पात्र
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पात्रः, त्रि, (नानागुणालङ्कृतो जनः । “अपात्रः पात्रतां याति यत्र पात्रो न विद्यते ॥” इत्युणादिवृत्तिकृदुज्ज्वलदत्तः ॥ तथा च महाभारते । १३ । ६९ । २२ । “शुभे पात्रे ये गुणा गोप्रदाने तावान् दोषो ब्राह्मणस्वापहारे ॥”) पाधातोस्त्रप्रत्ययनिष्पन्नत्वादेकतकारवानयम् ॥
पात्रम्, क्ली, पाति रक्षति क्रियामाधेयं वा । पिब- न्त्यनेनेति वा । पा रक्षणे पा पाने वा + “सर्व्व- धातुभ्यः ष्ट्रन् ।” उणां ४ । १५८ । इति ष्ट्रन् ।) आधेयधारणवस्तु । तत्पर्य्यायः । अमत्रम् २ भाजनम् ३ । इत्यमरः । २ । ९ । ३३ ॥ भाण्डम् ४ कोशः ५ कोषः ६ पात्री ७ कोशी ८ कोषी ९ कोशिका १० कोषिका ११ । इति शब्दरत्ना- वली ॥ (यथा, देवीभागवते । १ । २ । ४० । “सकलगुणगणानामेकपात्रं पवित्र- मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् ॥”) योग्यम् । स्रुवादि । राजमन्त्री । तीरद्वयान्त- रम् । इति मेदिनी ॥ पातार इति भाषा ॥ पर्णम् । नाट्यानुकर्त्ता । इति हेमचन्द्रः ॥ आढकपरिमाणम् । इति वैद्यकपरिभाषा ॥ * ॥ (यथा, चरके कल्पस्थाने १२ अध्याये । “ -- चतुः प्रस्थमथाढकम् । पात्रं तदेव विज्ञेयं -- ॥”) पात्राणां विधिर्यथा, -- “हेमपात्रेण सर्व्वाणि लभते चेति तान्मुने ! । अर्घ्यं दत्त्वा तु रौप्येण आयूराज्यसुतान् लभेत् ॥ ताम्रपात्रेण सौभाग्यं धर्म्मं मृण्मयसम्भवैः । वार्क्षपात्राणि रम्याणि नैष्ठिकादिषु कारयेत् ॥ शैलानि क्रूरजातीनां रक्तानि सर्व्वकामिनाम् । धातूत्तमानि पात्राणि नृपराष्ट्रविवृद्धये ॥ त्रपुसीसकलौहानि अन्त्यजादिषु कारयेत् । विवाहयज्ञश्राद्धेषु प्रतिष्ठासु विशेषतः ॥ पात्राणाञ्चाद्वरः कार्य्यः पात्राण्येवोत्तमानि च । पात्रेषु पृथिवी दुग्धा सुधा पात्रेषु धार्य्यते ॥ देवाः सोमः क्रतुर्यज्ञः पात्राण्येवं विदुर्बधाः । बलिहोमक्रियादीनि विना पात्रैर्न सिध्यति ॥ तस्माद्यज्ञाङ्गमेवातः पात्रञ्चाग्र्यं महामुने ! ॥” तत्परिमाणादिर्यथा, -- “षट्त्रिंशदङ्गुलं पात्रञ्चोत्तमं परिकीर्त्तितम् । मध्यमं तत्त्रिभागेण भागं कन्यसमीरितम् ॥ वस्वङ्गुलप्रमाणन्तु तत् पात्रं कारयेत् क्वचित् । नानाविचित्ररूपाणि पौण्डरीकाकृतीनि च ॥ शङ्खनीलोत्पलाकारपात्राणि परिकल्पयेत् । रत्नादिरचितान् कुर्य्यात् काञ्चीमूलसुसञ्चितान् ॥ यथाशोभं यथालाभं तथा पात्राणि कारयेत् । विना पात्रेण यः कुर्य्यात् प्रतिष्ठायाज्ञिकीं क्रियाम् । विफला भवते सर्व्वा वाहनादिधनापहा ॥” इति देवीपुराणम् ॥ * ॥ भोजनपात्राणि भोजनशब्दे द्रष्टव्यानि ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पात्र नपुं।
तडमध्यवर्तिप्रवाहः
समानार्थक:पात्र
1।10।8।1।5
पारावारे परार्वाची तीरे पात्रं तदन्तरम्. द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्
पात्र नपुं।
स्रुवादियज्ञपात्राणि
समानार्थक:पात्र
2।7।24।2।3
पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्. हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्.।
पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्
पात्र नपुं।
पात्रम्
समानार्थक:आवपन,भाण्ड,पात्र,अमत्र,भाजन
2।9।33।2।3
कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान्. सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्.।
: नौस्थजलनिःसारणपात्रम्, मत्स्यस्थापनपात्रम्, यज्ञपात्रम्, कमण्डलुः, सुवर्णजलपात्रम्, भर्जनपात्रम्, मद्यनिर्माणोपयोगिपात्रम्, गलन्तिका, स्थाली, घटः, पात्रभेदः, पिष्टपाकोपयोगी_पात्रम्, पानपात्रम्, चर्मनिर्मिततैलघृतादिपात्रम्, अल्पतैलघृतादिपात्रम्, मन्थनपात्रम्, मद्यपात्रम्
पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्
पात्र नपुं।
योग्यः
समानार्थक:पात्र
3।3।179।2।1
आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः। योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पात्र¦ पु॰ न॰ अर्द्धर्च्चा॰ प्राति रक्षत्याधेयं पिबत्यनेन वा पा-ष्ट्रन्।
१ जलाद्याधारे भोजनयोग्ये
२ अमत्रे अमरः। अस्य स्त्रीत्वमपि षित्त्वात् ङीष्। विद्यादियुक्ते दान-योग्ये
३ ब्राह्मणे न॰
“ब्राह्मणं पात्रमाहुः” इति स्मृतिः।
४ यज्ञिये स्रुवादौ, तीरद्वयमध्यवर्त्तिनि
५ जला-धारस्थाने
६ राजामात्ये च मेदि॰। नाटकेऽभिनेये
७ नायकादौ च न॰ हेमच॰
८ मानभेदे वैद्यकम्। यज्ञि-यहोमादिसाधनपात्रलक्षणम् कात्या॰ श्रौ॰ भाष्ये।
“अथ पात्राणां लक्षणमुच्यते खादिरः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करो नासिकावत् पर्वार्द्धखातो भवति। स्प्यश्च खा-दिरः खडगाकृतिररत्निमात्रः। खुचो बाहुमात्र्योमूलदण्डास्त्वग्विला हंसमुखसदृशैकप्रणालिकायुक्ताः। पा-णिमात्रपुष्कराधस्तात्खातयुक्ताश्च कार्य्याः। पालाशीजुहूः, उपभृदाश्वत्थी, वैकङ्कतीध्रुवा
“एतेषां वृक्षाणामे-कस्य वा सर्वाः स्रुचः कारयेत्, बाहुमात्र्योऽरत्रिमा-त्र्यी वाग्राग्रास्त्वक्तोविला हंसमुख्यः” इत्यापस्तम्बः। अग्निहोत्रहवणी वैकङ्कती, अग्निहोत्रस्रुवो वैकङ्कतः। यैः पात्रैर्होमी न क्रियते तानि सर्वाणि वारणानिभवन्ति तानि चोलूखलमूषलकूर्चेडापात्रीपिष्टपात्रीपुरो-डाशपात्रीशम्याशृतावदानाभ्यूपवेषान्तर्द्धानकटप्राशित्रह-रणषड्यत्तब्रह्मासनादीनि। तत्रोत्रूखलादीनि वा-[Page4300-b+ 38] र्क्षाणि। कूर्चो बाहुमात्रः पीठाकारः। इडापात्रीपिष्टपात्रयौ अरत्निमात्र्यौ मध्यसंगृहीते। पुरोडाशपात्री प्रादेशमात्री समचतुरस्रा षडङ्गुलवृत्तखातवती। शम्या प्रादेशद्वादशाङ्गुला प्राशित्रहरणं वृत्तमादर्शाकारंचतुरस्रं चमसाकारं वा तथैव द्वितीयमपिधानपात्रम्षडवत्तं चोभयत्र खातवत्। आसनानि चारत्निमात्रदीर्थाणि प्रादेशमात्रविपुलानि सर्वेषु पात्रेषु मूलाभि-ज्ञानार्थं वृन्तानि कार्य्याणि अनादेशे होमसाधनभूतानिपात्राणि वैकङ्कतानि भवन्ति यथा सोमयागे ग्रहचमस-द्रीणकलशादीनि तत्रापि हविर्धानाधिषवणफलकस-म्भरणीपरिप्लवादीन्यहोमसंयुक्तानि वारणान्येव षोड-शिनः पात्रं खादिरं चतुरस्नम् अंश्वदाभ्यपात्रमौदु-म्बरं वचनात् बाजपेये सप्तदशानां सोमग्रहाणां पा-त्राणि वारणानि अहोमसंयुक्तत्वात्। सुराग्रहपात्रा-ण्यपि वारणानि शाखान्वरान्मृण्मयानि वा इत्येव-मादि सर्वमूहनीयम्। मूलं कात्या॰ श्रौ॰
१ ।
३ ।
३१ सूत्रादौदृश्यम्। कर्मप्रदीपे च
“आज्यस्थाली च कर्त्तव्यातैजसद्रव्यसम्भवा। महीमयी वा कर्त्तव्या सर्वास्वा-ज्याहुतीषु च। आज्यस्थाल्याः प्रमाणं तु यथाकामन्तुकारयेत्। सुदृढामव्रणां भद्रामाज्यस्थालीं प्रचक्षते। तिर्य्यगूर्द्धं समिन्मात्रा दृढा नातिवृहन्मुखी। मृण्-मय्यौडम्बरी वापि चरुस्थाली प्रशस्यते। स्वशाखोक्तःप्रसुखिन्नो ह्यदग्धोऽकठिनः शुमः। न चातिशिथिलःपाच्यो न चरुश्चारसस्तथा। इध्मजातीयमिघ्मार्द्धप्रमाणंमेक्षणं भवेत्। वृत्तं चाङ्गष्ठपृथ्वग्रमवदानक्रियाक्ष-मम्। एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे। दर्वी द्व्य-ङ्गुलपृथ्वग्रा तुरीयोऽनन्तमेक्षणम्। मूषलोलूखले वार्क्षेस्वायते सुदृढे तथा। इच्छाप्रमाणे भवतः शूर्पं वैणवमेव च। दक्षिणं वामतो बाह्यमात्माभिसुखमेव च। बाहुमात्राः बरिधय ऋजवः{??}त्वचोऽव्रणाः। त्रयोभवन्ति शीर्णाग्रा एकेषान्तु चतुर्दिशम्। प्रागग्रावभितःपश्चादुदग्रमथवा परम्। न्यसेत् परिधिमन्यञ्चेदुदगग्रःस पूर्वतः” देवपूजाङ्गपात्रमानं देवीपु॰ उक्तं यथा
“षट्त्रिंशदङ्गुलं पात्रञ्चोत्तम परिकीर्त्तितम्। मध्यमंतत्त्रिभागेण हीनं कन्यसमीरितम्। वस्वङ्गलप्रमाणन्तुतत्षात्रं कारयेत् क्वचित्। नानाविचित्ररूपाणि पौण्डरीकाकृतीनि च। शङ्खनीलोत्पलाकारपात्राणिपरिकल्पयेत्। रत्नादिरचितान् कुर्य्यात् काञ्चीमूलसुञ्च-[Page4301-a+ 38] ञ्चितान्। यथाशोभं यथालाभं तथा पात्राणि कार-येत्। विना पात्रेण यः कुर्य्यात् प्रतिष्ठा याज्ञिकीं क्रि-याम्। विफला भवते सर्वावाहनादिधनापहा” दान-शब्दे दानपात्रलक्षणादिकं
३५
२० पृ॰ उक्तम्। पाक-पात्रलक्षणादिकं पाकशब्दे
४२
८३ पृ॰ दृश्यम्।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पात्र¦ n. (-त्रं) A preservative from sin, a preserver, a saviour. E. पात्, and त्र who or what saves.
पात्र¦ mfn. (-त्रः-त्री-त्रं) A vessel in general, a plate, a cup, a jar, &c. n. (-त्रं)
1. A sacrificial vase or vessel, comprising various forms of cups, plates, spoons, ladles, &c. so used.
2. The channel of a river, or its course between the near and opposite bank.
3. A king's counsellor or minister.
4. Propriety, fitness.
5. A leaf.
6. The persons of a drama.
7. An order, a command.
8. The body.
9. A fit or competent person.
10. A measure of one A4rhaka or of eight Se4ers.
11. A receptacle of any kind, what holds or supports. f. (-त्री) A small or portable furnace. E. पा to pro- serve or retain, aff. त्रन्।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पात्रम् [pātram], [पाति रक्षत्याधेयं, पिबत्यनेन वा पा-ष्ट्रन् Tv.]
A drinking-vessel, cup, jar.
A vessel or pot in general; पात्रे निधायार्घ्यम् R.5.2,12; any sacrificial vessel or utensil.
A receptacle of any kind, recipient; दैन्यस्य पात्रतामेति Pt.2.11.
A reservoir.
A fit or worthy person, a person fit or worthy to receive gifts; वित्तस्य पात्रे व्ययः Bh.2.82; अदेशकाले यद् दानमपात्रेभ्यश्च दीयते Bg.17.22; Y.1.21; R.11.86.
An actor, adramatis persona; तत् प्रतिपात्रमाधीयतां यत्नः Ś.1; उच्यतां पात्रवर्गः V.1. dramatis personae.
A king's minister.
The channel or bed of a river. सुरस्रवन्त्या इव पात्रमागतम् N.16.11;15.86.
Fitness, propriety.
An order, command.
A leaf.
त्रः A kind of measure (आढक).
A preservative from sin.
त्री A vessel, plate, dish; भुञ्जन्ते रुक्मपात्रीभिर्यत्राहं परिचारिका Mb.3.3. 13;233.49.
A small furnace.
N. of Durgā.-Comp. -आसादनम् the placing of sacrificial utensils.-उपकरणम् ornaments of a secondary kind (as bells, chowries &c.).
पालः a large paddle used as a rudder.
the rod of a balance (तुलाघट). -भृत् m. a servant; -मेलनम् (In dram.) the bringing together of the characters of the play. -शेषः scraps of food.
संस्कारः the cleaning or purification of a vessel.
the current of a river. -संचारः the handing round of vessels at a meal; Mb.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पात्र n. ( ifc. f( आ). )a drinking-vessel , goblet , bowl , cup , dish , pot , plate , utensil etc. , any vessel or receptacle RV. etc.
पात्र n. a meal (as placed on a dish) TS. AitBr.
पात्र n. the channel of a river R. Ka1d.
पात्र n. (met.) a capable or competent person , an adept in , master of( gen. ) , any one worthy of or fit for or abounding in( gen. loc. , inf. or comp. ) MBh. Ka1v. etc.
पात्र n. an actor or an actor's part or character in a play Ka1lid. Sa1h.
पात्र n. a leaf L. (See. पत्त्र)
पात्र n. propriety , fitness W.
पात्र n. an order , command ib.
पात्र m. or n. a measure of capacity (= 1 आढक) AV. S3Br. S3rS.
पात्र m. a king's counsellor or minister Ra1jat. Pan5car.
पात्र n. (?) RV. i , 121 , 1.
पात्र 2See. 1. and3. पा.
Vedic Index of Names and Subjects
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Pātra, primarily a ‘drinking vessel’ (from pā, ‘to drink’) denotes a vessel generally both in the Rigveda[१] and later.[२] It was made either of wood[३] or clay.[४] In some passages[५] the word is, according to Roth, used to indicate a measure. The feminine Pātrī occasionally occurs[६] in the sense of ‘vessel.’
Vedic Rituals Hindi
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पात्र न.
बर्तन, भाण्ड, ऋ.वे. 1.175.1।
- ↑ i. 82, 4;
110, 5;
162, 13 (to hold the broth from the flesh of the horse);
175, 1;
ii. 37, 4;
vi. 27, 6, etc. - ↑ Av. iv. 17, 4;
vi. 142, 1;
ix. 6, 17;
xii. 3, 25. 36;
Taittirīya Saṃhitā, v. 1, 6, 2;
vi. 3, 4, 1;
Vājasaneyi Saṃhitā, xvi. 62;
xix. 86. etc. - ↑ Rv. i. 175, 3.
- ↑ Av. iv. 17, 4.
- ↑ Av. x. 10, 9;
xii. 3, 30;
Śatapatha Brāhmaṇa, xiii. 4, 1, 5;
Śāṅkhāyana Śrauta Śūtra, xvi. 1, 7, etc. - ↑ Aitareya Brāhmaṇa, viii. 17;
Śatapatha Brāhmaṇa, i. 1, 2, 8;
ii. 5, 3, 6;
6, 2, 7;
Śāṅkhāyana Śrauta Sūtra, v. 8, 2.
Cf. Zimmer, Altindisches Leben, 271.