यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा, स्त्री, (शी + “शीङो ह्रस्वश्च ।” उणा० ५ । २४ । इति खः ह्रस्वो गुणाभावश्च । स्त्रियां टाप् ।) अग्निज्वाला । तत्पर्य्यायः । ज्वालः २ कीलः ३ अर्च्चिः ४ हेतिः ५ शिखा ६ । इत्य- मरः ॥ (यथा, माघे, । १ । २० । “विदुद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥”) पिण्डितशिखाग्नेः शुभसूचकत्वं यथा, वायु- पुराणे । “अर्च्चिष्मान् पिण्डितशिखः सर्पिःकाञ्चनसन्निभः । स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात् कार्य्य- सिद्धये ॥” * ॥ अग्नेरशुभलक्षणं यथा । ब्रह्मपुराणे । “अल्पे रूक्षे सस्फुलिङ्गे वामावर्त्ते भयानके । आर्द्रकाष्ठैश्च सम्पन्ने फुत्कारवति पावके ॥ कृष्णार्च्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतीर्जुहुयात् यश्च तस्य नाशो भवेत् ध्रुवम् ॥” इति तिथितत्त्वम् ॥ * ॥ शिरोमध्यस्थकेशः । तत्पर्य्यायः । चूडा २ केश- पाशी ३ । इत्यमरः ॥ जुटिका ४ जूटिका ५ । इति शब्दरत्नावली ॥ केशी ६ शिखण्डिका ७ । इति हेमचन्द्रः ॥ * ॥ गायत्त्र्या शिखाबन्धन यथा, -- “गायत्त्र्या तु शिखां बद्ध्वा नैरृत्यां ब्रह्मरन्ध्रतः । जुटिकाञ्च ततो बद्ध्वा ततः कर्म्म समारभेत् ॥” * शूद्रस्थ शिखाबन्धे मन्त्रो यथा, -- “ब्रह्मवाणीसहस्राणि शिववाणी शतानि च । विष्णोर्नामसहस्रेण शिखाबन्धं करोम्यहम् ॥” * शिखामोचनमन्त्रो यथा, -- “गच्छन्तु सकला देवा ब्रह्मविष्णुमहेश्वराः । तिष्ठत्वत्राचला लक्ष्मीः शिखामुक्तं करोम्य- हम् ॥” * ॥ शिखाबन्धनानन्तरमाचमनं यथा, -- “निबद्धशिख आसीनो द्विज आचमनं चरेत् । कृत्वोपवीतं सव्येऽंशे वाङ्मनःकायसंयतः ॥” * ॥ मुक्तशिखस्याचमने दोषो यथा, -- “शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा । अकृत्वा पादयोः शौचं आचान्तोऽप्यशुचि- र्भवेत् ॥” इति आह्निकतत्त्वम् ॥ * ॥ शाखा । वर्हिचूडा । (यथा, महाभारते । १२ । २८२ । ५३ । “रन्ध्रागतमथाश्वानां शिखोद्भेदश्च वर्हिणाम् ॥”) लाङ्गलिकी । अग्रमात्रम् । (यथा, भागवते । ३ । १३ । ४४ । “सटाशिखोद्धूतशिवाम्बुबिन्दुभिः ॥”) चूडामात्रम् । प्रपदम् । इति मेदिनी ॥ प्रधा- णम् । शिफा । घृणिः । इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । २१ । ८५ । “स्फुरद्रत्नशिखाजालं धात्रा मोहतमोप- हम् ॥”) स्मरज्वरः । इति शब्दरत्नावली ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा स्त्री।

अग्निज्वाला

समानार्थक:ज्वाला,कीला,अर्चिस्,हेति,शिखा,मयूख

1।1।57।1।5

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

 : अग्नेः_निर्गतज्वाला

पदार्थ-विभागः : , इन्धनजम्

शिखा स्त्री।

मयूरशिखा

समानार्थक:शिखा,चूडा

2।5।31।2।1

केका वाणी मयूरस्य समौ चन्द्रकमेचकौ। शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके॥

पदार्थ-विभागः : अवयवः

शिखा स्त्री।

शिरोमध्यस्थचूडा

समानार्थक:शिखा,चूडा,केशपाशी,मौलि

2।6।97।2।1

कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः। शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा॥

पदार्थ-विभागः : आभरणम्

शिखा स्त्री।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

3।3।19।1।1

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा¦ स्त्री शी--खक् तस्य नेत्त्वम् पृषो॰।

१ अग्निज्वालायां

२ मस्तकमध्यकेशपुञ्जे च अमरः।
“मुण्डयेत् सर्वगात्राणि कक्षोपस्थशिखां बहिः” प्रा॰ त॰।

३ शाखाथां

४ बहिचूडायां

५ काङ्गलिक्याम्

६ अग्रमात्रे

७ चूडा-मात्रे

८ प्रपदे च मेदि॰।

९ प्रधाने शिक्षायां

१० घृणौहेमच॰।

११ स्मरज्वरे शब्दच॰।
“शिखी तिलकी कर्म कुर्य्यात् ज्रुत्या शिखावत एव कर्म-ण्यधिकारः तत्रापि बद्धशिखस्य कभण्यधिकारः न मुक्त-शिवस्य यथोक्तं गायत्र्या तु शिखां बद्ध्वा मैर्कृत्यांल{??}रब्धतः। जूटिकात ततो{??} ततः कर्म समा-[Page5107-b+ 38] रभेत्”।
“निबद्धशिस्य आसीनो द्विज आसमनं चरेत्। कृत्वोपवीतं सव्येऽसे वाङ्मनःकायसंयतः”। मुक्तशि-खस्याचमने दोषो यथा
“शिरः प्रावृत्य कण्ठं वा मुक्त-कच्छशिखोऽषि वा। अकृत्वा पादयोः शौचमाचान्तो-ऽप्यशुचिर्भवेत् आ॰ त॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा¦ f. (-खा)
1. Point, top in general.
2. A crest.
3. A peacock's crest.
4. A lock of hair on the crown of the head.
5. Flame.
6. A radi- cating branch.
7. Any branch.
8. A plant, commonly La4ngaliya
4.
9. Chief, principal.
10. Fever, proceeding from libidinous excite- ment or love.
11. A ray of light.
12. The end of a garment.
13. A fibrous root.
14. The forepart of the foot. E. शीङ् to sleep, Una4di aff. ख, and the vowel made short.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा [śikhā], [शी-खक् तस्य नेत्वम् पृषो˚; Uṇ.5.24]

A lock of hair left on the crown of the head; शिखां मोक्तुं बद्धामपि पुनरयं धावति करः Mu.3.3; Śi.4.5; Māl.1. 6; the hair of the head; आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः Bhāg.3.22.25.

A crest, top-knot.

Tuft, plume.

Top, summit, peak; अधिरुह्य पुष्पभरनम्नशिखैः परितः परिष्कृततलां तरुभिः Ki.6.17.

Sharp end, edge, point or end in general; ईषदीषच्चुम्बितानि भ्रमरैः सुकुमार- केसरशिखानि Ś.1.4; Bv.1.2.

The end of a garment; तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः Ś.1.14.

A flame; प्रभामहत्या शिखयेव दीपः Ku.1.28; R.17.34; Ki.16.53.

A ray of light; ज्वलन्मणिशिखाश्चैनं वासुकि- प्रमुखा निशि Ku.2.38.

A peacock's crest or comb.

A fibrous root.

A branch in general, especially one taking root.

The head or chief or anything.

The fever of love.

The point of the foot. -Comp. -कन्दम् a kind of turnip. -तरुः a lamp-stand.-दामन् n. a garland worn on the top of the head.-धर a. pointed, crested.

(रः) a peacock.

a Jaina deified saint. ˚जम् a peacock's feather; न नानुकम्प्य विशिखाः शिखाधरजवाससः Ki.15.42. -धारः a peacock.-पित्तम् inflammation in the extremities (as in fingers).-बन्धः a tuft of hair. -मणिः a crest-jewel.

मूलम् a carrot.

a root having a tuft of leaves.

a turnip.-वरः the jack-fruit tree. -वल a. pointed, crested. (-लः) a peacock; घनाघनघटालोकलीलाशालशिखावलः Śiva B.26.51. -वृक्षः a lamp-stand. -वृद्धिः f. a kind of usurious interest daily increasing. -सूत्रम् the lock of hair on the head (Mar. शेंडी) and the sacred thread (Mar. जानवें), the distinguishing marks of a Brāhmaṇa.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखा f. See. below

शिखा f. (of doubtful derivation ; prob. connected with 1. शि, " to sharpen ") a tuft or lock of hair on the crown of the head , a crest , topknot , plume S3Br. etc.

शिखा f. a peacock's crest or comb MBh. Hariv. etc.

शिखा f. a pointed flame , any flame ib.

शिखा f. a ray of light Kum. Katha1s.

शिखा f. a sharp end , point , spike , peak , summit , pinnacle , projection , end or point (in general) MaitrUp. Ka1v. VarBr2S.

शिखा f. the end or point or border of a garment S3ak.

शिखा f. the point or tip of the foot L.

शिखा f. the nipple L.

शिखा f. a branch which takes root , any branch L.

शिखा f. a fibrous root , any root L.

शिखा f. the plant Jussiaea Repens L.

शिखा f. the head or chief or best of a class L.

शिखा f. the fever or excitement of love L.

शिखा f. a partic. part of a verse or formula (the crest of the verse compared to a king) Ra1matUp.

शिखा f. = शिख-वृद्धिGaut.

शिखा f. N. of various metres Col.

शिखा f. of a river (prob. w.r. for शिखी) VP.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śikhā denotes in the Śatapatha Brāhmaṇa[] the ‘knot of hair’ worn on the top of the head. Wearing the top-knot unloosened was the sign of mourning in the case of women and men alike.[]

  1. i. 3, 3, 5.
  2. Āśvalāyana Gṛhya Sūtra, iv. 2, 9. Cf. Bloomfield, American Journal of Philology, 11, 340;
    Hymns of the Atharvaveda, 634, on Av. ix. 9, 7.
"https://sa.wiktionary.org/w/index.php?title=शिखा&oldid=504904" इत्यस्माद् प्रतिप्राप्तम्