व्रीहि
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रीहिः, पुं, (वर्हति वृद्धिं गच्छतीति । वृह वृद्धौ + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । पृषोदरादित्वात् साधुः ।) धान्यमात्रम् । आशुधान्यम् । इत्यमरः ॥ अस्य सामान्यनाम- गणना गुणाश्च यथा, -- “धान्यं भोग्यञ्च भोगार्हमन्नाद्यं जीवसाधनम् । तच्च तावत्त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ व्रीह्यादिकं यदि ह शूकसमन्वितं स्यात् यत् शूकधान्यमयमुद्गमकुष्टकादि । शिम्बीनिगूढमिति तत्प्रवदन्ति शिम्बी- धान्यं तृणोद्भवतया तृणधान्यमन्यत् । तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्यविवृद्धिदायि । शिम्बीभवं गुरु हिमञ्च विबन्धदायि वातालकन्तु शिशिरं तृणधान्यमाहुः ॥ “तिलैर्वीहियवैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥” व्रीहिः शरत्पक्वधान्यम् । याज्ञवल्क्यः । “हविष्यान्नेन वै मासं पायसेन च वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥ ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥” हरिष्यान्नेन शालिव्रीह्यन्नेन । इति । अमा- वास्यास्त्रिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयो- दशी व्रीहियवपाकौ च । “एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा- पतिः । श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥” इति विष्णुवचनं नवान्नागमश्राद्धस्यैव व्रीहि- यवोभयप्राप्तिविषयकत्वेन विधायकं ग्रैष्मादि- धान्यव्युदासाय । शालिधान्यस्य तु प्राप्तिः । “शरद्वसन्तयोः केचित् नवयज्ञं प्रचक्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥” इति छन्दोगपरिशिष्टे व्रीह्यप्राप्त्या नवशस्येऽष्टौ- शालिविधानात् यज्ञतुल्यन्यायात् श्राद्धेऽपि तथा कल्पनात् । इति च श्राद्धतत्त्वम् ॥ * ॥ नवान्न- श्राद्धकालो यथा । विष्णुः । अमावस्यास्तिस्रो- ऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्टपद्यूर्द्ध्वं कृष्ण- त्रयोदशी व्रीहियवपाकौ च । “एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः । श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥ व्रीहिपाके च कर्त्तव्यं यवपाके च पार्थिव । न तावाद्यौ महाराज विना श्राद्धं कथञ्चन ॥” इति मलमासतत्त्वम् ॥ तेन यागकरणं यथा, -- व्रीहिभिर्यजेत यवैर्यजेत इति श्रूयते ॥ तत्र “व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः । अप्रतीतयवाप्रामाण्यकल्पनम् ।” इत्येकादशी- तत्त्वम् ॥ * ॥ व्रीह्यप्राप्तौ शालिधान्येन कर्म्म- करणं यथा, -- “यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् । यवानामिव गोधूमा व्रीहीणामिव शालयः ॥” इति तिथ्यादितत्त्वम् ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रीहि पुं।
व्रीहिः
समानार्थक:आशु,व्रीहि,पाटल
2।9।15।2।2
पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने। आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ॥
: व्रीहिभेदः
पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्
व्रीहि पुं।
धान्यम्
समानार्थक:धान्य,व्रीहि,स्तम्बकरि
2।9।21।2।2
किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी। धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥
अवयव : यवादीनां_मूलम्,तुषः
: व्रीहिः, यवः, रेणुकः, कोद्रवः, मसूरः, वनमुद्गः, सर्षपः, गोधुमः, अर्धस्विन्नयवादिः, चणकः, तैलहीनतिलः, कङ्गुः, अतसी, तीक्ष्णाग्रधान्यम्, अपनीततृणसशीकृत_धान्यम्, अपनीतबुसधान्यम्, शमीप्रभवमाषादिधान्यम्, यवादिशूकधान्यम्, कलमषष्टिकाद्याः, श्यामाकादितृणधान्यानि, अखण्डतण्डुलाः, तुच्छधान्यम्
पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रीहि¦ पु॰ व्री--हि किच्च।
१ धान्यभेदे
२ आशुधान्ये चअमरः। तद्भेदादिकं भावप्र॰ उक्तं यथा
“वार्षिकाः कण्डिताः शुक्लाः व्रीहयश्चिरपाकिणः। कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि। शालामुखोजतुमुख इत्याद्याः व्रीहयः स्मृताः। कृष्णव्रीहिः सविज्ञेयो यः कृष्णतुषतण्डुलः। पाटलः पाटलापुष्पवर्णको व्रीहिरुच्यते। कुक्कुटाण्डाकृतिर्व्रीहिः कुक्कु-टाण्डक उच्यते। शालामुखः कृष्णशूकः कृष्णतण्डुलउच्यते। लाक्षावर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः। व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिताः। अल्पा-भिष्यन्दिनो बद्धवर्च्चस्काः षष्टिकैः समाः। कृष्णव्रीहिर्वर-स्तेषां तस्मादल्पगुणाः परे”। ततः अस्त्यर्थे व्रीह्या॰इनिठनौ। व्रीहिन् व्रीहिक तद्विशिष्टे त्रि॰ बिल्घा॰पुराडाशभिन्ने अवयवार्थे अण्। व्रैह तदवयवे। [Page5072-a+ 34]
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रीहि¦ m. (-हिः)
1. Rice of various kinds: eight principal sorts are enu- merated by native authorities, but the varieties are more numer- ous.
2. Rice ripening in the rainy season. E. व्री to choose, हि aff.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रीहिः [vrīhiḥ], [व्री-हि किच्च]
Rice; as in बहुव्रीहि q. v.
A grain of rice. -Comp. -अगारम् a granary. -काञ्चनम् a kind of pulse (Mar. मसुरा). -मयः a sacrifial cakeश
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रीहि m. (of doubtful derivation) rice pl. grains of rice (not mentioned in RV. , but in AV. named together with यव, माथ, and तिल; eight principal sorts are enumerated by native authorities) RV. etc.
व्रीहि m. a field of rice Ka1tyS3r.
व्रीहि m. rice ripening in the rainy season W.
व्रीहि m. any grain L.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a kind of paddy. Br. II. 7. १४४; M. ३४. ११; २३९. २२; वा. ९३. ९६. [page३-354+ ३०]
Vedic Index of Names and Subjects
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vrīhi, ‘rice,’ is never mentioned in the Rigveda,[१] but is frequently alluded to in the Atharvaveda[२] and later.[३] Rice seems to be indigenous in the south-east of India:[४] this fact accounts well for the absence of any mention of it in the Rigveda. Black and white rice is contrasted in the Taittirīya Saṃhitā,[५] where also[६] the distinctions of dark, swift-growing (āśu), and large rice (mahā-vrīhi) are found. Probably the swift-growing variety is that later known as ṣaṣṭika, ‘ripening in sixty days.’ Vrīhi and Yava, ‘barley,’ are normally conjoined in the texts.^7 Cf. Plāśuka.
Vedic Rituals Hindi
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
व्रीहि पु.
चावल, जै.ब्रा. II.34।
- ↑ To take dhānya bīja in Rv. v. 53, 13, as ‘rice seeds’ is unnecessary and very improbable, nor is there better reason to see in dhānya rasa in Av. ii. 26, 5. a ‘rice drink.’
- ↑ vi. 140, 2;
viii. 7, 20;
ix. 6, 14, etc. - ↑ Taittirīya Saṃhitā, vii. 2, 10, 3, where it is said to ripen in autumn;
Kāṭhaka Saṃhitā, x. 6;
xi. 5;
Maitrāyaṇī Saṃhitā, iii. 10, 2;
iv. 3, 2;
Vājasaneyi Saṃhitā, xviii. 12;
AitareyaBrāhmaṇa, ii. 8, 7;
11, 12;
viii. 16, 3.4;
Śatapatha Brāhmaṇa, v. 5, 5, 9;
Bṛhadāraṇyaka Upaniṣad, vi. 3, 22 (Mādhyaṃdina = vi. 3, 13 Kāṇva);
Chāndogya Upaniṣad, iii. 14, 3. - ↑ ii. 3, 1, 3. Cf. Taittirīya Brāhmaṇa, 1, 7, 3, 4;
Kāṭhaka Saṃhitā, xii. 4. 5, 6, etc. - ↑ i. 8, 10, 1.
- ↑ Av. xi. 4, 13;
Jaiminīya Brāhmaṇa, i. 43;
Chāndogya Upaniṣad, v. 10, 6, etc.
Cf. Zimmer, Altindisches Leben, 239.