संस्कृतम् सम्पाद्यताम्

  • अव्ययम्।

नाम सम्पाद्यताम्

सदृशम् त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषुसर्वत्र यत् न अव्येति तत् अव्ययम् यस्य शब्दम् लिङ्ग, वचन विभक्त्यादि विकाराः न् बाधते तत् अव्ययम्।

अव्ययविभागाः सम्पाद्यताम्

  1. इव, अपि कथम् सहसा
  2. त्वान्तम्

उदा- गत्वा, हत्वा ,लिखित्वा

  1. ल्यबन्तम्

उदा- वीक्ष्य, निमील्य, आक्रम्य

  1. तुमुन्नन्तम्

उदा- पठितुम् हन्तुम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्ययम्, क्ली, पुं, (न + वि + इन् + अच् ।) शब्द- विशेषः । तत्परे विभक्तिर्न तिष्ठति अतएव लि- ङ्गत्रयाविकृतं । तथाच कातन्त्रे, -- “सदृशं त्रिषु लिङ्गेषु सर्व्वासु च विभक्तिषु । वचनेषु च सर्व्वेषु यन्न व्येति तदव्ययम्” ॥ (क्ली, अनाद्यन्तं विकारशून्यं परब्रह्म । यथा, -- “अनण्वस्थलमह्रस्वमदीर्घमजमव्ययम् । अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत्” ॥ इति आत्मबोधे ॥)

"https://sa.wiktionary.org/w/index.php?title=अव्ययम्&oldid=114256" इत्यस्माद् प्रतिप्राप्तम्