यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खदिरः, पुं, (खद स्थैर्य्यहिंसयोः + “अजिर- शिशिरशिथिलेति ।” उणां । १ । ५४ । इति किरच् ।) वृक्षविशेषः । खयेरगाछ इति भाषा । तत्पर्य्यायः । गायत्त्री २ बालतनयः ३ दन्त- धावनः ४ । इत्यमरः । २ । ४ । ४९ ॥ तिक्तसारः ५ कण्टकीद्रुमः ६ । इति रत्नमाला ॥ बालपत्रः ७ खद्यपत्री ८ क्षितिक्षमः ९ सुशल्यः १० वक्र- कण्टः ११ यज्ञाङ्गः १२ जिह्वाशल्यः १३ कण्टी १४ सारद्रुमः १५ कुष्ठारिः १६ बहुसारः १७ मेध्यः १८ बालपुत्त्रः १९ रक्तसारः २० कर्कटी २१ जिह्वशल्यः २२ । इति जटाधरः ॥ कुष्ठ- हृत् २३ बालपत्रकम् २४ यूपद्रुमः २५ । इति शब्दरत्नावली ॥ अपि च भावप्रकाशे । “खदिरो रक्तसारश्च गायत्त्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च पाक्षिकः ॥ खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत् । तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान् । श्वित्रशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत् ॥”

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खदिर पुं।

खदिरः

समानार्थक:गायत्री,बालतनय,खदिर,दन्तधावन

2।4।49।2।3

रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः। गायत्री बालतनयः खदिरो दन्तधावनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खदिर¦ पु॰ खद--किरच्। (खएर) ख्याते

१ वृक्षभेदे तस्यसारे स्थिरत्वात्तथात्वम्।

२ इन्द्रे त्रिका॰ शत्रुहिंसकत्वात्तथात्वम्। खे आकाशे दीर्य्यते इष्टापूर्त्तकारिभिर्यतःदॄ--अपादाने किरच्।

३ चन्द्रे मेदि॰। इष्टापूर्त्तकारि-भिर्हि चन्द्रमण्डलात् आरब्धास्मयदेहविदारेणाकाशेपततात् तस्य तथात्वं अवरोहशब्दे

४४

० पृ॰ विवृतिःखदिरवृक्षभेदपर्य्यायगुणा भावप्र॰ उक्ता यथा
“खदिरो रक्तसारश्च गायत्री दन्तधावनः। कण्टकीबालपत्रश्च बहुशल्यश्च यज्ञिथः। खदिरः शीतलो दन्त्यःकण्डूकासारुचिप्रणुत्। तिक्तः कषायो मेदोघ्नः कृमि-मेहज्वरव्रणान्। श्विवशोथामपित्तास्रपाण्डुकुष्ठकफान्हरेत्। खदिरः श्वेतसारोऽन्यः कदरः सोमवल्ककः। कदंरो विशदो वर्ण्यो मुखरोगकफास्रजित्। इरिमेदीविट्खदिरः कालस्कन्धोऽरिमेदनः। इरिमेदः कषायोष्णोमुखदन्तगदास्रजित्। हन्ति कण्डूविषश्लेष्मकृमिकुष्ठविषव्रणान्” खदिररसादिविधानं सुश्रुते उक्तं यथा
“अतः खदिरविधानमुपदेक्ष्यामः। प्रशस्तदेशजातमनुपहतमध्यमवयसं खदिरं परितः खानयित्वा सध्यममूलंछित्त्वायोमयं कुम्भं तस्मिन्नन्तरे निदध्याद्यथा रस-ग्रहणसमर्थो भवति। ततस्तं गोमयमृदावलिप्तमवकीर्य्ये-न्धनैर्गोमयमिश्रैरादीपयेत्। यथास्य दह्यमानस्य रसोद्रवत्यधस्ताद्यदा जानीयात्पूर्णं भाजनमित्यथैवमुद्धृत्यपरिस्राव्य रसमन्यस्मिन् पात्रे निधायानुगुप्तं निदध्यात्ततो यथायोगं मात्रामामलकरसमधुसर्पिभिः संसृज्योपयुञ्जीत जीर्णे भल्लातकबिधानवदाहारः परिहारश्च। प्रस्थे चोपयुक्ते शतं वर्षाणामायुषोऽभिवृद्धिर्भवति॥ खादेरसारतुलामुदकद्रोणे विपाच्य षोडशांशावशिष्टमव-तार्य्यानुगुप्तं निदध्यात् तमामलकरसमधुसर्पिर्भिः संसृ-ज्योपयुञ्जीत। एष एव सर्ववृक्षसारेषु कल्पः। खदिर-सारचूर्णतुलां खदिरसारक्वाथमात्रां वा प्रातः प्रातरुप-[Page2464-b+ 38] सेवेत खदिरसारक्वाथसिद्धमाविकं वा सर्पिः। अमृत-वल्लीस्वरसं क्वाथं वा प्रातःप्रातरुपसेवेत तत्सिद्धं वासर्पिः अपराह्णे ससर्पिष्कमोदनमामलकयूषेण भुञ्जी-तैवं मासमुपयुज्य सर्वकुष्ठैर्विमुच्यत” इति।
“कृष्णतिलभल्लातकतैलामलकरससर्पिषां द्रोणं शालसारा-दिकषायस्य च त्रिफलात्रिकटुकरूषफलमज्जविडङ्गफल-सारचित्रार्क्कावल्गुजहरिद्राद्वयत्रिवृद्दन्तीन्द्रयवयष्टीमघुका-तिविषारसाञ्जनप्रियङ्गूनां पालिकान् भागांस्तानैकध्यंस्नेह्यपाकविधानेन पचेत् तत्साधुसिद्धमवतार्य्य परिव्रा-व्यानुगुप्तं निदध्यात् तत उपसंस्कृत्य शरीरं प्रातः प्रात-रुत्थाय पाणिशुक्तिमात्रं क्षौद्रेण प्रतिसंसृज्योपयुखीतजीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मन्तं खदिरोदकसिद्धं मृद्वोदनमश्नोयात् खदिरोदकसेवीत्येवं द्रोणमुप-युज्य सर्वकुष्ठैर्विमुक्तः शुद्धतनुः स्मृगिमान् वर्षशतायुर-रोगो भवति”। खदिरवृक्षस्योत्पत्तिः श्रूयते।
“प्रजा-पतेः प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत” इत्युपक्रम्य
“अस्थिभ्य एवास्य खदिरः समभवत् तस्मात् स दारुणोबहुसारोदारुणमिव ह्यस्थि तेनैवेनं तद्रूपेण समर्द्धयतिअन्तरे वैल्वा भवन्ति बाह्ये खादिरा अन्तरे हि मज्जानोबाह्यान्यस्थीनि” शत॰ ब्रा॰

१३ ।

४ ।

४ ।


“विना खदिर-सारेण हारेण हरिणीदृशाम्। नाधरे जायते रागो-नानुरागः पयोधरे” उद्भटः। खदिरस्य विकारः अण्। खादिर खदिरवृक्षजाते त्रि॰।
“खादिरे पशुं बध्नवतिखादिरं वीर्य्यकामस्य यूपं कुर्वीत” श्रुतिः। स्त्रियां ङीप्।
“अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः। उडुम्बरःशमी दूर्वा कुशाश्च समिधः क्रमात्” याज्ञ॰ उक्तेः तस्यसूर्य्यग्रहसमित्त्वम्।
“अभावे खदिरविल्वरौहितकान्”
“खदिराभावे सोमैतरान्”। कात्या॰

६ ।

१ ।

९ ।

१० । पलाशाभावे खदिरादीन् यूपान् कुर्वीत सोमयागे खदिरएव मुख्यः। तदभावे विल्वादि इति भेदः।

४ ऋषि-भेदे च तस्य गोत्रापत्यम् अश्वादि॰ फञ्। खादि-रायण तद्गोत्रापत्ये पुंस्त्री॰। ततः ऋष्यादि॰ चतु-रर्य्यां क। खदिरक तन्निर्वृत्तादौ त्रि॰। अदिरोविद्यतेऽस्य मतुप् मस्य वः अजिरा॰ न पूर्वदीर्घः। खदिरवत्खदिरयुते त्रि॰ स्त्रियां ङीप् खदिरवती नदीभेदे स्त्री
“अन्तोऽवत्याः” पा॰ अस्यान्तोदात्तता। खदिरात् परव-नशब्दस्य असंज्ञायामपि णत्वं खदिरवणम्। खदिरस्यपाकः पील्वा॰ कुणच्। खदिरकुण तत्पाके पु॰। ततः[Page2465-a+ 38] उत्करादि चतुरर्थ्याम् छ। खदिरीय तत्सन्निकृष्टदेशादौत्रि॰। वराहा॰ चतुरर्थ्यां कक्। खादिरक तन्निर्वृत्तादौ त्रि॰

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खदिर¦ m. (-रः)
1. A tree, the resin of which is used in medicine, Khayar Terra japonica or catechu, (Mimosa catechu.)
2. A name of INDRA.
3. The moon. f. (-री) A sensitive plant, (Mimosa pudica.) E. खद् to hurt, Unadi affix इरच्। [Page223-a+ 60]

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खदिरः [khadirḥ], [खद्-किरच्]

N. of a tree, Acacia Catechu; Y.1.32.

An epithet of Indra.

The moon.-Comp. -कुणः the fruit-time of the Khadira tree.-पत्रिका, -पत्री a sensitive plant. -सारः catechu.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खदिर m. Acacia Catechu (having very hard wood , the resin of which is used in medicine , called Catechu , Khayar , Terra japonica) RV. iii , 53 , 19 AV. TS. etc.

खदिर m. N. of इन्द्रL.

खदिर m. the moon L.

खदिर m. N. of a man g. अश्वा-दि

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khadira is mentioned frequently from the Rigveda[] onwards[] as a tree with hard wood[] --the Acacia catechu. The Aśvattha is referred to as engrafting itself upon it in the Atharvaveda,[] and from it the climbing plant Arundhatī is said to have sprung.[] The sruva or sacrificial ladle is spoken of as having been made from it,[] no doubt because of its hardness. It is in the same passage also said to have sprung from the sap (rasa) of the Gāyatrī. There is no clear reference to Catechu having been prepared from its core,[] as it was later. The core (sāra) was used for making amulets.[]

  1. iii. 53, 19.
  2. Av. iii. 6, 1;
    v. 5, 5;
    viii. 8, 3;
    x. 6, 6;
    Maitrāyaṇī Saṃhitā, iii. 9, 3, etc. So khādira, ‘made of Khadira wood,’ Taittirīya Saṃhitā, iii. 5, 7, 1;
    Aitareya Brāhmaṇa, ii. 1;
    Śatapatha Brāhmaṇa, i. 3, 3, 20;
    iii. 6, 2, 12 etc.
  3. Av. x. 6, 6.
  4. iii. 6, 1. Cf. viii. 8, 3.
  5. Av. v. 5. 5.
  6. Taittirīya Saṃhitā, iii. 5, 7, 1.
  7. It is called bahu-sāra, ‘of great strength,’ in the Śatapatha Brāhmaṇa, xiii. 4, 4, 9.
  8. Śāṅkhāyana Āraṇyaka, xii. 8.

    Cf. Zimmer, Altindisches Leben, 58, 58.
"https://sa.wiktionary.org/w/index.php?title=खदिर&oldid=498383" इत्यस्माद् प्रतिप्राप्तम्