संस्कृतम्संपादित करें

  • राजा, नृपः, नृपतिः, श्रेष्ठः, अधिपः, अवनिपतिः, भूपः, भूभृतः, क्षितीशः, अवनिपालः, जनाधिपः, नरेह्वरः, नराधिपः, पार्थिवः, भूपतिः, मनुजेन्द्रः, महीपतिः, महीपालः, वसुधाधिपः, अर्थपतिः, अवनिपः, अवनीशः, अवनीस्वरः, अवशः, इरेशः, उर्वीपतिः, उर्वीशः, उर्वीश्वरः, कल्पपालः, कुपतिः कुवलयेशः, क्षमापतिः, क्षौणीनाथः, क्षितिनाथः, क्षितीन्द्रः, क्षितिपः, क्षितिराजः, क्षोणिपतिः, गोपालः, गोपतिः, गोत्रेशः, गुपिलः, जगदीश्वरः, जगतीजानी, जगतीपालः, जगतीपतिः, जनदेवः, जननाथः, जनपदाधिपः, जयपालः, देवेशः, द्विपदपतिः, धनपतिः, धरणीधरः, नन्दन्तः, नरदेवः, नरधिपतिः, नरनाथः, नरनायकः, नरपतिः, नरराजः, नायकाधिपः, नृपालः, पुरुषेन्द्रः, भानुः, भरथः, प्रजापः, प्रजापालः, प्रजाशः, प्रजेश्वरः, भूमहेन्द्रः, भूमिधरः, भूमिनाथः, भूमिन्द्रः, भूमिपालः।

नामःसंपादित करें

अनुवादाःसंपादित करें

  • आङ्ग्लम्-king
  • मलयाळम्-
  • हिन्दी-राजा
  • तेलुगु-రాజు
  • कन्नड-ರಾಜ

यन्त्रोपारोपितकोशांशःसंपादित करें

कल्पद्रुमःसंपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजा, [न्] पुं, (राजते शोभते इति । राज् + “कणिन् युवृषितक्षिराजीति ।” उणा० १ । १५६ । इति कणिन् ।) प्रभुः । नृपतिः । (यथा- रघुः । ४ । ११ । “यथा प्रह्लादनात् चन्द्रः प्रतापात् तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥”) क्षत्त्रियः । (यथा, मनुः । २ । ३२ । “शर्म्मवद्ब्राह्मणस्य स्यात् राज्ञो रक्षासम- न्वितम् । वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रैष्यसंयुतम् ॥”) चन्द्रः । यक्षः । इन्द्रः । इति मेदिनी ॥ उत्तर- पदे चेत् श्रेष्ठार्थवाचकः ॥ अथ नृपतेः पर्य्यायः । राट् २ पार्थिवः ३ क्ष्माभृत् ४ नृपः ५ वाराह उवाच । शृणु तत्त्वेन मे देवि यन्मां त्वं भीरु भाषसे । तरन्ति मनुजा येन राजान्नस्योपभुञ्जकाः ॥ एकं चान्द्रायणं कृत्वा तप्तकृच्छ्रञ्च पुष्कलम् । कुर्य्यात् सान्तपनञ्चैकं शीघ्रं मुञ्चति किल्विषात् ॥ भुक्त्वा वै राज्ञोऽन्नानि इदं कर्म्म समारभेत् । न तस्यैवापराधोऽस्ति वसुधे वै वचो मम ॥ एवमेव न भोक्तव्यं राजान्नन्तु कदाचन । ममात्र प्रियकामाय यदीच्छेत् परमां गतिम् ॥” इत्यादि वाराहे राजान्नभक्षणप्रायश्चित्तं नामा- ध्यायः ॥ * ॥ अपि च । “राजान्नं तेज आदत्त शूद्रान्नं ब्रह्मवर्च्चसम् । इत्याद्यभिधाय, -- भुक्त्वा चान्यतमस्यान्नममत्या क्षपयेत्त्र्यहम् । मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रमेव च ॥” इति प्रायश्चित्ततत्त्वम् ॥ (राजनम् । यथा, ऋग्वेदे । १० । ४९ । ४ । “अहं भुवं यजमानस्य राजनि ।” “अहं यजमानस्य राजनि राजनार्थं भुवं अभवं समर्थ इति शेषः ।” इति तद्भाष्ये सायणः ॥)

Purana Encyclopediaसंपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RĀJĀ : One of the two gate-keepers of Sūryadeva. (Bhaviṣya Purāṇa, Brāhmakāṇḍa).


_______________________________
*5th word in left half of page 627 (+offset) in original book.

Vedic Rituals Hindiसंपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजा पु.
(राजन् + प्र.ए.व.) 1. राजा, आप.श्रौ.सू. 2.16.1०, आदि; 2. सोम-लता, आप.श्रौ.सू. 1०.3.7, आदि। राजासन्दी

"https://sa.wiktionary.org/w/index.php?title=राजा&oldid=503809" इत्यस्माद् प्रतिप्राप्तम्