity. (-m.) a beggar. -अर्ह a. worthy of alms, a fit object of charity. -अशनम् the food obtained by begging; भिक्षाशनं तदपि नीरसमेकवारम् Bh.3.19. -आशिन् a.
living on alms; भिक्षाशी जनमध्य- संगरहितः Bh.3.86.
dishonest. -आहारः begged food; Bh.3.144. -उपजीविन् a. living on alms, a beggar.-करणम् asking alms, begging. -चरः, -चारः a beggar or mendicant. -चरणम्, -चर्यम्, -चर्या wandering about begging for alms. -पात्रम् a begging-bowl, an alms-dish; so भिक्षाभाण्डम्, भिक्षाभाजनम्. -भुज् a. living on alms. -माणवः a young beggar (used as a term of contempt); P.VI.2.69 com. -वासस् n. a beggar's dress. -वृत्तिः f. living by begging, a mendicant's life.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भिक्षा f. the act of begging or asking (with कृ, to beg ; with अट्, चर्, भ्रम्and या, to go about begging) S3Br. etc.
भिक्षा f. any boon obtained by begging (alms , food etc. ) AV. etc. etc. (also ifc. e.g. पुत्र-भिक्षां देहि, " grant the boon of a son " R. )
भिक्षा f. hire , wages L.
भिक्षा f. service L.
Vedic Index of Names and Subjects
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Bhikṣā, ‘begging,’ is one of the duties of the Brahmacārin according to the Śatapatha Brāhmaṇa.[१] The word has also the sense of ‘alms,’ as that which is obtained by begging, in the Atharvaveda.[२] According to the St. Petersburg Dictionary,[३] it has this sense in the Chāndogya Upaniṣad[४] also, but the correct reading there is probably Āmikṣā.