यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान, कि अर्च्चे । इति कविकल्पद्रुमः ॥ (चु०- पक्षे भ्वा०-पर०-सक०-सेट् ।) कि मानयति मानति । इति दुर्गादासः ॥

मान, ङ विचारे । अर्च्चे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ङ मीमांसते शास्त्रं धीरः । अर्च्चायां तिबादयो न स्युरिति रमानाथः । इति दुर्गादासः ॥

मानम्, क्ली, (मीयतेऽनेनेति । मा + करणे ल्युट् ।) परिमाणम् । तत्पर्य्यायः । यौतवम् २ द्रुव- यम् ३ पाय्यम् ४ पौतवम् ५ । तत्तु तुलाङ्गुलि- प्रस्थैस्त्रिविधं भवति । तत्र तुलाग्रहणेनोन्मा- नाद्युपलक्ष्यते । अङ्गुल्या हस्तादि । प्रस्थेन द्रोणादि । इत्यमरभरतौ । २ । ९ । ८५ ॥ प्रमाणम् । इति मेदिनी । ने, १५ ॥ यत्र तालो विरमति तत् । तदेव गृहसुच्यते । तच्चतुर्विधम् । समं विषमं अतीतं अनागतञ्च । इति सङ्गीत- शास्त्रम् ॥ * ॥ अथ मानपरिभाषा । “न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित् । अतः प्रयोगकार्य्यार्थं मानमत्रोच्यते मया ॥ चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः । विहाय सर्व्वमानानि मागधं मानमुच्यते ॥ त्रसरेणुर्व्वुधैः प्रोक्तस्त्रिंशता परमाणुभिः । त्रसरेणुस्तु पर्य्यायनाम्ना ध्वंसीति गद्यते ॥ जालान्तरगतैः सूर्य्यकरैर्ध्वंसी विलोक्यते । षड्ध्वंसीभिर्म्मरीचिः स्यात्ताभिः षड्भिश्च राजिका । तिसृभी राजिकाभिश्च सर्षपः प्रोच्यते बुधैः । यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ॥ षड्भिस्तु रत्तिकाभिः स्यान्माषको हेम- धानकौ । माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते ॥ टङ्कः स एव कथितस्तद्द्वयं कोलमुच्यते । क्षुद्रमो वटकश्चैव द्रङ्क्षणः स निगद्यते ॥ कोलद्बयस्तु कर्षः स्यात् स प्रोक्तः पाणि- मानिकः । अक्षः पिचुः पाणितलं किञ्चित् पाणिश्च तिन्दु- कम् ॥ विडालपदकञ्चैव तथा षोडशिका मताः । करमध्यो हंसपदं सुवर्णं कवलग्नहम् ॥ उडुम्बरञ्च पर्य्यायैः कर्ष एब निगद्यते । स्यात् कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा । शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका । प्रकुञ्चः षोडशी विल्वं पलमेमात्र कीर्त्त्यते ॥ पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते । प्रसृतिभ्यामञ्जलिः स्यात् कुडवोऽर्द्धसरावकः ॥ अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका । सरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः ॥ शरावाभ्यां भवेत् प्रस्थश्चतुःप्रस्थैस्तथाढकः । भाजनं कांस्यपात्रञ्च चतुःषष्टिपलश्च सः ॥ चतुर्भिराढकैर्द्रोणः कलशो नल्वणोर्मणः । उन्मानश्च घटो राशिर्द्रोणपर्य्यायसंज्ञितः ॥ द्रोणाभ्यां सूर्पकुम्भौ च चतुःषष्टिशरावकः । सूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता ॥ द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः । चतुःसहस्रपलिका षण्णवत्यधिका च सा ॥ पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः । तुलापलशतं ज्ञेया सर्व्वत्रैवैष निश्चयः ॥ माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् । राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः ॥” * ॥ मागधपरिभाषायां षड्रत्तिको माषश्चतुर्व्विंशति- रत्तिकष्टङ्कः षण्णवतिरत्तिकः कर्षः । अयं चरक- सम्मतः ॥ सुश्रुतमते । पञ्चरत्तिको माषो विंशतिरत्तिकष्टङ्कोऽशीतिरत्तिकः कर्षः । अय- मेव कलिङ्गपरिभाषायामपि । यतस्तत्राष्ट- रत्तिको माषो द्बात्रिंशद्रत्तिकष्टङ्कः । सार्द्ध- टङ्कद्वयमितः कर्षः । “गुञ्जादिमानमारभ्य यावत् स्यात् कुडवस्थितिः । द्रवार्द्रशुष्कद्रव्याणां तावन्मानं समं मतम् ॥ प्रस्थादिमानमारभ्य द्बिगुणन्तु द्रवार्द्रयोः । मानं तथा तुलायास्तु द्विगुणं न क्वचित् स्मृतम् ॥ मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम् । विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत् ॥” इति मागधमानम् ॥ * ॥ अथ कालिङ्गमानम् । “यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः कलौ । अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसम्मता ॥ यवो द्वादशभिर्गौरैः सर्षपैः प्रोच्यते बुधैः । यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते । माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत् क्वचित् ॥ चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च । गद्यानो माषकैः षडभिः कर्षः स्याद्दशमा- षिकः ॥ चतुःकर्षैः पलं प्रोक्तं दशशाणमितं बुधैः । चतुःपलैश्च कुडवः प्रस्थाद्याः पूर्ब्बवन्मताः ॥ स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम् । प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत् ॥ नाल्पं हन्त्यौषधं व्याधिं यथाम्भोऽल्पं महा- नलम् । अतिमात्रञ्च दोषाय यथा शस्ये बहूदकम् ॥” इति मानपरिभाषा । इति भावप्रकाशः ॥

मानः, पुं, (मन्यते बुद्ध्यतेऽनेन इति मन + घञ् ।) चित्तसमुन्नतिः । इत्यमरः । १ । ७ । २२ ॥ चित्तस्य समुन्नतिरक्षुद्रता मानः । साञ्जे धना- द्युत्कर्षेणात्मनि चित्तोन्नतिर्मान इति । मत्समो नास्तीति मननं मानः । इति तट्टीकायां भरतः ॥ (यथा, मनौ । ४ । १६३ । “द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्ण्यञ्च वर्जयेत् ॥”) आत्मनि पूज्यताबुद्धिः । इति नीलकण्ठः ॥ अनुरक्तयोर्दम्पत्योर्भावविशेषः । यथा, -- “दम्पत्योर्भाव एकत्र सतोरष्यनुरक्तयोः । स्वाभीष्टाश्लेषवीक्षादिनिरोधी मान उच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ पूज्यत्वम् । यथा, -- “अधमाः कलिमिच्छन्ति सन्धिमिच्छन्ति मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ मानो हि मूलमर्थस्य माने म्लाने धनेन किम् । प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥ अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥” इति गारुडे ११५ अध्यायः ॥ प्रियापराधसूचिका चेष्टा मानः । स च लघु- र्मध्यमो गुरुश्चेति । अल्पापनेयो लघुः । कष्टा- पनेयो मध्यमः । कष्टतमापनेयो गुरुः । असा- ध्यस्तु रसाभासः । अपरस्त्रीदर्शनादिजन्मा लघुः । गोत्रस्खलनादिजन्मा मध्यमः । अपर- स्त्रीसम्भोगदर्शनादिजन्मा गुरुः । अन्यथासिद्ध- कुतूइलाद्यपनेयो लघुः । अन्यथावादशपथाद्य- पनेयो मध्यमः । चरणपातभूषणदानाद्यपनेयो गुरुः । अपरस्त्रीदर्शनादिजन्मा यथा, -- “स्वेदाम्बुभिः क्वचन पिच्छिलमङ्गभूमौ क्षामोदरि क्वचन कण्टकितञ्चकास्ति । अन्यां बिलोकयति भासयति प्रियेऽपि मानः क्व धास्यति पदं तव तन्न विद्मः ॥” गोत्रस्खलनादिजन्मा यथा, -- “यद्गोत्रस्खलनं तत्तु भ्रमो यदि न मन्यते । रोमालिव्यालसंस्पर्शं शपथं तन्वि ! कारय ॥” अपरस्त्रीसम्भोगदर्शनादिजन्मा यथा, -- “दयितस्य निरीक्ष्य भालदेशं चरणालक्तकपिञ्जरं सपत्न्याः । सुदृशो नयनस्य कोणभासः श्रुतिमुक्ताः शिखरोपमा बभूवुः ॥” इति रसमञ्जरी ॥ ग्रहः । इति मेदिनी । ने, १५ ॥ (परिच्छेदके, त्रि । यथा, ऋग्वेदे । ७ । ८८ । ५ । “बृहन्तं मानं वरुण स्वधावः सहस्रद्बारं जगमा गृहन्ते ।” “मान्त्यस्मिन् सर्वाणि भूतानि इति मानं सर्वस्य भूतजातस्य पुरिच्छेदकमित्यर्थः ।” इति तद्भाष्ये सायनः ॥ पुं, मन्त्रः । यथा, ऋग्वेदे । १ । १८९ । ८ । “अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।” “मीयत इति मानो मन्त्रः तस्य सूनुरग्निः मन्त्रेणोत्पद्यमानत्वात् सप्तम्यर्थे प्रथमा ।” इति तद्भाष्ये सायनः ॥ निर्माता । यथात्रैव । १० । १४४ । ५ । “यं ते श्येनश्चारुमवृकं पदाभरदरुणं मान- मन्धसः ।” “मानं यागद्वारा निर्मातारम् ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान पुं।

अभिमानः

समानार्थक:मान,चित्तसमुन्नति

1।7।22।1।4

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान¦ विचारे भ्वा॰ सक॰ सेट स्वार्थे सन् नेट्। मीमांसतेअमीमांसिष्ट अर्चायां च तत्र न स्वार्थे सन्।

मान¦ अर्च्चे वा चु॰ उ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट्। मानयति ते मानति अमीमनत्--त अमानीत्।

मान¦ न॰ मा--ल्युट्।

१ परिमाणे हस्ततुलाप्रख्याद्यैर्द्रव्यपरि-च्छेदे भावप्र॰ मानपरिभाषा कर्षशब्दे दृश्या।

२ प्रमाणे
“मानाधीनामेयसि{??}” भीमांसकाः। गानाङ्गे काल-क्रियायां तालविरामोपलक्षिते

३ कालव्यापारे चमेदि॰। मन--घञ्। आत्मनि उत्कर्षाभिमानात्मि-कायां

४ चित्तसमुन्नतौ पु॰ अमरः।
“स्वाभीष्टाश्लेषवी-{??}दिविरोधी मान उच्यते” इत्युक्ते

५ अनुरक्त-दम्पत्योः

६ अवस्थाभेदे पु॰।
“मुञ्च मयि मानमनिदानम्जयदेवः।

७ सम्माने च। [Page4749-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान¦ n. (-नं)
1. Measure in general, whether of weight, length, or capa- city.
2. A measure, the fourth or eighth part of a K'ha4ri.
3. The computation of the duration of a year, solar, lunar, sydereal, &c.
4. Proof, demonstration.
5. Likeness.
6. Dimension. m. (-नः)
1. Arrogance, haughtiness, pride.
2. Female arrogance or indigna- tion.
3. Taking, seizing.
4. A blockhead.
5. An agent.
6. A barbarian.
7. Honour. E. मा to measure, ल्युट् aff.; or मन् to revere, (one's self,) aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मानः [mānḥ], [मन्-घञ्]

Respect, honour, regard, respectful consideration; दारिद्र्यस्य परा मूर्तिर्यन्मानद्रविणाल्पता Pt.2.159; Bg.6.7; so मानधन &c.

Pride (in a good sense), self-reliance, self-respect; जन्मिनो मानहीनस्य तृणस्य च समा गतिः Pt.1.16; R.19.81.

Haughtiness, pride, conceit, self-confidence, vanity; मानाद् रावणः परदारान् अप्र- यच्छन् (विननाश) Kau. A.1.6.

A wounded sense of honour.

Jealous anger, anger excited by jealousy (especially in women); anger in general; मुञ्च मयि मान- मनिदानम् Gīt.1; माधवे मा कुरु मानिनि मानमये 9; त्यजत मानमलं बत विग्रहैः R.9.47; Śi. 9.84; Bv.2.56; Dk.2.3.

Opinion, conception.

Ved. Object, purpose. -नम् [मा-ल्युट्]

Measuring.

A measure, standard; माना- धीना मेयसिद्धिः Mīmāṁsā; निराकृतत्वाच्छ्रुतियुक्तिमानतः A. Rām. 7.5.57.

Dimension, computation.

A standard of measure, measuring rod, rule; परिमाणं पात्रमानं संख्यै- कद्यादिसंज्ञिका Śukra.2.344.

Proof, authority, means of proof or demonstration; ये$मी माधुर्यौजः प्रसादा रसमात्र- धर्मतयोक्तास्तेषां रसधर्मत्वे किं मानम् R. G.; मानाभावात् (frequently occurring in controversial language) Pad. D.4. 3.

Likeness, resemblance. -Comp. -अन्ध a. blinded by pride. -अर्ह a. worthy of honour; Ms.2.137.-अवभङ्गः destruction of pride or anger. -आसक्त a. given to pride, haughty, proud. -उत्साहः energy arising from self-confidence; Pt.1.226. -उन्नतिःf. great respect or honour; (सत्संगतिः) मनोन्नतिं दिशति पापमपाकरोति Bh.2.23. -उन्मादः infatuation of pride.-कलहः, -कलिः a quarrel caused by jealous anger; Amaru. -क्षतिः f., -भङ्गः, -हानिः f. injury reputation or honour, humiliation, mortification, insult, indignity.

ग्रन्थिः injury to honour or pride.

violent anger. -ग्रहणम् fit of sulkiness. -द a.

showing respect.

proud; इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरम् Bh.3.24.

destroying pride.

a giver of honour (a mode of addressing lovers &c.). (-दः) a mystical name for the letter आ. (-दा) N. of the second digit of the moon. -दण्डः a measuring-rod; स्थितः पृथिव्या इव मानदण्डः Ku.1.1. -धन a. rich in honour; महौजसो मान- धना धनार्चिताः Ki.1.19. -धानिका a cucumber. -ध्मात a. puffed up with pride. -परिखण्डनम् mortification, humiliation. -भङ्गः see मानक्षति. -भाज् a. receiving honour from; राजस्नातकयोश्चैव स्नातको नृपमानभाक् Ms.2.139. -भृत्, पर a. possessing pride, extremely proud; प्रथमे मानभृतां न वृष्णयः Ki.2.44. -महत् a. rich or great in pride, greatly proud; किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी Bh.2. 29. -योगः the correct mode of measuring or weighing; मानयोगं च जानीयात्तुलायोगांश्च सर्वशः Ms.9.33. -रन्ध्रा a sort of clepsydra, a perforated water-vessel, which, placed in water and gradually filling, serves to measure time. -वर्जित a.

disgraced, dishonoured.

humble, lowly.

slanderous, libellous. -वर्धनम् indicating, increasing respect; यत्किंचिदेव देयं तु ज्यायसे मानवर्धनम् Ms.9.115. -विषमः one of the ways of embezzlement namely making use of false weights and measures; Kau. A.2.8.26. -सारः, -रम् a high degree of pride.

सूत्रम् a measuring-cord; Dk.2.2.

a chain (of gold &c.) worn round the body.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान See. p. 809 , col. 3.

मान m. ( मन्)opinion , notion , conception , idea Tattvas. (See. आत्म-म्)

मान m. purpose , wish , design AitBr.

मान m. self-conceit , arrogance , pride KaushUp. Mn. etc. (with Buddhists one of the 6 evil feelings Dharmas. 67 ; or one of the 10 fetters to be got rid of. MWB. 127 )

मान m. (also n. )consideration , regard , respect , honour Mn. MBh. etc.

मान m. a wounded sense of honour , anger or indignation excited by jealousy ( esp. in women) , caprice , sulking Ka1v. Das3ar. Sa1h.

मान m. N. of the father of अगस्त्य(perhaps also of -A अगस्त्यhimself Pa1n2. the family of मान) RV.

मान m. (in astron. ) N. of the tenth house VarBr2S. ( W. also a "blockhead Page809,2 ; an agent ; a barbarian ").

मान m. (3. मा)a building , house , dwelling RV.

मान m. an altar A1past.

मान m. ( मान)a preparation , decoction(?) RV. x , 144 , 5

मान n. measuring. meting out Ka1tyS3r. Hariv. etc.

मान n. measure , measuring-cord , standard RV. etc.

मान n. dimension , size , height , length (in space and time) , weight ib. ( ifc. = fold See. शत-म्)

मान n. a partic. measure or weight(= कृष्णतor रक्तिका; accord. to Sch. on TS. and Ka1tyS3r. 100 मानs = 5 पलs or पणs)

मान n. form , appearance RV.

मान n. likeness , resemblance S3is3.

मान n. (in phil. ) proof. demonstration , means of proof(= प्र-माण. See. )

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a साध्य. M. २०३. ११.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Māna as a measure of weight is said to be the equivalent of the Kṛṣṇala or Raktikā--that is, the berry of the Guñjā (Abrus precatorius). It occurs in compounds in the later Saṃhitās and the Brāhmaṇas.[१]

2. Māna is the name of a man occurring in several passages of the Rigveda. In one place[२] express mention is made of his son (sūnu), by whom, despite Bergaigne's view to the contrary,[३] Agastya must be meant. In another passage,[४] apparently the same meaning applies to Māna--that is, Agastya as ‘a Māna.’ In a third passage[५] the expression sūnave Mānena has been held by Sieg[६] to be an inversion of Mānasya sūnunā, ‘by the son of Māna’--i.e., Agastya; but it seems more likely[७] that either sūnor Māna is the fuller form of Agastya's name (‘pride of the son,’ with reference to his high ancestry), or that the son[८] of Māna (= Agastya) is alluded to as interested in Viśpalā.

The Mānas--that is, the descendants of Māna, are in several passages alluded to as singers.[९] Cf. Mānya, Māndārya.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मान न.
(मा + ल्युट्) एक माप, मा.श्रौ.सू. 1.5.6.2 (त्रिंशत् मानं दक्षिणा)।

  1. Taittirīya Saṃhitā, iii. 2, 6, 3;
    vi. 4, 10, 2;
    Taittirīya Brāhmaṇa, i. 3, 7, 7;
    7, 6, 2;
    Śatapatha Brāhmaṇa, v. 4, 3, 24;
    5, 5, 16, etc.
  2. Rv. i. 189, 8.
  3. Religion Védique, 2, 394. Cf. Pischel, Vedische Studien, 1, 173;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 221, n. 5;
    Ṛgveda-Noten, 1, 110;
    Sieg. Die Sagenstoffe des Ṛgveda, 107;
    Geldner, Rigveda, Glossar, 135.
  4. vii. 33, 13. Cf. verse 10.
  5. i. 117, 11.
  6. Loc. cit.
  7. Oldenberg, Ṛgveda-Noten, loc. cit.
  8. Bergaigne, loc. cit.;
    Pischel, loc. cit. Cf. Roth, St. Petersburg Dictionary, s.v., where sūnoḥ is taken as dependent on vājam.
  9. Rv. i. 169, 8;
    171, 5;
    182, 8;
    184, 5.

    Cf. Ludwig Translation of the Rigveda, 3, 116, 117, who thinks the Mānas were settled on the Sindhu (Indus). See Rv. i. 186,5
"https://sa.wiktionary.org/w/index.php?title=मान&oldid=503494" इत्यस्माद् प्रतिप्राप्तम्