सर्षप
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्षपः, पुं, (सरतीति । सृ गतौ + “सर्त्तेरपः षुक् च ।” उणा० ३ । १४१ । इति अपः षुगा- गमश्च ।) शस्यविशेषः । सरिषा इति भाषा ॥ तत्पर्य्यायः । तन्तुभः १ कदम्बकः ३ । इत्यमरः । २ । ९ । १७ ॥ सरिषपः ४ । इति भरतः ॥ तन्तुकः ५ । इति रमानाथः ॥ कटुस्नेहः ६ । इति जटाधरः ॥ शर्षपः ७ । इति शब्दरत्नावली ॥ राजक्षवकः ८ । इति राजनिर्घण्टः ॥ (यथा, छान्द्योग्योपनिषदि । ३ । १४ । ३ । “एष म आत्मान्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा इति ॥”) अस्य गुणाः । कफवातघ्नत्वम् । तीक्ष्णत्वम् ॥ उष्णत्वम् । रक्तपित्तकारित्वम् । कटुत्वम् । क्रमिकुष्ठनाशित्वञ्च । सिद्धार्थश्चापि तद्गुणः । इति राजवल्लभः ॥ * ॥ अपरञ्च । “आसुरी राजिका राजी रक्तिका रक्तसर्षपः । तीक्ष्णगन्धा मधुरिका क्षवकः क्षतकः क्षवः ॥ आसुरी कटुतिक्तोष्णा वातप्लीहार्त्तिशूलनुत् । दाहपित्तप्रदा हन्ति कफगुल्मकृमिव्रणान् ॥ * ॥ सर्षपो राजक्षवकः कृष्णा तीक्ष्णफला राजिका । राज्ञी सा कृष्णा सर्षपाख्या विज्ञेया राजसर्ष- पाख्या च ॥ राजसर्षपकस्तिक्तः कटूष्णो वातशूलनुत् । पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥” इति कालेयसरिषपः ॥ * ॥ “सर्षपस्त्वनघो गौरः सिद्धार्थो भूतनाशनः । कटुस्नेहो ग्रहघ्नश्च कण्डूघ्नो राजिकाफलः ॥ तीक्ष्णकश्च दुराधर्षो रक्षोघ्नः कुष्ठनाशनः । सिद्धप्रयोजनः सिद्धः साधनः सितसर्षपः ॥ सिद्धार्थः कटुकोष्णश्च वातरक्तग्रहापहः । त्वद्गोषशमनो रुच्यो विषभूतव्रणापहः ॥” इति सर्षपः ॥ * ॥ तत्तैलगुणाः । “सर्षपतैलं तिक्तं कटुकं वातकफविकारघ्नम् । पित्तास्रदोषदं कृमिकुष्ठघ्नं तिलजवच्चक्षुष्यम् ॥” तत्पत्रशाकगुणाः । “सार्षपं पत्रमत्युष्णं रक्तपित्तप्रकोपणम् । विदाहि कटुकं स्वादु शुक्रहृत् रुचिदायकम् ॥” इति राजनिर्घण्टः ॥ * ॥ अन्यच्च । “सर्षपः कटुकस्नेहस्तन्तुभश्च कदम्बकः । गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते ॥ सर्षपस्तु रसे पाके कटुर्हृद्यः सतिक्तकः । तीक्ष्णोष्णः कफवातघ्नो रक्तपित्ताग्निवर्द्धनः ॥ रक्षोहरो जयेत् कण्डूकुष्ठकोठकृमिग्रहान् । यथा रक्तस्तथा गौरः किन्तु गौरो वरो मतः ॥” अथ राइ । कृष्ण राइ । “राजी तु राजिका तीक्ष्णगन्धा क्षुज्जनिका सुरी । क्षवः क्षुतामिजनकः कृमिकः कृष्णसर्षपः ॥ राजिका कफवातघ्नी तीक्ष्णोष्णा रक्तपित्तकृत् । किञ्चिद्रूक्षाग्निदा कण्डूकुष्ठकोठकृमीन् हरेत् ॥ अतितीक्ष्णा विशेषेण तद्वत् कृष्णापि राजिका ॥” तत्तैलगुणाः । “दीपनं सार्षपं तैलं कटुपाकरसं लघु । लेखनं स्पर्शवीर्य्योष्णं तीक्ष्णं पित्तास्रदूषकम् ॥ कफमेदोऽनिलार्शोघ्नं शिरःकर्णामयापहम् । कण्डूकोठकृमिश्वित्रकुष्ठदुष्टव्रणप्रणुत् ॥ तद्वत् राजिकयोस्तैलं विशेषान्मूत्रकृच्छ्रकृत् ॥” राजिकयोः कृष्ण राइ । आरक्त राइ । तयोः ॥ * ॥ तच्छाकगुणाः । “कटुकं सार्षपं शाकं बहुमूत्रमलं गुरुः । अम्लपाकं विदाहि स्यादुष्णं रूक्षं त्रिदोषकृत् ॥ सक्षारं लवणं तीक्ष्णं स्वादुशाकेषु निन्दितम् । तीक्ष्णोष्णं सार्षपं नालं वातश्लेष्मव्रणापहम् । कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम् ॥” इति भावप्रकाशः ॥ * ॥ स्थावरविषभेदः । इति हेमचन्द्रः ॥ षड्लिख्या- परिमाणम् । यथा, -- “जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिख्या लिख्याषड्भिश्च सर्षपः ॥” इति शब्दचन्द्रिका ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्षप पुं।
सर्षपः
समानार्थक:सर्षप,तन्तुभ,कदम्बक
2।9।17।2।2
मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ। वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ॥
: श्वेतसर्षपः, कृष्णसर्षपः
पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्षप¦ पु॰ सृ--अप सुक् च। (सरिषा)
१ सखभेदे अमरः।
“सर्षपस्तु रसे पाके कटुर्हृद्यः सभक्तिकः। तीक्ष्णोष्णःकफवातनो रक्तपित्ताग्निवर्द्धनः। रक्षाहरोजयेत्कण्डूकष्ठचोठकृमिग्रहान्। यथा रक्तस्तथा गौरः किन्तुगौरोवरो मतः” तच्छाकगुणाः
“कटुकं सार्षपं शाकंनहुमूत्रमलं गुरु। अम्लपाकं विदाहि स्यादुष्णं रूक्षंत्रिदोषकृत्। सक्षारं लवणं तीक्ष्णं स्वादु शाकेषु नि-न्दितम्। तीक्ष्णाष्णं सार्षपं नालं वातश्लेष्मव्रणापहम्। कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम्” भावप्र॰।
“जालान्तरगते भामौ वच्चाणु दृश्यते रजः। तैश्चतुर्भि-र्भवेल्लिख्या लिख्या षडभिश्च सर्षपः” शब्दश्च॰ उक्ते
२ मानमेदे।
३ खञ्जनिकायां स्त्री त्रिका॰ ङीष्।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्षप¦ m. (-पः)
1. A sort of mustard, (Sinapis dichotoma.)
2. A kind of poison.
3. A small measure of weight, a mustard seed so con- sidered. f. (-पी) A small bird. E. सृ to go, अप् Una4di aff, सुक् aug.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्षपः [sarṣapḥ], [Uṇ.3.141] Mustard; खलः सर्षपमात्राणि पर- च्छिद्राणि पश्यति Subhāṣ.; Māl.1.6.
A small measure of weight.
A sort of poison.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्षप m. mustard , mustard-seed Shad2vBr. etc.
सर्षप m. a mustard-seed used as a weight , any minute weight Mn. S3a1rn3gS.
सर्षप m. a kind of poison L.
Vedic Index of Names and Subjects
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Sarṣapa, denoting ‘mustard’ or ‘mustard seed,’ occurs only a few times in later Vedic texts.[१]
- ↑ Chāndogya Upaniṣad, iii. 14, 3. Cf. Ṣaḍviṃśa Brāhmaṇa, v. 2;
Śāṅkhāyana Srauta Sūtra, iv. 15, 8, etc. It is common in the later language.