यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षणम्, क्ली, (लक्ष्यतेऽनेनेति । लक्ष + ल्युट् । यद्वा, “लक्षेरट् च ।” उणा० ३ । ७ । इति नप्रत्ययस्तस्याडागमश्च ।) चिह्नम् । (यथा, रघुः । १० । ६ । “अव्याक्षेपो भविष्यन्त्याः कार्य्यसिद्धेर्हि लक्ष- णम् ॥”) नाम । इति मेदिनी । णे, ७५ ॥ लक्ष्यते ज्ञायते- ऽनेनेति लक्षणम् । तद्द्विविधम् । इतरभेदानु- मापकम् । व्यवहारप्रयोजकञ्च । इति न्याय- मतम् ॥ व्याकरणमते तु । “कृत्तद्धितसमासानामभिधानं नियामकम् । लक्षणन्त्वनभिज्ञानां तदभिज्ञानसूचकम् ॥” इति वोपदेवः ॥ (लक्षणलक्षणन्तु । “समानासमानजातीयो व्यवच्छेदो लक्षणार्थः ।” इति सांख्यतत्त्वकौमु- द्याम् । ५ ॥ सुखदुःखलक्षणं यथा, मनौ । ४ । १६० । “सर्व्वं परवशं दुःखं सर्व्वमात्मवशं सुखम् । एतद्बिद्यात् समासेन लक्षणं सुखदुःखयोः ॥”) दर्शनम् । इति लक्षधात्वर्थदर्शनात् ॥

लक्षणः, पुं, (लक्ष + “लक्षेरट् च ।” उणा० ३ । ७ । इति नस्तस्याडागमश्च । लक्षणमस्त्यस्येति अच् वा ।) सौमित्रिः । यथा, हरिवंशे । ४१ । १२९ । “लक्षणानुगतो यश्च सर्व्वभूतहिते रतः । चतुर्द्दश वने तप्त्वा तपो वर्षाणि राघवः ॥”) सारसपक्षी । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

1।3।17।1।6

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्. सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण¦ न॰ लक्ष्यतेऽनेन लक्ष--करणे ल्युट

१ इतरभेदानु-मापके चिह्ने
“ऋषयाऽपि पदार्थानां नान्त यान्ति पृ-थकत्वतः। लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः”। यथा पृथिव्या गन्धो लक्षणं स हि पृथिवीं परस्मात्भिन्नतया अनुमापयति। तच्च द्विविधम्
“स्वरूप तटस्थंद्विधा लक्षणं स्यात् स्वरूपे प्रविष्टं स्वरूपाद्विभिन्नम्” इ-त्युक्तेः स्वरूपलक्षणं तटस्थलक्षणं च यथा आकाशोविलम् सच्चिदानन्दो ब्रह्मेति स्वरूपलक्षणम्। काकवत्गृहम् जगज्जन्मादिकर्तृ ब्रह्मेति तटस्थलक्षणम्।

२ स्वरूपेयथा घटलक्षणं वस्तु

३ नाम्नि व्यवहारोपयोगिनि

४ चिह्नेच मेदि॰। कर्त्तरि ल्युट्

५ स्वरूपप्रतिप दके
“नोदनालक्ष-णार्थो धर्मः” इति जैमिनिसूत्रम् नोदना विधिवाक्यमेवलक्षणं स्वरूपज्ञापिका यस्य तादृशोऽर्थः धर्म इतितदर्थः।

६ शब्दसाधुताप्रतिपादके व्याकरणादिसूत्रे चन॰
“लक्षणं त्वनभिज्ञानाम्” अमरः। कर्मणि ल्युट्।

७ प्रतिपाद्ये यथा
“इत्थं द्वादशलक्षण्येति” माधवीयन्यायमासा द्वादशानां लक्षणानां प्रतिपाद्यविषयाणां समा-हारः इति तदर्थः। लक्ष युच्। शब्दनिष्ठे वाच्यार्थ-[Page4818-b+ 38] संव र्थिबोधकतारूपे
“मुख्यार्थबाधे तद्योगे ययाव्योऽर्थःप्रतीयते। रूढेः प्रथोजनाद्वापि लक्षणा शक्तिरर्पिते-त्युक्ते

८ वृत्तिभेद स्त्री। यथा गङ्गायां घोषः प्रतिबसती-त्यादौ गङ्गाशब्दस्य जलप्रवाहरूपे स्वार्थेऽन्वयासम्भवाततत्सम्बद्धतीरादिबोधकता।

९ लक्ष्मणे रामानुजे पु॰

१० सारसपक्षिणि पुंस्त्री॰ तत् स्त्रियां राजनि॰ स्त्री टाप्। लक्षणाभेदादिकं शब्दशक्तिप्रकाशिकायामुक्तं यथा
“जहत्स्वार्थाजहत्स्वार्थानिरूढाधुनिकादिकाः। लक्षणाविविधास्ताभिर्लक्षकं स्यादनेकधा”। काचिल्लक्षणा शक्या-वृत्तिरूपेण बोधकतया जहत्स्वार्थेत्युच्यते यथा तीर-त्वादिना शङ्गादिपदस्य। काचिच्छक्यलक्ष्योभयवृत्तिनाशक्यवृत्तिनैव वा रूपेणानुभावकत्वादजहत्स्वार्था यथादूव्यत्वादिना नीलघटत्वादिना च घटपदस्य। काचि-ल्लक्ष्यतावच्छेदकीभूततत्तद्रूपेण पूर्वपूर्वप्रत्यायकत्वात्निरूढा यथा आरुण्यादिप्रकारण तदाश्रयद्रव्यानुभाव-कत्वादरुणादिपदस्य। काचिच्च पूर्वपूर्वं ताद्रूप्येणा-प्रत्यायकत्वादाधुनिकी यथा घटत्वादिना पटादिपदस्य। आदिना शक्यसदृशत्वप्रकारेण बोधकतया गौण्युप-गृह्यते यथा अग्निर्माणवक इत्यादावग्निसदृशत्वादिनाअग्न्यादिपदस्य। तदेवं विवधलक्षणावत्त्वाल्लक्षकं ना-मापि जहत्स्वार्थादिभेदादनेकविधमित्यर्थः। स्वादेतत्यदि तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीरा-द्यनुभवे भवेद्धेतुर्भवेदप्युक्तक्रमेण लक्षकानां विभामःनत्वेतदस्ति तीराद्यन्वयबोधं प्रति तीरादिशक्तत्वेनैव पद-ज्ञानस्य लाघवेन हेतुतया लक्षकाणामननुभावकत्वात्गुरूणामग्नौ शैत्य स्पृशेदित्यादौ शक्येन दहनादिनेवगङ्गायां घोष इत्यादौ लक्षितेन तीरादिना सार्द्धमगृ-हीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वादेरन्वयबोधप्रविष्टत्वा-दिति चेन्न प्रकृत्यर्थावच्छिन्नस्यैव प्रत्ययार्थस्य धर्म्यन्तरेऽ-न्वयबुद्धेर्व्युत्पन्नतया तीराद्यविशेषितस्य सुबर्थाधेय-त्वादेर्घोषादावन्वयबोधायोगात्। न च शक्तस्यैव पदस्यस्वसाकाङ्क्षपदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्मिकान्वयबोधंप्रति हेतुत्वादन्वयबुद्धौ लक्ष्यार्थस्याप्रवेशः, कुन्ताः प्रति-शन्तीत्यादौ लक्ष्यस्य कुन्तधरादेरन्वयविशेष्यत्वानुपपत्तेःकुमतिः पशुरित्यादौ शक्यलक्ष्यार्थयोरन्वयबोधस्याप्यानुभविकावाच्च। तस्माच्छक्तेरिव भक्तेरपि ज्ञानमनुभावकं भवत्येव कार्य्यातावच्छेदकस्य सङ्कोचाच्च न व्यभिचारः” सा च बहुधा विस्तरस्तु सा॰ द॰

२ प॰ दृश्यः। [Page4819-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण¦ n. (-णं)
1. A mark, a spot.
2. A name, an appellation.
3. Sight, seeing.
4. An indication, a predicate, any thing by which an object is designated or distinguished.
5. A symptom or any indi- cation of actual disease. m. (-णः)
1. The younger brother of RA4MA.
2. The Indian crane. f. (-णा)
1. The female of the Indian crane.
2. A goose.
3. An ellipsis, a word, &c. understood, though not insert- ed.
4. The force or application of a word or phrase. E. लक्ष् to see, to mark, aff. ल्युट्; or लक्ष् as before, Una4di aff. न and अट् augment; also with मुट् augment, लक्ष्मण, which in the masc. and fem. forms is the more usual reading.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षणम् [lakṣaṇam], [लक्ष्यते$नेन लक्ष्-करणे ल्युट् Uṇ.3.8.]

A mark, token, sign, indication, characteristic, distinctive mark; वधूदुकूलं कलहंसलक्षणम् Ku.5.67; अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् Subhāṣ; उपकारापकारौ हि लक्ष्यं लक्षण- मेतयोः H.4.15; अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् R.1.6;19.47; गर्भलक्षण Ś.5; पुरुषलक्षणम् 'the sign or organ of virility'.

A symptom (of a disease).

An attribute, a quality.

A definition, accurate description; असाधारणधर्मो लक्षणम्; नामधेयेन पदार्थमात्रस्याभि- धानमुद्देशः, तत्रोद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मो लक्षणम् Vātsyāyana Bhāṣya 1.1.2.

A lucky or auspicious mark on the body (these are considered to be 32); द्वात्रिंशल्लक्षणोपेतः; लक्षणसंपन्नान्नां गवामधः सस्नौ K.64.

Any mark or features of the body (indicative of good or bad luck); क्व तद्विधस्त्वं क्व च पुण्यलक्षणा Ku.5.73; क्लेशावहा भर्तुरलक्षणाहम् R.14.5.

A name, designation, appellation (oft. at the end of comp.); विदिशालक्षणां राजधानीम् Me.24.

Excellence, merit, good quality; as in आहितलक्षण R. 6.71 (where Malli. renders it by प्रख्यातगुण and quotes Ak.: गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ).

An aim, a scope, an object.

A fixed rate (as of duties); नदीतीरेषु तद्विद्यात् समुद्रे नास्ति लक्षणम् Ms.8.46.

Form, kind, nature.

Effect, operation.

Cause, occasion.

Head, topic, subject.

Pretence, disguise (= लक्ष); प्रसुप्तलक्षणः Māl.7.

A line, spot.

Observation, seeing.

Indicatory characteristic; लक्ष्यते येन तल्लक्षणम्, धूमो लक्षणमग्नेरिति हि वदन्ति ŚB. on MS.1.1.2.

A chapter; धर्मो द्वादशलक्षण्या व्युत्पाद्यः.

A sexual organ; लक्षणं लक्षणेनैव वदनं वदनेन च Mb.13.4.58.

णः N. of Lakṣmaṇa.

The crane.

णा An aim, object.

(In Rhet.) An indirect application or secondary signification of a word, one of the three powers of a word; it is thus defined: मुख्यार्थबाधे तद्योगे रूढितो$थ प्रयोजनात् । अन्यो$र्थो लक्ष्यते यत् सा लक्षणारोपिता क्रिया K. P.2. लक्षणा शक्यसंबन्धस्तात्पर्यानुपपत्तितः Bhāṣā P.; see S. D.13. also श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा ŚB. on MS.6.2.2; A. Rām.7.5.26-27.

A goose.

N. of Duryodhana's daughter. -Comp. -अन्वित a. possessed of auspicious marks; उद्वहेत द्विजो भार्यां सवर्णां लक्षणा- न्विताम् Ms.3.4. -कर्मन् n. definition. -ज्ञ a. able to interpret or explain marks (as on the body). -भ्रष्ट a. deprived of good quatities, ill-fated, unlucky; जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः Y.3.217. -लक्षणा = जहल्लक्षणा q. v.-संनिपातः branding, stigmatizing. -संपद् f. a multitude of marks.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण mfn. indicating , expressing indirectly Veda7ntas.

लक्षण m. Ardea Sibirica L.

लक्षण m. N. of a man Ra1jat. (often confounded with , लक्ष्मण)

लक्षण n. ( ifc. f( आ). )a mark , sign , symbol , token , characteristic , attribute , quality( ifc. = " marked or characterized by " , " possessed of ") Mn. MBh. etc.

लक्षण n. a stroke , line ( esp. those drawn on the sacrificial ground) S3Br. Gr2S3rS.

लक्षण n. a lucky mark , favourable sign Gr2S3rS. Mn. MBh. etc.

लक्षण n. a symptom or indication of disease Cat.

लक्षण n. a sexual organ MBh. xiii , 2303

लक्षण n. a spoon (?) DivyA7v

लक्षण n. accurate description , definition , illustration Mn. Sarvad. Sus3r.

लक्षण n. settled rate , fixed tariff Mn. viii , 406

लक्षण n. a designation , appellation , name( ifc. = " named " , " called ") Mn. MBh. Ka1v.

लक्षण n. a form , species , kind , sort( ifc. = " taking the form of " , " appearing as ") Mn. S3am2k. BhP.

लक्षण n. the act of aiming at , aim , goal , scope , object( ifc. = " concerning " , " relating to " , " coming within the scope of ") APra1t. Ya1jn5. MBh. BhP.

लक्षण n. reference , quotation Pa1n2. 1-4 , 84

लक्षण n. effect , operation , influence ib. i , 1 , 62 etc.

लक्षण n. cause , occasion , opportunity R. Das3.

लक्षण n. observation , sight , seeing W.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an elephant, son of अञ्जना. Br. III. 7. ३३९.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lakṣaṇa[१] or Lakṣman[२] denotes the ‘mark’ made on cattle by branding to distinguish ownership. According to the Maitrāyaṇī Saṃhitā,[३] it was to be made under the Nakṣatra Revatī, clearly because of the property indicated in the name (‘wealthy’) of that Nakṣatra. See Aṣṭakarṇī.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण न.
(लक्ष् + ल्युट्) लक्षण, चिह्न (प्राचीनवंश की बीच की धरन के पूर्व यज्ञीय भूमि पर निर्मित, जहाँ ‘ब्रह्मौदन’ पकाने के लिए अगिन् को रखने के लिए खनने का कार्य किया जाता है, मा.श्रौ.सू. 1.5.1.13; चिह्न, निशान, बौ.शु.सू. 22।

  1. Gobhila Gṛhya Sūtra, iii. 6, 5. Cf. Śāṅkhāyana Gṛhya Sūtra, iii. 10;
    Weber, Indische Studien, 5, 35;
    13, 466.
  2. Av. vi. 141, 2;
    Maitrāyaṇī Saṃhitā, iv. 2, 9.
  3. Loc. cit.
"https://sa.wiktionary.org/w/index.php?title=लक्षण&oldid=480057" इत्यस्माद् प्रतिप्राप्तम्