यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहितम्, क्ली, (रुह + “रुहे रश्च लो वा ।” उणा० ३ । ९४ । इति इतन् ।) कुङ्कुमम् । रक्तम् । ऋजुशक्रशरासनम् । इति मेदिनी । ते, १४५ ॥ (यथा, मनुः । १ । ३८ । “विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । उल्कानिर्घातकेतुंश्च ज्योतींष्युच्चावचानि च ॥”)

रोहितः, पुं, (रोहतीति । रुह + “रुहे रश्च लो वा ।” उणा० ३ । ९४ । इति इतन् ।) मीन- विशेषः । (यथाह कश्चित् । “ईलीशो जितपियूषो वाचा वाचामगोचरः । रोहितो नो हितः प्रोक्तो मद्गुरो मद्गुरोः प्रियः ॥”) रोहितमत्स्यस्य लक्षणं गुणाश्च यथा, -- “कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ लोहितो वृत्तवक्त्रः । कोष्णं बल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमृध्नाति वीर्य्यम् ॥” इति राजनिर्घण्टः ॥ अपि च । “रक्तोदरो रक्तमुखो रक्ताक्षो रक्तपक्षतिः । कृशपक्षो झसश्रेष्ठो रोहितः कथितो बुधैः ॥ रोहितः सर्व्वमत्स्यानां वरो वृष्योऽर्द्दितार्त्तिजित् । कषायानुरसः स्वादुर्व्वातघ्नो नातिपित्तकृत् ॥ ऊर्द्ध्वजत्रुगतान् रोगान् हन्याद्रोहितमुण्डकम् ॥” इति भावप्रकाशः ॥ (तथाच । “वातघ्नो नहि पित्तकृद्बलकरः स्याद्रोहितः सर्व्वदा ॥” इति हारीते प्रथमस्थाने एकादशेऽध्याये ॥ “शैवलाहारभोजित्वात् स्वप्नस्य च विवर्ज्जनात् । रोहितो दीपनीयश्च लघुपाको महाबलः ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “कषायानुरसस्तेषां शष्पशैवालभोजनः । रोहितो मारुतहरो नात्यर्थं पित्तकोपणः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ स्वनामख्यातो हरिश्चन्द्रश्च नृपतेः पुत्त्रः । यथा देवीभागवते । ७ । १५ । १५ ॥ “राजा पुत्त्रमुखं दृष्ट्वा सुखमाप महत्तरम् । नामास्य रोहितश्चेति चकार विधिपूर्ब्बकम् ॥” अस्य विवरणन्तु तश्रैव द्रष्टव्यम् ॥) मृगभेदः । रोहितकवृक्षः । इति मेदिनी । ते, १४६ ॥ (रोहीतोऽपि पाठः । रोहीतकशब्ददर्शनात् ॥ यथा, सुश्रुते । ६ । १७ । “पलाशरोहीतमधूकजा रसाः क्षौद्रेण युक्ता मदिराग्रमिश्रिताः ॥” अग्निघोटकः । इति निघण्टुः । १ । १५ ॥ “रोहन्ति आरोहन्ति रथं वहन्त्यादिवमिति रोहितः ।” इति तत्र देवराजयज्वा ॥ यथा, ऋग्वेदे । १ । ९४ । १० । “यदयुक्था अरुषा रोहिता रथे ॥” “रोहिता लोहितवर्णौ रोहित इत्यग्नेरश्वस्याख्या रोहितोऽग्नेरितिदर्शनात् रोहितेनत्वाग्निर्द्देवतां गमयत्वितिमन्त्रवर्णाच्च ।” इति तद्भाष्ये सायणः ॥) रक्तवर्णः । रक्तवर्णविशिष्टे, त्रि । इत्यमरः ॥ (यथा, वाजसनेयसंहितायाम् । १६ । १९ । “नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमः ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित नपुं।

ऋजु_इन्द्रधनुस्

समानार्थक:रोहित

1।3।10।2।3

स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरम्मदः। इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम्.।

सम्बन्धि1 : मेघः

पदार्थ-विभागः : , विद्युत्

रोहित पुं।

रक्तवर्णः

समानार्थक:लोहित,रोहित,रक्त

1।5।15।1।2

लोहितो रोहितो रक्तः शोणः कोकनदच्छविः। अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः॥

 : अधिकरक्तवर्णः, ईषद्रक्तवर्णः, श्वेतरक्तवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

रोहित पुं।

रोहितमत्स्यः

समानार्थक:रोहित

1।10।19।2।1

क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो झषाः। रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

रोहित पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।2।5

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित¦ पु॰ रुह--इति।

१ सूर्य्ये मेदि॰

२ वर्णभेदे च

३ मत्स्यभेदे पु॰ उज्ज्वल॰।

४ लताभेदे

५ मृग्याञ्च स्त्री ङीप् मेदि॰।

रोहित¦ न॰ रुह इतच्।

१ रुधिरे

२ कुङ्कुमे

३ ऋजौ इन्द्रचापे[Page4816-b+ 38] मेदि॰।

४ रोहितकवृक्षे पु॰ स्वनामख्याते

५ मत्स्यभेदेपुंस्त्री॰ स्त्रियां ङीष् मेदि॰।
“रक्तोदरो रक्तमुखोरक्ताक्षो रक्तपक्षतिः। कृशपक्षो झसश्रेष्ठो रोहितःकथितो बुधैः। रोहितः सर्वमत्स्यानां वरो वृष्योऽर्द्दि-तार्त्तिजित्। कषायानुरसः स्वादुर्वातघ्नो नातिपित्त॰कृत्। ऊर्द्ध्वजत्रुगतान् रोगान् हन्याद्रोहितमुण्डकम्” भावप्र॰।

६ रक्तवर्णे पु॰

७ तद्वति त्रि॰ अमरः। स्त्रियांङीष् तस्य नत्वे णत्वम्।

८ अग्निवाहने मृगभेदे निध-ण्टुः। स्वार्थे क। रोहितक उक्तार्थे

९ वृक्षभेदे अमरः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित¦ mfn. (-रोहितः रोहिता or रोहिणी रोहितं) Red, of a red colour. m. (-तः)
1. Red, (the colour.)
2. The Ro4hi-fish, (Cyprinus Rohita, HAM.)
3. A kind of deer.
4. A tree, (Andersonia Rohitaka, Rox.) n. (-तं)
1. INDRA'S bow unbent and invisible to mortals.
2. Safflower, (Carthamus tinctorius.)
3. Blood. E. रुह् to grow or go, Una4di aff. इतच् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित [rōhita], a. (-रोहिता or -रोहिणी f.) [रुहेः इतन्, रश्च लो वा Uṇ.3.95] Red, red-coloured; विदर्भसुश्रूपयोधरे रोहति रोहितश्रीः N.7.76.

तः Red colour.

A fox.

A kind of deer.

A red horse.

N. of Hariśchandra's son.

A kind of fish; पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः Ms.5.16.

तम् Blood.

Saffron.

A straightf rain-bow; विद्युतो$शनिमेघांश्च रोहितेन्द्रधनूंषि च Ms.1.38.-Comp. -अश्वः fire; लोकं विलोलार्चिषि रोहिताश्वे Ki.16.54.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित mf( आor इणीSee. )n. (See. लोहित)red , reddish RV. etc.

रोहित m. a red or chestnut horse RV. TS. Br. (applied to the Sun AV. xiii , 1 etc. , and therefore in pl. N. of these hymns)

रोहित m. a kind of deer VarBr2S. Uttarar. Sus3r.

रोहित m. a kind of fish , Cyprinus Rohitaka Mn. MBh. etc.

रोहित m. a kind of tree , Andersonia Rohitaka Sus3r.

रोहित m. a sort of ornament made of precious stones L.

रोहित m. a partic. form of rainbow(See. n. ) VarBr2S.

रोहित m. N. of a son of हरि-श्चन्द्रAitBr. BhP.

रोहित m. of a मनुHariv.

रोहित m. of a son of कृष्णib. ( v.l. रौहित)

रोहित m. of a son of वपुष्-मत्(king of शाल्मल) Ma1rkP.

रोहित m. of a river Buddh.

रोहित m. pl. N. of a class of गन्धर्वs R.

रोहित m. of a class of gods under the 12th मनुMa1rkP.

रोहित n. a kind of metre AitBr.

रोहित n. a kind of rainbow appearing in a straight form , इन्द्र's bow unbent and invisible to mortals VarBr2S. L. (See. रोहिते-न्द्र-धनुस्)

रोहित n. blood L.

रोहित n. saffron L.

रोहित n. N. of the वर्षruled by रोहित(son of वपुष्-मत्) VP.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of हरिश्चन्द्र; knowing that he would be sacrificed, went out of his kingdom. Having heard of the decease of his father, he wanted to return but was prevented by Indra. At the end of the sixth year, he pur- chased सुनश्शेप and returned home. Father of Harita. भा. IX. 7. 9-२१; 8. 1; Br. III. ६३. ११७; M. १२. ३८; वा. ८८. ११९.
(II)--a son of वपुष्मती, after whom came the kingdom of Rohita. Br. II. १४. ३२-3; वा. ३३. २८-29; Vi. II. 4. २३, २९.
(III)--a son of सत्यभामा and कृष्ण. Br. III. ७१. २४७; M. ४७. १७; वा. ९६. २३८.
(IV)--a progenitor and a son of दक्ष; परा, मरीचि, and सुधर्मान gan2as, all of १२ gods each are from him. Br. IV. 1. ५६-61; वा. १००. ६०.
(V)--a Mt. a hill of शाल्मलिद्वीप. M. १२२. ९६.
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ROHITA (ROHITĀŚVA) : The son of Hariścandra. This son, who was born by the blessing of Varuṇa, was wanted to be sacrificed by Varuṇa himself. In con- nection with this Hariścandra had to bear much sorrow and misery. (For details see under Hariścandra).


_______________________________
*2nd word in left half of page 651 (+offset) in original book.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Rohita denotes a ‘red horse’ in the Rigveda[] and later.[]

2. Rohita is a son of Hariścandra in the famous tale of Śunaḥśepa in the Aitareya Brāhmaṇa (vii. 14) and the Śāṅkhāyana Śrauta Sūtra (xv. 18, 8).
==Foot Notes==

  1. i. 94, 10;
    134, 9;
    ii. 10, 2;
    iii. 6, 6, etc.
  2. Taittirīya Saṃhitā, i. 6, 4, 3;
    Pañcaviṃśa Brāhmaṇa, xiv. 3, 12, etc. So Rohita in Av. xiii. 1, 1 et seq., represents the sun as a ‘red horse.’
"https://sa.wiktionary.org/w/index.php?title=रोहित&oldid=503934" इत्यस्माद् प्रतिप्राप्तम्