यम
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यम, औ उ विरतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-अनिट् । क्त्वावेट् ।) औ, यन्ता । उ, यमित्वा यन्त्वा । विरतिर्निवृत्तिः । यच्छति पापात् साधुः । इति दुर्गादासः ॥
यम, क मि परिवेषणे । तदभावे । इति कवि- कल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) क मि, यमयति यामयति । परिवेषणं अन्नादेर- र्पणम् । वेष्टनमित्येके । विषत्यव्याप्तावित्यस्य रूपमिति रमानाथः । केचित्तु परिवेषण एवायं मानुबन्धः । यमयत्यन्नं द्बिजाय गृही । अन्यत्र नियामयति संयामयति इत्याहुः । अन्ये तु अपरिवेषण एवायं मानुबन्धः । ‘नियमयति विमार्गप्रस्थितानान्तु दण्डम् ।’ इति शाकुन्तले । परिवेषणे तु यामयत्यन्नं द्विजाय गृही इत्याहुः । तेन उभयस्य प्रामाणिकत्वादुभयत्र विकल्प- ज्ञापनार्थञ्चानुबन्धः कृतः । इति दुर्गादासः ॥
यमः, पुं, (यमयति नियमयति जीवानां फलाफल- मिति । यम् + अच् ।) दक्षिणदिक्पालः । तत्पर्य्यायः । धर्म्मराजः २ पितृपतिः ३ सम- वर्त्ती ४ परेतराट् ५ कृतान्तः ६ यमुनाभ्राता ७ शमनः ८ यमराट् ९ कालः १० दण्डधरः ११ श्राद्धदेवः १२ वैवस्वतः १३ अन्तकः १४ । इत्यमरः । १ । १ । ६१ ॥ धर्म्मः १५ धर्म्मराट् १६ जीवितेशः १७ महिषध्वजः १८ औडम्बरः १९ दण्डधारः २० कीनाशः २१ दध्नः २२ महिष- वाहनः २३ शीर्णपादः २४ भीमशासनः २५ कङ्कः २६ हरिः २७ । इति शब्दरत्नावली ॥ कर्म्मकरः २८ । इति जटाधरः ॥ * ॥ चतुर्द्दश- यमतर्पणं यथा, -- “यां काञ्चित् सरितं प्राप्य कृष्णपक्षे चतुर्द्दशीम् । यमुनायां विशेषेण नियतस्तर्पयेद्यमान् ॥ यमाय धर्म्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व्वभूतक्षयाय च ॥ औडम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥ एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन् दद्यात् जला- ञ्जलीन् । संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥” इति तिथ्यादितत्त्वधृतभविष्यपुराणवचनम् ॥ तस्योत्पत्तिर्यथा, -- “संज्ञा च रविणा दृष्टा निमीलयति लोचने । यतस्ततः सरोषोऽर्कः संज्ञां निष्ठुरमब्रवीत् ॥ मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् । तस्माज्जनिष्यसे मूढे ! प्रजासंयमनं यमम् ॥” मार्कण्डेय उवाच । “ततस्तस्यास्तु संजज्ञे भर्त्तृशापेन तेन वै । यमश्च यसुना चेयं प्रख्याता सुमहानदी ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे ७७ अः ॥ पुण्यात्मनां सम्बन्धे तस्य रूपं यथा, -- “तानागतांस्ततो दृष्ट्वा नरान् धर्म्मपरायणान् । भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत् ॥ चतुर्ब्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः । शङ्खचक्रगदापद्मधारी गरुडवाहनः ॥ स्वर्णयज्ञोपवीती च स्मेरचारुतराननः । किरीटी कुण्डली चैव वनमालाविभूषितः ॥” पापिनां सम्बन्धे तस्य रूपं यथा, -- “त्रिंशद्योजनदीर्घाङ्गो वापीसदृशलोचनः । धूम्रवर्णो महातेजाः प्रलयाम्भोधरध्वनिः ॥ तृणाधिराजलोमां च ज्वलदग्निशिखाग्रवत् । नासारन्ध्रस्फुरच्छ्वासस्वनैर्ज्जितमहानिलः ॥ सुदीर्घदशनश्रेणिः सूर्पोपमनखावलिः । प्रचण्डमहिषारूढः संदष्टदशनच्छदः ॥ दण्डहस्तश्चर्म्मवासा भ्रूकुटीकुटिलाननः ॥” इति पाद्मे क्रियायागसारे २२ अध्यायः ॥ इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् । यमात्तस्य भयं नास्ति सर्व्वपापात् प्रमुच्यते ॥ महापापी यदि पठेत् नित्यं भक्त्या च नारद ! । यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २६ अध्यायः ॥ * ॥ पारिभाषिकयमदन्ता यथा, -- “कार्त्तिकस्य दिनान्यष्टावष्टाग्रहायणस्य च । यमस्य दशना एते लघ्वाहारी स जीवति ॥” इति वैद्यकम् ॥ * ॥ (“पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः । मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् ॥ यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः । येषां वापि रतिर्नास्ति यातारस्ते यमालयम् ॥” इति सुश्रुते सूत्रस्थाने ३१ अध्यायः ॥ अस्य शापवृत्तान्तं शापान्तवृत्तान्तञ्च यम- राजशब्दे द्रष्टव्यम् ॥ * ॥) शरीरसाधना- पेक्षनित्यकर्म्म । इत्यमरः । २ । ७ । ४९ ॥ “उपायान्तरनिरपेक्षं शरीरमात्रसाध्यं नित्यं यावज्जीवमवश्यकार्य्यं यत्कर्म्म सत्यास्तेयादि तद्- यमः । यमेरल् । ‘अहिंसा सत्यवचनं ब्रह्मचर्य्यमकल्कता । अस्तेयमिति पञ्चैते यमाश्चैव व्रतानि च ॥’ इति मनुः ।” इति तट्टीकायां भरतः ॥ स च अष्टाङ्गयोगान्तर्गताङ्गविशेषः । स तु दशविधो यथा, -- “ब्रह्मचर्य्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता । अहिंसास्तेयमाधुर्य्यं दमश्चैते यमाः स्मृताः ॥” इति गारुडे १०९ अध्यायः ॥ * ॥ स च पञ्चविधो यथा, -- “अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यापरिग्रहौ । यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ॥” इति तत्रैव २३० अध्यायः ॥ “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः ।” इति पातञ्जले साधनपादे । ३० ॥ यच्छति निय- च्छति इन्द्रियग्राममनेनेति । यम + घञ् ।) संयमः ॥ यथा, अमरः । ३ । २ । १८ । “वियामो वियमो यामो यमः संयामसंयमौ ॥” काकः । शनिः । इति मेदिनी । मे, २३ ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ३० । “अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥” “अन्तर्यच्छतीति यमः ।” इति तद्भाष्ये शङ्करा- चार्य्यः ॥)
यमः, त्रि, (यच्छति एकत्र गर्भाशये निरतो भवतीति । यम् + अच् ।) यमजः । इति मेदिनी । मे, २३ ॥ तयोर्ज्येष्ठत्वनिरूपणं यथा, “बहिर्वर्णेषु चारित्राद्यमयोः पूर्व्वजन्मतः । यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् । सन्तानः पितरश्चैव तस्मिन् ज्यैष्ठं प्रतिष्ठितम् ॥ जन्मप्राथम्यात् ज्यैष्ठं यमयोः न तु निषेक- प्राथम्यात् जन्मप्राथम्यसन्देहे मुखदर्शनप्राथ- म्यत् ।” इति उद्वाहतत्त्वम् ॥ (यथा, -- “बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ । यमावित्यभिधीयेते धर्म्मेतरपुरःसरौ ॥” इति सुश्रुते शारीरस्थाने द्बितीयेऽध्याये ॥ अनयोरेकस्य वृद्धिरपरस्य क्षीणताकथमित्यत आह । “कर्म्मात्मकत्वाद्विषमांशभेदात् शुक्रासृजं वृद्धिमुपैति कुक्षौ । एकोऽधिको न्यूनतरो द्वितीय एवं यमेऽप्यभ्यधिको विशेषः ॥” इति चरके शारीरस्थाने द्बितीयेऽध्याये ॥)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यम पुं।
यमः
समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश
1।1।58।2।5
धर्मराजः पितृपतिः समवर्ती परेतराट्. कृतान्तो यमुनाभ्राता शमनो यमराड्यमः॥
पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता
यम पुं।
नैत्यिककर्मः
समानार्थक:यम
2।7।48।2।1
दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक्. शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः॥
पदार्थ-विभागः : , क्रिया
यम पुं।
संयमः
समानार्थक:वियाम,वियम,याम,यम,संयाम,संयम
3।2।18।2।4
प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः। वियामो वियमो यामो यमः संयामसंयमौ॥
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यम¦ उपरतौ भ्वा॰ पर॰ सक॰ अनिट् यच्छति अयंसीत्उदित् क्त्वा वेट्। यमित्वा यत्वा यत्तः। आ + दीर्घीकरणे आत्म॰। उप + विवाहे आत्म॰।
यम¦ परिवेषणे चु॰ उ॰ सक॰ सेट् वा घटा॰। यमयतियामवति अयीयमत् त अययामत् त।
यम¦ पु यम--घञ्।
“अहिंसा सत्यवचनं ब्रह्मचर्य्यमकल्कता।{??}यमिति पञ्चैते यमाख्यानि व्रतानि च” इत्युक्ते
१ {??}सादौ तच्च देहमात्रसाध्यम् आवश्यकमवश्यकार्य्यंनित्यं कार्य्यमिति अमरः इन्द्रियादीनां
२ संयमने च। यमयति अच्। प्राणिनां शुभाशुभकर्मानुसारेण दण्ड-विधायक ईश्वरनियुक्ते दक्षिणस्थे
३ देवभेदे पु॰ अमरः। तत्स्वामिकत्वात्
४ काके च। भ्रातृत्वेन यमसम्बन्धिनि
५ शनौ
६ एकगर्भजायमाने यमजे त्रि॰ मेदि॰।
७ द्वित्व-संख्यायां
८ यमदेवताके भरणोनक्षत्रे ज्यो॰। दिक्पालयमभेदाः चतुर्दश भविष्यपु॰ उक्ता यथा
“यमाय धर्मराजाय मृत्यवे चान्तकाय च। वैवखतायकालाय सर्वभूतक्षयाय च। औडम्बराय दघ्नाय नीलायपरमेष्ठिने। वृकोदराय चित्राय चित्रगुप्ताय वै नमः”। थोगाङ्गयमाक्ष पात॰ सू॰ भा॰ उक्ता यथा[Page4774-a+ 38]
“यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो-ऽष्टावङ्गानि” मू॰।
“यथाक्रमं एतेषाम् अनुष्ठानं स्वरूपञ्चवक्ष्यामः भा॰। तत्र
“अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा-यमाः” मू॰।
“तत्राहिंसा सर्वथो सर्वदा सर्वभूतानामनतिद्रो-हः। उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतया तत्-प्रतिपदानाय प्रतिपाद्यन्ते तदवदातकरणायैवोपादीयन्ते। तथाचोक्तं
“स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनिसमादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्योनिवर्त्तमानस्तामेवावदातरूपामहिंसां करोति”। सत्यं यथार्थेवाङ्मनुसे यथादृष्टं यथानुमितं यथाश्रुतं तथा वाङ्मन-श्चेति स्वबोधसंक्रान्तये वागुक्ता सा यदि न वञ्चिताभ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेत् इत्येषा सर्वमूतो{??}कारार्थं प्रवृत्ता न भूतोपघाताय यदि चैवमप्यमिधीयमाना मूतोपघातपरैव स्यान्न सत्यं भवेत् पापमेव भवेत्तेन पुण्याभासेन पुण्यप्रतिरूपकेन कष्टं तमः प्राप्नुयात्तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्। स्तेयमशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं तत्प्रतिषेधः पुन-रस्पृहारूपमस्तेयमिति। ब्रह्मचर्य्यं गुप्तेन्द्रियस्योपस्थस्यसंयमः। विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः” भा॰। गारुडे तु तस्य दशविधत्वमुक्तं यथा
“ब्रह्मचर्य्ये दया-क्षान्तिर्ध्यानं सत्यमकल्कता। अहिंसाऽस्तेय माधुर्य्यंदमश्चैते यमाः स्मृताः”
१०
५ अ॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यम¦ mfn. (-मः-मा-मं) Twin, fellow, one of the pair or brace. m. (-मः)
1. Restraining, controlling.
2. Forbearance, refraining.
3. Cessa- tion, stop, conclusion, finish.
4. Religious restraint or obli- gation, considered the first of the eight steps of Yoga.
5. Penance, purification, the performance of those acts which re- move impurity of any kind.
6. Any of the five acts or virtues, which constitute pure characters, as refraining from violence or injury, patience, sincerity, obedience to a spiritual teacher, and the observance of all purificatory ceremonies.
7. A festival.
8. A crow.
9. A name of the planet SATURN.
10. YAMA, the deity of Naraka or hell, where his capital is placed, in which he sits in judgment on the dead, and distributes rewards and punishments, sending the good to Swarga, and the wicked to the division of Naraka or Tartarus appropriated to their crimes: he corresponds with the Grecian god PLUTO, and the judge of hell MINOS, and in Hindu mythology often identified with Death and Time: he is the son of SU4RYA, or the sun, and brother of the personified YA- MUNA4 or Jamuna4 river. n. (-म) A brace, a couple, a pair. f. (-मी) The Yamuna4 river. E. यम् to restrain, &c., aff. अच्, घञ् or अप् |
यम(व)निका¦ f. (-का) A screen of cloth surrounding a tent. E. यम् to stop or check, aff. ल्युट्, कन् added, fem. form; also जवनिका |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यम [yama], a. [यम्-घञ्]
Twin, twinborn.
Coupled.
मः Restraining, controlling, curbing; यमो राजा धार्मिकाणां मान्धातः परमेश्वरः Mb.12.91.42.
Control, restraint.
Self control.
Any great moral or religious duty or observance (opp. नियम); तप्तं यमेन नियमेन तपो$मुनैव N.13.16; यमनियमकृशीकृतस्थिराङ्गः Ki.1. 1. (यम and नियम are thus distinguished: शरीरसाधनापेक्षं नित्यं यत् कर्म तद् यमः । नियमस्तु स यत् कर्म नित्यमागन्तुसाधनम् ॥ Ak.2.49; See Malli. on Śi.13.23 and Ki.1.1 also. The yamas are usually said to be ten, but, their names are given differently by different writers; e. g. ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसा$स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ॥ Y.3.312; or आनृशंस्यं दया सत्यमहिंसा क्षान्तिरार्जवम् । प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ॥ sometimes only fiveyamas are mentioned: अहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । अस्तेयमिति पञ्चैते यमाख्यानि व्रतानि च ॥).
The first of the eight aṅgas. or means of attaining Yoga; the eightaṅgas are: यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो$- ष्टाङ्गानि; Śāndilya Up.1.1.2.
The god of death, death personified, regarded as a son of the sun; he presides over the पितृs and rules the spirits of the dead; दत्ताभये त्वयि यमादपि दण्डधारे U.2.11.
A twin; धर्मात्मजं प्रति यमौ च (i. e. नकुलसहदेवौ) कथैव नास्ति Ve.2.25; यमयो- श्चैव गर्भेषु जन्मतो ज्येष्ठता मता Ms.9.126.
One of a pair or couple, a fellow.
N. of Saturn.
A crow.
A symbolical expression for the number 'two'.
Ved. A rein, bridle; पृष्ठे सदो नसोर्यमः Ṛv.5. 61.2.
Ved. A driver, charioteer; अग्निं रथानां यमम् Ṛv.8.13.1.
N. of a deity who chastises beings for their misdeeds; यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः Mb.12.2.3.
मम् A pair or couple.
(In gram.) The twin letter of any consonant.
Pitch of the voice. -मी N. of the river Yamunā.-मौ (m. du.)
Twins; कथं त्वमेतौ धृतिसंयमौ यमौ Ki.1. 36.
N. of the Aśvins; यमौ यमोपमौ चैव ददौ दानान्यनेकशः Mb.14.61.38.
Nakula and Sahadeva; भीमार्जुनयमा- श्चापि तद्युक्तं प्रतिपेदिरे Mb.3.6.14. ˚मैथुनौ twins of different sex. -Comp. -अनुगः, -अनुचरः a servant or attendant of Yama. -अनुजा N. of the river Yamunā मघोनि वर्षत्य- सकृद् यमानुजा Bhāg.1.3.51. -अन्तकः an epithet of
Śiva.
of Yama. -अरिः, -घ्नः, -रिपुः &c. N. of Viṣṇu.-ईशम् the Nakṣatra Bharaṇī. -किङ्करः a messenger of death.
कीटः a wood-louse.
an earth-worm.-कीलः N. of Viṣṇu. -कोटिः, -टी N. of a mythical town to the east of Laṅkā लङ्का कुमध्ये यमकोटिरस्याः Siddhāntaśiromaṇi. -घण्टः N. of an astrological Yoga (this is inauspicious). -जः a. twin-born, twin; यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते Mb.3.14.19; भ्रातरौ आवां यमजौ U.6;4; also यमजात-जातक. -दंष्ट्रा 'Yama's tooth', the jaws of death. (-ष्ट्राः pl.) the last eight days of the month Aśvina and the whole of Kārtika (regarded as a period of general sickness).-दिश् f. the south.
दूतः, दूतकः a messenger of death.
a crow. -दूतिका tamarind. -देवता the asterism Bharaṇī. -द्रुमः Bombax Heptaphyllum (Mar. सांवरी). -द्वितीया the second day in the bright half of Kārtika when sisters entertain their brothers (Mar. भाऊबीज); cf. भ्रातृद्वितीया. -धानी the abode of Yama; नरः संसारान्ते विशति यमधानीजवनिकाम् Bh.3.112. -धारः a kind of double-edged weapon. -पटः, -पट्टिका a piece of cloth on which Yama with his attendants and the punishments of hell are represented (Mar. यमपुरी); याव- देतद् गृहं प्रविश्य यमपटं दर्शयन्न् गीतानि गायामि Mu.1.18/19.-पदम् a repeated word. -पाशः the noose of Yama.-पुरुषः Yama's servant or minister. -प्रियः the fig tree.-भगिनी N. of the river Yamunā. -यातना the tortures inflicted by Yama upon sinners after death, (the word is sometimes used to denote horrible tortures', 'extreme pain'). -रथः a buffalo. -राज् m. Yama, the god of death. -वाहनः = यमरथः q. v.
व्रतम् an observance or vow made to Yama.
an impartial punishment (as given by Yama); यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद् हि यमव्रतम् ॥ Ms.9. 37. -शासनः the lord Śiva; यशो यदीयं यमशासनालय-क्षमाधर- स्पर्धनमाचचार सः Rām. Ch.2.12; (यमशासनालयः = हिमा- लयः). -श्रायम् the abode of Yama; यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् Bk.7.36. -सभा the tribunal of Yama.-सूर्यम् a building with two halls, one facing the west and the other facing the north. -स्वसृ f.
N. of the river Yamunā; क्षणमिव पुलिने यमस्वसुस्ताम् Bhāg.3.4.27.
N. of Durgā.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यम m. a rein , curb , bridle RV. v , 61 , 2
यम m. a driver , charioteer ib. viii , 103 , 10
यम m. the act of checking or curbing , suppression , restraint (with वाचाम्, restraint of words , silence) BhP.
यम m. self-control forbearance , any great moral rule or duty (as opp. to नियम, a minor observance ; in Ya1jn5. iii , 313 ten यमs are mentioned , sometimes only five) Mn. MBh. etc.
यम m. (in योग) self-restraint (as the first of the eight अङ्गs or means of attaining mental concentration) IW. 93
यम m. any rule or observance Pa1rGr2.
यम mf( आor ई)n. twin-born , twin , forming a pair RV. etc.
यम m. a twin , one of a pair or couple , a fellow( du. " the twins " N. of the अश्विन्s and of their twin children by माद्री, called नकुलand सह-देव; यमौ मिथुनौ, twins of different sex) ib.
यम m. a symbolical N. for the number " two " Hcat.
यम m. N. of the god who presides over the पितृs(See. )and rules the spirits of the dead RV. etc. IW. 18 ; 197 , 198 etc. RTL. 10 ; 16 ; 289 etc. (he is regarded as the first of men and born from विवस्वत्, " the Sun " , and his wife सरण्यू; while his brother , the seventh मनु, another form of the first man , is the son of विवस्वत्and संज्ञा, the image of सरण्यू; his twin-sister is यमी, with whom he resists sexual alliance , but by whom he is mourned after his death , so that the gods , to make her forget her sorrow , create night ; in the वेदhe is called a king or संगमनो जनानाम्, " the gatherer of men " , and rules over the departed fathers in heaven , the road to which is guarded by two broad-nosed , four-eyed , spotted dogs , the children of शरमाSee. ; in Post-vedic mythology he is the appointed Judge and " Restrainer " or " Punisher " of the dead , in which capacity he is also called धर्मराजor धर्मand corresponds to the Greek Pluto and to Minos ; his abode is in some region of the lower world called यम-पुर; thither a soul when it leaves the body , is said to repair , and there , after the recorder , चित्र-गुप्त, has read an account of its actions kept in a book called अग्र-संधाना, it receives a just sentence ; in MBh. यमis described as dressed in blood-red garments , with a glittering form , a crown on his head , glowing eyes and like वरुण, holding a noose , with which he binds the spirit after drawing it from the body , in size about the measure of a man's thumb ; he is otherwise represented as grim in aspect , green in colour , clothed in red , riding on a buffalo , and holding a club in one hind and noose in the other ; in the later mythology he is always represented as a terrible deity inflicting tortures , called यातना, on departed spirits Page846,2 ; he is also one of the 8 guardians of the world as regent of the South quarter ; he is the regent of the नक्षत्रअप-भरणीor भरणी, the supposed author of RV. x , 10 ; 14 , of a hymn to विष्णुand of a law-book ; यमस्या-र्कःN. of a सामन्A1rshBr. )
यम m. N. of the planet Saturn (regarded as the son of विवस्वत्and छाया) Hariv. BhP.
यम m. of one of स्कन्द's attendants (mentioned together with अति-यम) MBh.
यम m. a crow L. (See. -दूतक)
यम m. a bad horse (whose limbs are either too small or too large) L.
यम n. a pair , brace , couple L.
यम n. (in gram.) a twin-letter (the consonant interposed and generally understood , but not written in practice , between a nasal immediately preceded by one of the four other consonants in each class) Pra1t. Pat. on Pa1n2. 1-1 , 8
यम n. pitch of the voice , tone of utterance , key Pra1t.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--(Vaivasvata) the Lord of पितृस्; punishes men after death according to their actions, sinful or other- wise. फलकम्:F1: भा. V. २६. 6; M. 8. 5; वा. ६२. १८६; ६५. ५२; ७०. 8; Vi. I. २२. 5.फलकम्:/F A son of Vivasvat (सूर्य) and सम्ज्ञा; explains the nature of धर्म and the glory of Hari to his messen- gers (यमदूतस्, s.v.). Appeared in the form of a child before the queen and the subjects of सुयज्ञ weeping over his dead body and showed the truth that no amount of wail- ing would bring the dead back to life; फलकम्:F2: भा. VI. 6. ४०; VIII. १३. 9; VI. 3. १२-34; VII. 2. ३६-58;फलकम्:/F welcomed राम and कृष्ण and fulfilled their desire by restoring सान्दिपानि's son; presented पृठु with a rod of justice. Punished नृग to be a lizard for having given a cow of a ब्रह्मण as a gift to another, and as the owner refused to accept the apologies and compensation offered by नृग; फलकम्:F3: Ib. X. ४५. ४२-6; IV. १५. १५; III. ३०. २३; X. ६४. १६-24.फलकम्:/F fought with कालनाभ in the देवासुर war; rode on buffalo to help Indra against कृष्ण taking away पारिजात, but discomfited, ran away in fear; फलकम्:F4: Ib. VIII. १०. २९; X. [६५ (v) ४१]; [६६ (v) ३३-5]; Vi. V. ३०. ६०; VI. 5. ४४.फलकम्:/F his authority set aside in the case of अजामिल. Dhruva is said to have set his foot on his head; was a शुद्र for a hundred years owing to a curse; फलकम्:F5: भा. VI. 3. 2; IV. १२. ३०; I. १३. १५.फलकम्:/F His penance at गोकर्ण and शिव made him लोकपाल; his city being Samyamana; represents the planet शनैश्चर; served as calf for पितृस् milk- ing the earth; धर्मराज; Lord of three deva गणस्-- Amarttas, अप्रकाशस्, and ज्योतिष्मन्तस्; फलकम्:F6: Br. II. २१. ३१; २४. ४९; २९. ६५; ३६. २०८; III. 1. ५२; 7. २५३ and ३३०; १३. ७२; M. ९३. १४; २६६. २१ and ६३; वा. ५०. ८८; ६९. २१५; Vi. II. 8. 9; III. 7. १९, ३५.फलकम्:/F narrated to शश- bindu varieties of श्राद्ध; protested against the ill-treat- ment by his stepmother छाया and was cursed by her to lose his legs. [Cursed his legs to be sores and worms. His father gave him a cock to eat them. म्।प्।]. The father assured their restoration after a temporary loss; overlord of पितृस्. फलकम्:F7: Br. III. १८. 1; २४. 4; ५९. २३, ५२-80; M. ११. 4-२०.फलकम्:/F in charge of hells; फलकम्:F8: Br. IV. 2. १५१; 7. ५४.फलकम्:/F buffalo, his riding animal; फलकम्:F9: M. ६७. ११.फलकम्:/F his ac- tive part in Tripuram, defeated by कालनेमि; फलकम्:F१०: Ib. १३३. ६३; १३७. ३२; १३८. २५; १७७. ५०.फलकम्:/F burnt with काम and attained godhood again by pleasing शन्कर by तपस्; फलकम्:F११: Ib. १९१. ११२-4.फलकम्:/F dialogue of, with his servant about those who could not be taken to his region. फलकम्:F१२: Vi. II. 6. 6; III. 7. 5, १३-20.फलकम्:/F acted as calf when Antaka milked the cow-earth; other names of; world of; फलकम्:F१३: M. १०. १९; ३१. १२; ९३. १४; १०२. २२-3; १२४. २२; १४६. ७७.फलकम्:/F in the war against तारक: war with Grasana and the latter's suc- cess. फलकम्:F१४: Ib. १४८. ७९-81; १५०. 1-४९; Vi. III. 2. 2.फलकम्:/F सम्वाद with सावित्री; the latter's praise of; फलकम्:F१५: M. २११. १४-28 and ch. २१३ (whole).फलकम्:/F काल and मृत्यु are assistants; god to be worshipped in house building. फलकम्:F१६: Ib. २५०. ४६; २५३. २५.फलकम्:/F Image of, with Citragupta by the side; gift of [page३-013+ २८] buffalo pleasing to; फलकम्:F१७: Ib. २६१. १२; २६८. १३.फलकम्:/F (धर्मराज): a golden image of him standing on a copper plate to be given to guru in सप्तमी- svapana; फलकम्:F१८: Ib. ६८. २०.फलकम्:/F weapon of दण्ड, used by, in the battle of Tri- puram; फलकम्:F१९: Ib. १३५. ७७.फलकम्:/F seen by सावित्री while taking the life of her hus- band; blessed her with three requests of hers and finally the life of her husband; फलकम्:F२०: Ib. २१०. 5, chh. २११-14.फलकम्:/F meting out justice impartially; फलकम्:F२१: Ib. २१३. 3.फलकम्:/F father of two daughters उपदानवी and हिमा. फलकम्:F२२: वा. ६८. २३; ६९. ६१; ७५. ५६; ८२. 1; १०१. १५०, २८६; १०६, ४६; १०८. 4 and ३१; ११० 10 and ३८.फलकम्:/F
(II)--a याज्ञिय god. Br. II. ३६. ३३.
(III)--a मुहूर्त of the night. Br. III. 3. ४२.
(IV)--a Sukha god. Br. IV. 1. १८.
(V)--a son of हविर्धान. M. 4. ४५.
(VI)--an आदित्य. M. 6. 4.
(VII)--the father of इलिना, (s.v.). M. ४९. 9. [page३-014+ २६]
(VIII)--a Vasu; a son of Dharma and सुदेवी. M. १७१. ४७.
(IX)--the agent of a class of devas. वा. १०. ७२.
(X)--the son of सुरेणु and Vivasvan; ill-treated by stepmother छाया, was about to kick her when she cursed him that he would lose his leg; he became Dharma- राज, lord of पितृस् and Protector of the world. वा. ८४. २२, ५६-61.
(XI)--a mukhya गण. वा. १००. १८.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
YAMA : Kāla. (For more details see under Kāla).
_______________________________
*1st word in right half of page 893 (+offset) in original book.
Vedic Index of Names and Subjects
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Yama denotes ‘twins,’ the birth of which is frequently alluded to in Vedic literature.[१] Twins of different sex seem to be indicated by the expression yamau mithunau.[२] There are traces of the belief--widely spread among negro and other races--that twins are uncanny and of evil omen,[३] but there are also vestiges of the opposite opinion, that twins are lucky.[४]
Vedic Rituals Hindi
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यम न.
पितृमेध का अनुष्ठान करते समय जल में प्रवेश से पूर्व प्र केतुना------’ (ऋ.वे. 1०.8.1) से प्रारम्भ होने वाले सूक्त का नाम, श्रौ.को. (अं.) 1.1116; ‘षड्ज’ आदि स्वर का नाम, श्रौ.प.नि. 29.239।
- ↑ Rv. i. 66, 4;
164, 15;
ii. 39, 2;
iii. 39, 3;
v. 57, 4;
vi. 59, 2;
x. 13, 2;
117, 9;
Pañcaviṃśa Brāhmaṇa, xvi. 4, 10, etc. - ↑ Kāṭhaka Saṃhitā, xiii. 4;
Nirukta, xii. 10. - ↑ Av. iii. 28;
Aitareya Brāhmaṇa, vii. 9, 8;
Kātyāyana Śrauta Sūtra, xxv. 4, 35;
Śāṅkhāyana Śrauta Sūtra, iii. 4, 14, etc. Cf. Yamasū;
Yuktāśva. - ↑ Taittirīya Saṃhitā, vii. 1, 1, 3;
Pañcaviṃśa Brāhmaṇa, xxiv. 12, 3;
Śatapatha Brāhmaṇa, v. 3, 1, 8, and cf. Rv. iii. 39, 3.
Cf. Weber, Indische Studien, 17, 298300;
Naxatra, 2, 314, n.