यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञोपवीतम्, क्ली, (यज्ञधृतं उपवीतम् ।) यज्ञ- सूत्रम् । पैता इति भाषा । तत्पर्य्यायः । पवि- त्रम् २ ब्रह्मसूत्रम् ३ द्विजायनी ४ । इति त्रिकाण्डशेषः ॥ तस्य निरूपणं यथा । उप- वीतमाह गोभिलः । यज्ञोपवीतं कुरुते सूत्रं वस्तं वा अपि वा कुशरज्जुमेव । यज्ञोपवीतं विशिष्टविन्यासधारणकर्म्मतया कुरुते । किं तत् सूत्रम् । सूत्रं विशेषयति छन्दोगपरिशिष्टम् । “ऊर्द्ध्वन्तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ॥” वामावर्त्तवलितं तन्तुत्रयं त्रिगुणं कृत्वा दक्षिणा- वर्त्तवलितं कार्य्यं एवं त्रिवृतं त्रिसवं उपवीतं स्यात् । एको ग्रन्थिरिति नानात्वनिषेधार्थम् । तथा बौधायनः । “कौषं सौत्रं त्रिस्त्रिवृतं यज्ञोपवीतमानाभेः ॥” कौषं कृमिकोषोद्भवं पट्टसूत्रादिमयमित्यर्थः । सौत्रं कार्पासोद्भवम् । तथा मनुः । “कार्पासमुपवीतं स्यात् विप्रस्योर्द्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥” त्रिस्त्रिवृतमित्युक्तत्वात् मनुवचनेऽपि त्रिवृन्मात्रं त्रिसवत्वेन विशेष्यम् । यत्तु पैठीनसिवचनम् । कार्पासमुपवीतं षट्तन्तु त्रिवृतं ब्राह्मणस्य । क्षौमं राजन्यस्य । आविकं वैश्यस्य । तन्नव- “स्मृतिषूक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम् । पक्षयोर्माघमासस्य द्बितीयां परिवर्ज्जयेत् ॥” श्रीपतिव्यवहारसमुच्चये । “कार्त्तिकस्याश्विनस्यापि फाल्गुनाषाढयो- रपि । कृष्णपक्षे द्बितीयायामनध्यायं विदुर्ब्बुधाः ॥” भुजबलः । “चैत्रकृष्णद्बितीयायां तिसृष्वेवाष्टकासु च । मार्गे च फाल्गुने चैव आषाढे कार्त्तिके तथा ॥ पक्षयोर्माघमासस्य द्बितीयां परिवर्ज्जयेत् । नाकालवृष्टौ कुर्व्वीत व्रतबन्धशुभक्रियाम् ॥” उपनयने उत्तरायणशुक्लपक्षयोर्विधानात् कार्त्ति- कादौ कृष्णपक्षे च द्वितीयानिषेधः पुनः- संस्कारमर्हति इत्युक्तप्रायश्चित्तरूपोपनयनपरः । वैश्योपनयनपरश्च । तथा च गर्गः । “विप्रस्य क्षत्त्रियस्यापि मौर्ञ्जा स्यादुत्तरायणे । दक्षिणे च विशां कार्य्यं नानध्याये न संक्रमे । अनध्यायेऽपि कुर्व्वीत यस्य नैमित्तिकं भवेत् ॥” अपिना दक्षिणायनकृष्णपक्षयोः समुच्चयः । नैमित्तिकं प्रायश्चित्तरूपम् । चैत्रशुक्लतृतीया आषाढशुक्लदशमी मन्वन्तरादित्वेन निषिद्धा । वैशाखशुक्लतृतीया युगादित्वेन निषिद्धा । षष्ठ्यामशुचिरुग्भार्य्यो रिक्तासु बहुदोषभाक् । सामगानां कुजवारेऽप्युपनयनम् । शाखाधि- पत्वात् । यथा च । “शाखाधिपे बलिनि केन्द्रगतेऽथवास्मिन् वारेऽस्य चोपनयनं कथितं द्बिजानाम् । मीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगावुपनयः स्मृतिकर्म्महीनः ॥” अस्य शाखाधिपस्य । कृत्यचिन्तामणौ । “जन्मोदये जन्मसु तारकासु मासेऽथवा जन्मनि जन्मभे वा । व्रतेन विप्रो न बहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम् ॥ अस्तं गते दैत्यगुरौ गुरौ वा ऋक्षेऽपि वा पापयुतेऽप्यनुक्ते । व्रतोपनीतो दिवसैः प्रणाशं प्रयाति देवैरपि रक्षितो यः ॥” उदये लग्ने । व्रतेन उपनयनेन । इति संस्कार- तत्त्वम् ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञोपवीत¦ न॰ यज्ञेन संस्कृतमुपवीतम्। यज्ञसूत्रे उप-नयनसंस्कारेण पवित्रीकृते त्रिवृति उर्द्धवृते बःमस्कन्धात्दक्षिणकुक्षितो लम्बमानतया धृते सूत्रभेदे। यज्ञसूत्र-शब्दे दृश्यम्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञोपवीत¦ n. (-तं) The sacrificial cord, originally worn by the three principal casts of Hindus: at present from the loss of the pure Kshetriya and Vais4ya casts in Bengal, confined to the Bra4h- minical order. E. यज्ञ sacrifice, उपवीत thread.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञोपवीत/ यज्ञो n. the investiture of youths of the three twice-born castes with the sacred thread or (in later times) the thread itself (worn over the left shoulder and hanging down under the right ; originally put on only during the performance of sacred ceremonies but its position occasionally changed [See. प्राचीनावीतिन्, निवीतिन्] ; in modern times assumed by other castes , as by the वैद्यs or medical caste in Bengal ; See. उपनयनand IW. 192 ) TBr. etc.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yajñopavīta denotes the ‘wearing of the Brahminical thread over the left shoulder at the sacrifice,’ and is mentioned as early as the Taittirīya Brāhmaṇa.[] Tilak,[] however, urges that it was not originally a thread that was worn, but a garment of cloth (Vāsas) or of deerskin (Ajina). This seems quite probable.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञोपवीत न.
पवित्र धागा, जनेऊ, द्रष्टव्य = उपवीत, श्रौतप.नि. 21.172।

  1. iii. 10, 9, 12. Cf. Taittirīya Saṃhitā, ii. 5, 11, 1;
    Satapatha Brāhmaṇa, ii. 4, 2, 1;
    6, 1, 12;
    and Prācīnāvīta.
  2. Orion, 145 et seq., quoting Taittirīya Āraṇyaka, ii. 1, and, the view of the Mīmāmsists, Jaiminīyanyāyamālāvistara, iii. 4, 1. This view is not prejudiced by the quite implausible conjectures as to Orion's belt with which it is combined. Cf. Eggeling, Sacred Books o the East, 12, 361, 424.
"https://sa.wiktionary.org/w/index.php?title=यज्ञोपवीत&oldid=479902" इत्यस्माद् प्रतिप्राप्तम्